मन्त्रकथनं नाम द्वात्रिंशोऽध्यायः
नारद उवाच
शक्रे तु नलिनीं याते तत्पुरं त्वहमागतः ।
बृहस्पति पुरोगांस्तांस्तत्रापश्यं स्थितान् सुरान्
॥१॥तेभ्यो ह्यकथयं सर्वमुभयोः शापकारणम् ।
अहल्याया महेन्द्रस्य संयोगं च विरूपताम्
॥२॥सहस्रभगतां यातः शक्रो गौतमशापतः ।
अहल्याधर्षणाद् देवास्तत्सङ्गात्सा शिलाऽभवत्
॥३॥ब्रह्मोवाच
श्रुत्वा ते नारदोक्तं तत् सर्वे देवाः शुचान्विताः ।
अतिदुःखाद् रुदन्तस्ते निश्वासोच्छवासविभ्रमैः
॥४॥देवा ऊचुः
येनाकारि शतं यज्ञा दानवा येन निर्जिताः ।
त्रैलोक्यं पालितं येन भुक्तमैद्रपदं शुभम्
॥५॥पूजिता बहवो देवा ब्राह्मणा ब्रह्मवित्तमाः ।
भुक्ता नानाविधा भोगा अन्येषामतिदुर्लभाः
॥६॥कुत्र स्थास्यत्यसौ देवो भोक्ष्यते स्वप्स्यते कथम् ।
कमद्य शरणं यामः स्वकृते तत्कृतेऽपि वा
॥७॥पालयिष्यति कांऽस्मान्वै पदमैन्द्रं शचीं तथा ।
कथं प्रसन्नतां यायाद् गौतमो मुनिसत्तमः
॥८॥स्वीयभार्या वियुक्तः सँस्तत्कृतागः स्मरन् रूषा ।
अन्योपायं न पश्चामो गौतमस्य प्रसादतः
॥९॥तस्मान्नारद यास्यामो गौतमं सान्त्वितुं मुनिम् ।
एवं ते निर्ययुर्देवा नारदेन समन्विताः
॥१०॥गौतमं ते समासाद्य बद्धाञ्जलिपुटा मुनिम् ।
तुष्टवुर्विविधैर्वाक्यैस्तमेव शरणं गताः
॥११॥देवा ऊचुः
तव प्रभावं वक्तुं नो मुने शक्तिर्न विद्यते ।
गरिमाणं वदेत् को नु मेरोर्हिमवतोऽपि च ।
वृष्टिधारा रजो भूमेर्गङ्गायाः सिकता अपि
॥१२॥कमम्बुधेर्गुणान् विष्णोर्गणयेत् को नु मूढधीः ।
प्रातरेवोप्तबीजानां मध्यान्हे सस्यसम्पदः
॥१३॥सम्पादितास्त्वयापूर्वमविता ऋषिसत्तमाः ।
वालखिल्यैर्यजि कृत्वाऽपर इन्द्रो विनिर्मितः
॥१४॥ब्रह्मादिभिः प्रार्थितास्ते पक्षिणान्तमकल्पयन् ।
पयसां निधिरेकेन प्राशितश्चुलकेन यत्
॥१५॥अपरा सृष्टिरारब्धा गाधिपुत्रेण धीमता ।
स्तम्भितो भुज इन्द्रस्य च्यवनेन महात्मना
॥१६॥तस्मात्सर्वात्मना पुंसां भवतां सेवनं नतिः ।
दर्शनं भाषणं पूजा स्पर्शनं पापनाशनम्
॥१७॥उपकारे रतानां च दीनानुग्रहकारिणाम् ।
इन्द्रार्थे शरणं यातान्कृपां कर्तुं त्वमर्हसि
॥१८॥गौतम उवाच
भवतां दर्शनं चर्मचक्षुषां नैव जायते ।
मम पुण्येन जातं तत् कामसम्पादनं नृणाम्
॥१९॥जन्माश्रमतपोदानं देह आत्मा व्रतानि च ।
सार्थकानीक्षणेनैव जातानि भवतां खलु
॥२०॥इदानीं प्रार्थितं किं वस्तन्निरुप्यं ममाग्रतः ।
शक्यं चेत् तत्करिष्येऽहं भवत्स्मृतिबलेन तत्
॥२१॥मुनिरुवाच
इति तद्वचनं श्रुत्वा जहृषुस्ते दिवौकसः ।
चन्द्रोदये यथा हर्षं प्राप्नोति जलधिं स्फुटम्
॥२२॥यथा वा बालभाषाभिः पितरौ मुदमीयतुः ।
प्रार्थना चक्रिरे सर्वे गौतमं तं महामुनिम्
॥२३॥देवा ऊचुः
ईश्वरस्यापराधेन कामो भस्मत्वमागतः ।
आगस्कारी त्वया शक्रो न च प्राणैर्वियोजितः
॥२४॥इदानीं स यथास्यानं स्वकीयं प्राप्नुयान्मुने ।
क्षमित्वा तस्य चागांसि सर्वेषां वचनाद्धि नः
॥२५॥कृते तस्मिन्प्रसादे तु सर्वेषां वाच्छितं भवेत् ।
नारद उवाच ।
श्रुत्वा देवसमूहस्य वचनानि स गौतमः
॥२६॥प्रहस्य प्रत्युवाचेदं सर्वान् देवगणान्प्रति ।
गौतम उवाच ।
नामापि तस्य न ग्राहयं पतितस्य कृतागसः
॥२७॥कपटस्य शठस्यापि दुष्टस्याप्यविवेकिनः ।
अनुतापविहीनस्य निष्कृतिर्नैव विद्यते
॥२८॥तथापि भवतां वाक्यात्करिष्ये तत्प्रियं सुराः ।
भवन्तोऽपि यदा रुष्टास्तदाशापः पतेन्ययि
॥२९॥पूतो भवति जन्तुर्हि बहुभिर्योऽनुगृह्यते ।
अत एकं वदे मन्त्रं तस्मै तं प्रदिशन्तु च
॥३०॥सर्वकर्ता सर्वहर्ता सर्वपाता कृपानिधिः ।
विनायको देवदेवो ब्रह्मविष्णुशिवात्मकः
॥३१॥षडक्षरस्तस्य मन्त्रो महासिद्धि प्रदायकः ।
उपदेशे कृते तस्य दिव्यदेहो भवेत्तु सः
॥३२॥भगानि तस्य यावन्ति तावन्नेत्रो भविष्यति ।
स्वराज्यं प्राप्स्यते शक्र इति सत्यं वदामि वः
॥३३॥अभिधाय सुरानित्थं तूष्णीमासीत्स गौतमः ।
तं च ते पूजयित्वा तु नमश्चक्रुर्मुदान्विताः
॥३४॥प्रदक्षिणीकृत्य पुनः प्राप्याऽनुज्ञां ययुः सुराः ।
प्रशंसन्तो मुनिं तत्र यत्रास्ते बलवृत्रहा
॥३५॥गौतमाज्ज्ञानसम्पन्नात् सात्त्विकोऽन्यो न वर्तते
॥३६॥इति श्रीगणेशपुराणे उपासनाखण्डे मन्त्रकथनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥