मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 81

3
उपासनाखण्डः · 81

रामोपाख्याने एकाशीतितमोऽध्यायः

क उवाच

रामस्तु वपनं कृत्वा स्नात्वा सम्यग् विधानतः ।

उत्थान श्राद्धमकरोद् ब्राह्मणैः कथितं यथा

॥१॥

विश्रान्तिस्थानमारभ्य मन्त्राग्निमुभयोरदात् ।

तदैव प्रययौ तं तु दत्तात्रेयं मुनिं प्रति

॥२॥

कुवेषं शिष्यसहितं श्वहस्तं मलिनं कृशम् ।

ध्यानेनालोक्य तं रामो ननाम मुनिपुङ्गवम्

॥३॥

बद्धाञ्जलिपुटोऽतिष्ठद् यामार्धं तत्पुरो द्विजः ।

दत्तात्रेयोऽपि सर्वज्ञो ज्ञात्वा तस्याशयं मुनि

॥४॥

उवाच राममामन्त्र्य ज्ञातं तव प्रयोजनम् ।

अथापि पृच्छे विज्ञातुं किमर्थं त्वमिहागतः

॥५॥

क उवाच

स उवाच ततो रामो वृत्तान्तमादितः स्फुटम् ।

राम उवाच ।

कृतवीर्यात्मजो राजा पितुराश्रममागतः

॥६॥

भोजितः परमान्नेन नानापक्वान्नशालिना ।

भुक्तः स सेनया सार्द्धं कामधेनुमयाचत

॥७॥

यदा न दत्ता पित्रा मे बलान्नेतुं मनो दधे ।

सा ताडीताऽथ सुषुवे सैनिकानां गणान् बहून

॥८॥

तैर्भग्नो बलिभी राजा ससैन्योऽगान्निजालयम् ।

कामधेनुर्गता स्वर्गं ततो राजा रूषान्वितः

॥९॥

जमदग्नेर्हृदि शरमहनद् दृढमोजसा ।

एकविंशतिकान् बाणान् मातुरङ्गेऽहनद् रुषा

॥१०॥

नाहं तत्र स्थितो ब्रह्मन् पश्चादागत्य दृष्टवान् ।

मन्त्राग्निना तु दग्धौ तौ मातुर्वाक्यादिहागतः

॥११॥

दत्तात्रेयं विना नान्यो वक्ता कार्योऽत्र कर्मणि ।

कृते कर्मणि सर्वस्मिन्त्रयोदशदिनावधि

॥१२॥

पश्चाद्राजा निहन्तव्यः कृतवीर्यात्मजो बलि ।

एकविंशति वारं च कार्या निःक्षत्रिया महि

॥१३॥

इत्थमाज्ञापयन्मह्यं जननी रेणुका मम ।

इत्यर्थमिह सम्प्राप्तस्तस्मात्कुरु कृपां मयि

॥१४॥

ब्रह्मोवाच

इति रामवचः श्रुत्वा रेणुकायाः सखा मुनिः ।

शोकसंविग्नहृदयो राममूच इदं वचः

॥१५॥

दत्तात्रेय उवाच

यद्गृहे भुक्तमत्यन्तं तेन नेष्टा विरोधिता ।

यदि दुष्टेन साऽकारि द्रष्टा तत्फलमन्तकात्

॥१६॥

इदानीं तु तयोः सम्यगौर्ध्वदेहिकमाचर ।

ब्रह्मोवाच ।

तत आश्रममागत्य दत्तात्रेययुतस्तु सः

॥१७॥

रामश्चकार भक्त्यैव पित्रोरुत्तरकर्म तत् ।

दत्तात्रेयोक्तमन्त्रैः स द्वितीयदिवसावधि

॥१८॥

समाप्ते कर्मणि मुनिर्गन्तुं कोल्हापुरं मनः ।

चक्रे तदाऽब्रवीद् रामः कदा याति भवान् पुनः

॥१९॥

मुनिः प्रोचे यदा त्वं मे स्मरणं वै करिष्यसि ।

एहि दत्तात्रेय इति तदा मां द्रक्ष्यसेऽनघ

॥२०॥

कृत्वा कर्म व्रजत्येव भिक्षितुं स दिने दिने ।

अशौचिनो न भोक्तव्यमन्नमित्यभिचिन्तयन्

॥२१॥

पञ्चमे दिवसे कर्म समाप्य मुनिपुङ्गवः ।

गृहित्वाऽऽज्ञां गतो यावत् तावद् व्याघ्रः समाययौ

॥२२॥

मातर्मातः क्व याम्यद्येत्येवं चुक्रोश तद्भयात् ।

आविराभूत्तदा माता रेणुका रामवाक्यतः

॥२३॥

असम्पूर्णशिरोमात्रा पुत्रस्नेहवशेन हि ।

यदि द्वादशरात्रात् साऽऽहूता स्याद् भार्गवेण तु

॥२४॥

आगता स्यात् सा सम्पूर्णा सर्वावयवशोभिनी ।

उवाच तं किमाहूता वद बाल प्रयोजनम्

॥२५॥

आलिलिङ्ग तदा स्नेहाद् रामं स्नुतपयोधरा ।

दत्तात्रेयः पुनरगात् षष्ठेऽथ दिवसे मुनिः

॥२६॥

अपश्यद् रेणुकां तत्र तादृशीं राममब्रवीत् ।

मध्यएव किमाहूता न्यूनदेहा समागता

॥२७॥

सपिण्डीकरणादूर्ध्वं यद्याहूता तदाऽखिला ।

आगता स्याद् रेणुकेयं तव स्नेहाद् द्विजर्षभ

॥२८॥

राम उवाच

बालभावाद् भयाद् ब्रह्मन् स्वभावान् मातरित्यहम् ।

उक्तवान् मुनिशार्दूलं दृष्टवानीदृशीमिमाम्

॥२९॥

वृषोत्सर्गं च कृत्वानेकादशदिने द्विजः ।

सपिण्डीकरणं चैव द्वादशे कृतवान द्वयोः

॥३०॥

ततः परेऽन्हि पाथेयं श्राद्धं पुण्याहवाचनम् ।

ददौ दानान्यनेकानि ब्राह्मणेभ्यो यथार्हतः

॥३१॥

जमदग्निर्दिव्यदेहो ब्रह्मलोकमथागमत् ।

तस्थौ सा रेणुका भूमौ स्थाने स्थाने च तादृशी

॥३२॥

पूरयत्यखिलान् कामान् जनानां भक्तिकारिणाम् ।

माहात्म्यं विस्तृतं तस्याः स्कान्दे प्रोक्तं विशेषतः

॥३३॥

अतिविस्तारभीत्याऽत्र न प्रोक्तं मुनिसत्तम

॥३४॥

इति श्रीगणेशपुराणे उपासनाखण्डे रामोपाख्याने और्ध्वदैहिकसंस्कारसम्पादनं नामैकाशीतितमोऽध्यायः ॥ ८१ ॥