मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 85

3
उपासनाखण्डः · 85

स्कन्दोपाख्यानं नाम पञ्चाशीतितमोऽध्यायः

क उवाच

शिवस्यालिङ्गनाद् भिल्ली मदनानलदीपिता ।

नाप क्वापि सुखं देवी निर्जले शफरी यथा

॥१॥

पतिता जलमध्ये सा शीतलोशीरशालिनी ।

न शर्म लेभे तत्रापि स्थले निद्रां न चालभत्

॥२॥

कर्पूरचन्दनं तस्या अधिकं तापमादधे ।

न शीतलपदार्थोऽस्याः कोऽपि सन्तोषमादधे

॥३॥

एवं बहुतिथे काले साऽस्थिचर्मावशेषिता ।

ततो गिरिशमागम्य गिरिजा गिरमब्रवीत्

॥४॥

न त्वं मृशसि मां देव कामवस्थां गताऽस्मि ह ।

दग्धोऽपि मदनो मह्यमत्यन्तं पीडयत्यहो

॥५॥

नानोपायाः कृतास्तस्य शान्तये न च साऽभवत् ।

येनोपायेन शान्तिः स्यात् स तं कुरु मम प्रभो

॥६॥

इति वाक्यं समाकर्ण्य प्रियायाः प्रियकृद्धरः ।

रहस्येतां करे कृत्वा पर्यङ्के पर्यवेशयत्

॥७॥

रेमे तया यथेष्टं स मदनेन वशीकृतः ।

मृतेनापि कृतं तेन महत्कार्यं सुरेरितम्

॥८॥

अनङ्गेन समो नैव धन्वीति यश आप्तवान् ।

तयोऽस्तु क्रीडतोर्याताः षष्टिसाहस्त्रवत्सराः

॥९॥

भ्रष्टस्थाना मुनिसुराः श्रुत्वा मदनचेष्टितम् ।

कैलासं पुनरायातास्तत्र क्रीडारतं हरम्

॥१०॥

ज्ञात्वा तूष्णीं स्थितास्तत्र चिन्ताव्याकुलचेतसः ।

तारकासुरभीतास्ते पुनर्गह्वरमागताः

॥११॥

कदा वधो भवेदस्य कदा स्थानानि याम च ।

करिष्यति कदा शम्भुरस्माकं दुःखनाशनम्

॥१२॥

इति चिन्तार्णवे मग्ना यावद ब्रह्मादयः सुराः ।

तावदूचे सुराचार्यो वाक्यं मे श‍ृणुतानघाः

॥१३॥

प्रेषयन् त्वखिला वह्नि रूपान्तरधरं हरम् ।

स हरं बोधयित्वाऽऽशु भवत्कार्यं भविष्यति

॥१४॥

ततस्ते वह्निमाकार्य तुष्टुवुर्विविधैः स्तवैः ।

देवा ऊचुः ।

त्वत्तो यज्ञक्रिया ब्रह्मन् संस्काराः सर्व एव हि

॥१५॥

अपां त्वमसि हेतुश्च देवानां मुखमेव च ।

अग्निहोत्रप्रणेता त्वं गार्हपत्यादिनामभिः

॥१६॥

त्वमेव पिबसीशाब्धिवारि नित्यं महत्तरम् ।

त्वमेव पचसे नॄणां जठरे षड्र्सानपि

॥१७॥

त्वमेव सर्वजन्तूनां सन्धौ सन्धौ विचेष्टसे ।

त्वया त्यक्तं प्रेतसंज्ञां लभते दह्यते त्वया

॥१८॥

हेतुस्त्वमसि देवेश जन्तूनां प्राणधारणे ।

त्वयाद्भिश्च विना नान्नं पक्तुं शक्यं न च क्वचित् ।

त्वमेव ब्रह्मा रुद्रश्च सूर्यश्चानेकरूपधृक्

॥१९॥

त्वमेव जायसे मूलं क्रोधस्य जगदीश्वर ।

यत्र तत्र भवेत् तेजस्तत् तद्रूपं तवैव च

॥२०॥

अतस्त्वां प्रार्थयामोऽद्य त्रिलोक्या उपकारक ।

त्रैलोक्याक्रमणं तेन तारकेण कृतं विभोः

॥२१॥

जानासि तन्नभोवाणीं कामस्यापि च तां गतिम् ।

पार्वतीहरयोर्बोधं चिरक्रीडानिमग्नयोः

॥२२॥

कुरु गत्वाऽन्यरूपेण भिक्षां याचस्व तत्र वै ।

एवं कृते जगत्कार्यस्माकं च भविष्यति

॥२३॥

ब्रह्मोवाच

इति देववचः श्रुत्वा काषायवसनो द्विजः ।

भूत्वा शुष्मा ययौ तत्र यत्रास्तां पार्वतीश्वरौ

॥२४॥

क्रीडासक्तौ बहिः स्थित्वा भिक्षां देहीत्युवाच सः ।

त्रिवारं प्लुतशब्देन द्वाभ्यामपि श्रुतः स्वनः

॥२५॥

ऊचतुर्विस्मितौ तौ तु परस्परमुभौ वचः ।

परिधत्तांशुके स्वे स्वे कुतोऽत्रायं समागतः

॥२६॥

किमस्मै च प्रदातव्यमिति चिन्तां च चक्रतुः ।

उमाञ्जलावधाद् वीर्यमक्षमा तस्य धारणे

॥२७॥

जानती भाविनं चार्थं ददौ सा भिक्षुकाय तत् ।

भूमौ त्यक्तं दहेदेतत् त्रैलोक्यं सचराचरम्

॥२८॥

हरवीर्यमित्यपिबद् वह्निः शापभयात् तयोः ।

गर्भवाननलो जातो लज्जावानपि तापवान्

॥२९॥

तत्र यत्र ययौ वह्निः शर्म लेभे न तत्र वै ।

उषस्युत्थाय गङ्गायां तुलासंस्थे दिवाकरे

॥३०॥

स्नातुं यावत् स शौचादि कुरुते तावदेव ह ।

आगताः षट् स्त्रियस्तत्र स्नातुमूर्जे समाहिताः

॥३१॥

अग्निना यत् समुत्सृष्टं गङ्गेयं च हरप्रिया ।

धारयिष्यति शक्ता चेज्जलरूपा सुशीतला

॥३२॥

शितवीर्यञ्च तत्ताभिः प्राशितं षड्विभागतः ।

तस्मिन्नेव क्षणे सोऽग्निंरन्तर्द्धिं समपद्यत

॥३३॥

अङ्कुशानि च यातानि दूरदेशं गतेऽनले ।

परिधाय स्ववस्त्रं तास्ततो याता निजं गृहम्

॥३४॥

ददृशुः पतयस्तासां मुखान्यत्युज्ज्वलानि च ।

गर्भिण्य इति ते ज्ञात्वा ज्ञानदृष्टया मुनीश्वराः

॥३५॥

बहिश्चक्रुर्गृहात् सर्वा न प्रदर्श्यं मुखं त्विदम् ।

ताः समेत्य पुनर्गगां तीरे शरसुशोभिते

॥३६॥

मुमुचुः स्व स्व गर्भं ताः शुद्धाः स्नाता गृहान्ययुः ।

षट्सु तासु प्रयातासु स्वं स्वं गर्भं विमुच्य वै

॥३७॥

षण्मुखो द्वादशभुजो बालस्तत्र व्यजायत ।

तस्य हुङ्कारमात्रेण निपेतुर्भानिखात् भुवि

॥३८॥

च कम्पे धरणी सर्वा शेषः पातालमेव च ।

द्रुमा उन्मीलिताः सूर्यो नीहाराच्छादितोऽभवत्

॥३९॥

एतस्मिन्नन्तरे तत्र नारदो दिव्यदर्शनः ।

कैलासं गिरिशं द्रष्टुं गच्छन्मार्गे ददर्श तम्

॥४०॥

अतिदीप्ततरं बालं दुर्दर्शं बलवत्तरम् ।

प्रणिधानेन तं ज्ञात्वा तूष्णीं कैलासमाययौ

॥४१॥

उवाच पार्वतीं शम्भुं वृत्तान्तं सर्वमेव च ।

जहर्ष पृथिवी सर्वा ज्ञात्वा तं गिरिशात्मजम्

॥४२॥

देवदुन्दुभयो नेदुर्गन्धर्वा जगुरद्भुतम् ।

नारद उवाच ।

आगच्छता मया दृष्टो गौरि मार्गे तवान्मजः

॥४३॥

षण्मुखो द्वादशभुजो सूर्यकोटिसमप्रभः ।

गङ्गातीरे निपतितस्त्यक्तस्ते षण्मुखो नु किम्

॥४४॥

कोटिकन्दर्पशोभाढ्यो गर्जितक्षोभिताखिलः ।

कथं निष्ठुरताऽकारि गौरि सुन्दरबालके

॥४५॥

क उवाच

इत्युक्त्वाऽन्तर्हिते तस्मिन् गौरी बालकमभ्यगात्

॥४६॥

इति श्रीगणेशपुराणे उपासनाखण्डे स्कन्दोपाख्यानं नाम पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥