षट्पञ्चाशत्तमोऽध्यायः
भृगुरुवाच
एवं ते कथितं राजन् माहात्म्यं सकलं मया ।
पुनश्च शृणु व्यासेन यच्छ्रुतं ब्रह्मणो मुखात्
॥१॥सोमकान्त उवाच
कथं श्रुतं ब्रह्ममुखाद्व्यासेनामितबुद्धिना ।
न तृप्तिमधिगच्छामि तन्मे वद महामुने
॥२॥भृगुरुवाच
एवं श्रुत्वा कथां व्यासोऽपृच्छद् ब्रह्माणमादरात् ।
स चापि कथयामास सादरं पृच्छतेऽनघ
॥३॥व्यास उवाच
पुनः कथय मे ब्रह्मन् गणनाथकथां पराम् ।
तृष्णा मे वर्धते भूयः श्रोतुं विघ्नेश सत्कथाम्
॥४॥ब्रह्मोवाच
अपरां शृणु मे व्यास कथां कौतुकसंयुताम् ।
शूरसेनप्रभृतिभिरनुभूतां गजाननीम्
॥५॥मध्यदेशेऽभवद्राजा शूरसेनो महाबली ।
सहस्राख्य पुरे रम्ये वेदवेदाङ्गपारगः
॥६॥धनवान् रूपवान् दाता होता पाता जनस्य ह ।
शक्तित्रययुतो मानी षाड्गुण्यपरिनिष्ठितः
॥७॥उपायानां चतुर्णाञ्च चालने चतुरोऽरिहा ।
चतुर्विधबलोपेतो द्विजदेवेषु भक्तिमान्
॥८॥पृथिवीमण्डलं यस्य वशवर्त्यभवत्सदा ।
नगरं शक्रनगराद् विशिष्टं भाति भूतले
॥९॥यस्य पत्नी पुण्यशीला नाम्नाऽभूत् पुण्यशालिनी ।
यस्या रूपेण सदृशी नासीत् त्रैलोक्यमण्डले
॥१०॥पातिव्रत्यगुणैर्यस्या लज्जां प्राप्ताऽप्यरुन्धती ।
असूयात्यागयोगेनाप्यनसूयाऽभवल्लघुः
॥११॥स कदाचिन्नृपोऽमात्यैः संवृतो वीरसत्तमैः ।
उपविष्टो नृपसभां ददृशे गगनेचरम्
॥१२॥विमान वह्निसदृशं नेत्रतेजोहरं परम् ।
गानश्रवणसक्तास्ते राज्ञा सह सभासदः
॥१३॥विव्हलास्ते किं किमिति ज्ञातुं दूतानचोदयन् ।
ते दूताः प्रागमन्द्रष्टुं विमानं सूर्यसन्निभम्
॥१४॥कस्यचिद् वैश्यपुत्रस्य राजदूतस्य कुष्ठिनः ।
पतितं दृष्टिपातेन तद्विमानं महीतले
॥१५॥ततों दूताः समागम्य शशंसुर्नृपतिं तदा ।
तद्विमानं महाराज पुण्यकृद्देवसंयुतम्
॥१६॥दैदिप्यमानं पतितं दुष्टदृष्टया महीतले ।
ततोऽतिहर्षितो राजा प्रकृतिद्वयसंयुतः
॥१७॥अश्वारुढो ययौ तत्र विमानं द्रष्टुमुत्सुकः ।
मन्यमानो महाभाग्यं स्वजनैः परिवारितः
॥१८॥अनेकवाद्यनिर्घोर्षैर्विमानस्यान्तिकं ययुः ।
ददृशुस्तत्र शक्रं ते नेमुरुत्तीर्य यानतः
॥१९॥नानालङ्कारसंयुक्तं सर्वदेवगणैर्युतम् ।
बद्धाञ्जलिपुटो राजा प्रोवाच बलसूदनम्
॥२०॥धन्येयमद्य धरणी धन्यं जन्म च सम्पदः ।
पूर्वजाः सर्वचक्षूंषि धन्यान्यद्य शचीपते
॥२१॥यद्दर्शनं मृत्युलोके भवतां सानुगस्य मे ।
यस्य ते वशगा लोका ब्रह्मेशानादयः सुराः
॥२२॥शताश्वमेधतो दृश्यो नान्यथा जायते क्वचित् ।
न जाने केन पुण्येन सोऽद्य दृष्टोऽखिलैर्जनैः
॥२३॥इदं च ते विमानं यत् कथं निपतितं भुवि ।
एतन्मे संशय देव छेत्तुमर्हसि साम्प्रतम्
॥२४॥यातवान् कुत्र च भवान् गन्ता वा शंस मे प्रभो ।
शक्र उवाच ।
राजन् शृणु महाश्चर्यं कथितं नारदेन मे
॥२५॥तदहं कथयिष्ये त्वां शृणुष्वैकमना नृप ।
नारद उवाच ।
मृत्युलोकं गतः शक्र भ्रुशुण्डेराश्रमं प्रति ।
गणेशस्य स्वरूपेण तिष्ठतो जपतोऽनिशम्
॥२६॥तद्ध्यानात्तत्स्वरूपस्य दृष्टं कौतुकमद्भुतम् ।
पूजितस्तेन मुनिना गजाननस्वरुपिणा
॥२७॥नत्वा तं मुनिमापृच्छ्य दर्शनार्थं तवागतः ।
भूमौ सारूप्यता नैव दृष्टाऽन्यत्र शतक्रतो
॥२८॥शक्र उवाच
अहं च नारदं पूज्य विसृज्य च क्षणेन तम् ।
अत्युत्सुकतया यातो मुनिं दृष्टं तथाविधम्
॥२९॥विमानवरमास्थाय मनोमरुतवेगवत् ।
मुनिं दृष्ट्वा च सम्पूज्य द्विरदाननरूपिणम्
॥३०॥भ्रुशुण्डि प्रणिपत्याऽथ तस्य पूजां प्रगृह्य च ।
चलितः सपरीवारो गन्तुकामोऽमरावतीम्
॥३१॥यावत्ते नगराभ्याशे विमानमिदमागतम् ।
तावद्दूतस्य ते दृष्ट्या कुष्ठिनः पापकारिणः
॥३२॥पतितं भूमिभागेऽस्मि सर्वं ते कथितं नृप ।
शूरसेन उवाच ।
तपसा केन वा शक्र गजाननस्वरूपता
॥३३॥प्राप्ता भ्रुशुण्डिना तेन तद्वदस्व मम प्रभो ।
न हि मे तृप्तिरस्तीह शृण्वतस्तत्कथामृतम्
॥३४॥इति श्रीगणेशपुराणे उपासनाखण्डे इन्द्रविमानपतनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥