मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 3

3
उपासनाखण्डः · 3

आचारादि निरूपणन्नाम तृतीयोऽध्यायः

सूत उवाच

तत उत्थाय राजास गृहीत्वा दक्षिणेकरे ।

पुत्रं विवेश हर्म्याग्रं यत्र मन्त्रयते सदा

॥१॥

यत्र सिंहासनं दिव्यं काञ्चनं बहुरत्नयुक् ।

मुक्ताप्रवालरचितं भातिशक्रपदं यथा

॥२॥

तत्रासतुः पितापुत्रौ भातोद्वावप्यनेकधा ।

प्रतिरत्नं गतौ यस्मात्समुदायवृताविव

॥३॥

आचारं प्रथमं प्राह नीतिं नानाविधां नृपः ।

पुत्राय करुणायुक्तो यशसे स्वकुलस्य च

॥४॥

सोमकान्त उवाच

याममात्रावशिष्टायां निशायां जागृतः पुमान् ।

त्यक्त्वा शय्यां शुचिस्थाने उपविश्य गुरूं स्मरेत्

॥५॥

देवतां चिन्तयित्वेष्टां प्रणमेत्स्तुतिपूर्वकम् ।

प्रार्थ्य पृथ्वीं क्षमस्वेति पादस्पर्शं जगन्मये

॥६॥

प्रातर्नमामि गणनाथमशेषहेतुं ब्रह्मादिदेववरदं सकलागमाढ्यम् ।

धर्मार्थकामफलदं जनमोक्षहेतुं वाचामगोचरमनादिमनन्तरूपम्

॥७॥

प्रातर्नमामिकमलापतिमुग्रवीर्यं नानावतारनिरतं निजरक्षणाय ।

क्षीराब्धिवासममराधिपबन्धुमीशं पापापहं रिपुहरं भव मुक्तिहेतुम्

॥८॥

प्रातर्नमामि गिरिजापतिमिन्दुमौलिं व्याघ्राजिनांवृतमुदस्तदयंमनोजे ।

नारायणेन्द्रवरदं सुरसिद्धजुष्टं सर्पां स्त्रिशूलडमरूदधतं पुरारिम्

॥९॥

प्रातर्नमामि दिननाथमघापहारं गाढान्धकारहरमुत्तमलोकवन्द्यम् ।

वेदत्रयात्मकमुदस्तसुरारिमायं ज्ञानैकहेतुमुरुशक्तिमुदारभावम्

॥१०॥

प्रातर्नमामि गिरिजां भवभूतिहेतुं संसारसिन्धु परपारकरीं त्रिनेत्राम् ।

तत्त्वादिकारणमुदस्तसुरारिमायां मायामयीं सुरमुनीन्द्रनुतां सुरेशीम्

॥११॥

एवमन्यांश्च संस्मृत्य देवान्मुनिगणांस्तथा ।

मानसैरूपचारैश्च पूजयित्वा क्षमापयेत्

॥१२॥

ततो गच्छेत्सोदपात्रो ग्रामस्य नैऋतीं दिशम् ।

मृदं गृहीत्वा सुश्वेतां ब्राह्मणः क्षत्रियोरुणाम्

॥१३॥

वैश्यशूद्रौ तथा श्यामां न नदीतीरतःखनेत् ।

नोर्वराया न वल्मीकाद् ब्राह्मणागारतः क्वचित्

॥१४॥

तृणादिनाच्छादयित्वा धरां मूत्रपुरीषयोः ।

कृत्वोत्सर्गं दिवारात्रावुदग्दक्षिणदिङ्मुखः

॥१५॥

आदौ गुदं प्रमृज्यैव तृणकाष्ठादिना नरः ।

पञ्चवारं मृदाद्भिश्च क्षालयेत्तदनन्तरम्

॥१६॥

दशवारं वामहस्तं सप्तवारमुभौकरौ ।

लिङ्गतथैकवारं तु वामहस्तं त्रिवारतः

॥१७॥

मूत्रोत्सर्गे क्षालयीत द्वौ करौ च द्विवारतः ।

पादौसदैकवारं तु गृहस्थस्यैवमीरितम्

॥१८॥

व्रतवान् द्विगुणं कुर्यास्त्रिगुणं वनगोचरः ।

यतिश्चतुर्गुणं कुर्याद्रात्रावर्धन्तुमौनवान्

॥१९॥

अर्धं पादं दिवारात्रौ शौचं स्त्रीशुद्र एव च ।

तत आचम्य काष्ठं तु क्षीरकण्टकवृक्षयोः

॥२०॥

गृहीत्वा प्रार्थनापूर्वं दन्ताञ्जिव्हान्विशोधयेत् ।

बलमोजोयशस्तेजः पशुबुद्धिधनानिच

॥२१॥

मेधां ब्रह्मधियञ्चैव त्वं मे देहि वनस्पते ।

ततः शीतजलैः स्नानं कृत्वा मलहरं पुरा

॥२२॥

ततो मन्त्रैश्च गृह्योक्तैः सन्ध्योपास्ति ततश्चरेत् ।

जपं होमंञ्च स्वाध्यायं तर्पणं देवपूजनम्

॥२३॥

वैश्वदेवं तथातिथ्यं भोजनं द्विजसाक्षिकम् ।

पुराणश्रवणं दानं परनिन्दाविवर्जनम्

॥२४॥

परोपकारं कुर्याच्च द्रव्यप्राणवचोमृतैः ।

परोपकारं नोकुर्यादात्मस्तवनमेव च

॥२५॥

गुरुद्रोहं वेदनिन्दां नास्तिक्यं पापसेवनम् ।

अभक्ष्यभक्षणञ्चैव परदारनिषेवणम्

॥२६॥

स्वदारवर्जनञ्चैव कुर्यादृतुगतिञ्चरेत् ।

मातापितृगुरूणाञ्च गवांशुश्रूषणं सदा

॥२७॥

दीनान्धकृपणेभ्यश्च दद्यादन्नं सवस्त्रकम् ।

प्राणात्ययेऽपि सत्यस्य त्यागं नैव समाचारेत

॥२८॥

ईश्वरानुग्रहोयेषां साधूनाञ्च प्रपालनम् ।

अपराधानुसारेण धर्मशास्त्रं विलोक्य च

॥२९॥

पृष्ट्वा वा पन्डितान्दन्डं कुर्यान्नीतिविशारदः ।

विश्वासो यस्य नैवस्यात्तत्र नो विश्वसेत्क्वचित्

॥३०॥

विश्वस्तेऽत्यन्त विश्वासो न कर्तव्योबुभूषता ।

कृत वैरेऽथ विश्वस्ते कदापि न च विश्वसेत्

॥३१॥

षड्गुणानां प्रयोगेण वर्धयेद्राष्ट्रमात्मनः ।

दानं स्वशक्त्या कुर्वीत क्षीणतामन्यथा व्रजेत्

॥३२॥

परे व्याकुलितेयानमधमं परिचक्षते ।

चारदृष्टिर्दूतवक्त्रउद्यदण्डो नृपो भवेत्

॥३३॥

दण्डस्यैव भयाल्लोकाः स्वे स्वे धर्मे व्यवस्थिताः ।

अन्यथा नियमो न स्यात्पारक्यं स्वीयमित्यदः

॥३४॥

अधमो यदि निन्देतस्तुवीत यदि वा क्वचित् ।

नक्रुध्येन्नचतुष्येच्च किं तया किं तयाऽपि च

॥३५॥

पूर्वापकारी यदि च पुनर्वा शरणं व्रजेत् ।

पूर्वञ्च धनिको यः स्यात्परिपाल्यः सदैव हि

॥३६॥

मन्त्रगुप्तिः सदाकार्या तन्मूलं राज्यमुच्यते ।

कामादि षड्रिपून्हित्वा ततोन्यान्विजयीत च

॥३७॥

वृत्तिच्छेदं प्रजोच्छेदं देवतोच्छेदमेव च ।

आरामचैत्ययोच्छेदं न कुर्यान्नृपसत्तमः

॥३८॥

पर्वकाले ददेद्दानं यशसे त्यागमेव च ।

न मित्रवञ्चनां कुर्यात्स्त्रिषु गोप्यं वदेन्नच

॥३९॥

ऋणतो ब्राह्मणं चैव पङ्कतो गां समुद्धरेत् ।

अनृतं न वदेत् क्वापि सत्यं क्वापि न हापयेत्

॥४०॥

अमात्यानां प्रजानाञ्च भृत्यानाञ्चित्तहृद्भवेत् ।

ब्राह्मणेभ्यो नमस्कुर्याद्देवताभ्यः सदैव च

॥४१॥

सूत उवाच

इत्यन्यदपि शिक्षाप्य हेमकण्ठं सुतं नृपः ।

आचारं सहधर्मेण नीतिशास्त्रं यथा श्रुतम्

॥४२॥

क्षेमङ्करं रूपवन्तं विद्याधीशं तथैव च ।

आह्वयामास चामात्यान्सुमुहूर्तं विलोक्य च

॥४३॥

सम्भारानुपकल्प्यैव नानास्थानगतान्नृपः ।

ब्राह्मणान्वेदविदुषो यज्ञकर्म सुनिष्ठितान्

॥४४॥

राज्ञोथमहतोराजपत्नीश्च सुहृदः स्वकान् ।

आह्वयामास नृपतिः श्रेणीमुख्यांश्च नागरान्

॥४५॥

अभिषेकावलोकाय पुत्रस्य रिपुघातिनः ।

गणेशं पूजयित्वेष्टदेवताञ्च यथाविधि

॥४६॥

वाचयित्वास्वस्त्ययनं मातृपूजनपूर्वकम् ।

कृत्वाऽभ्युदयिकं श्राद्धं ब्राह्मणांस्तर्प्यचान्धसा

॥४७॥

कारयित्वा मन्त्रघोषैरभिषेकं सुतस्य सः ।

उवाच सोमकान्तस्त्रीन्मन्त्रिमुख्या निदं वचः

॥४८॥

राजोवाच

ममायं सुत इत्येव ममात्याबुद्धिरस्तुवः ।

भवतामेवहस्तेषु सुत एष निरूपितः

॥४९॥

ममानुशासनं यद्वत्कृतं नीतिविशारदैः ।

तथास्य शासनं कार्यं श्रेणीमुख्यसमन्वितैः

॥५०॥

इति श्रीगणेशपुराणे उपासनाखण्डे आचारादि निरूपणन्नाम तृतीयोऽध्यायः ॥ ३ ॥