मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 67

3
उपासनाखण्डः · 67

दूर्वामाहात्म्ये सप्तषष्टितमोऽध्यायः

गणा ऊचुः

आज्ञप्ता तेन मुनिना स्वाभिप्रेतार्थसिद्धये ।

एक दुर्वाङ्कुरं गृह्य शक्रसन्निधिमाययौ

॥१॥

तमुवाचाऽऽश्रया शक्र देहि मे काञ्चनं शुभम् ।

याचितुं त्वां समायाता भर्तृवाक्यात् सुरेश्वर

॥२॥

इन्द्र उवाच

किमर्थं त्वमिहायाता यद्याज्ञा प्रेषिता भवेत् ।

मया सम्प्रेषितं स्यात्ते जातरूपं स्वशक्तितः

॥३॥

आश्रयो वाच

दूर्वाङ्कुरस्य तुलया यद्भवेत् काञ्चनं सुर ।

तत् ग्रहीष्ये शचीभर्त्तर्नन्यूनं न च वाधिकम्

॥४॥

शक्र उवाच

दूतैनां नय शीघ्रं त्वं कुबेरभवनं प्रति ।

स दास्यति सुवर्णं च दूर्वाङ्कुरमितं शुभम्

॥५॥

गणा ऊचुः

आज्ञया देवराज्यस्य देवदूतस्तया सह ।

प्रायात् कुबेरभवनं शक्रस्य वचनात्तदा

॥६॥

अस्यै दूर्वाङ्कुरमितं जातरूपं प्रदीयताम् ।

इन्द्रेण प्रेषिता साध्वी मुनिपत्नी मया सह ।

प्रापिता भवनं तेऽद्य यामि देव नमोऽस्तु ते

॥७॥

कुबेर उवाच

अत्याश्चर्य महं मन्ये मुनिः शक्रस्तथाऽऽश्रया ।

मोहाविष्टा न जानन्ति दूर्वाङ्कुरमितं कियत्

॥८॥

काञ्चनं तेन किं वा स्यात् बहुलं किं न याचितम् ।

गणाः ऊचूः ।

एवमेव ददौ तस्यै बहुलं काञ्चनं सह

॥९॥

न जग्राह भयाद् भर्तुर्न्यूनाधिकविशङ्कया ।

स्वर्णकारतुलायान्तं दुर्वाङ्कूरमधारयत्

॥१०॥

नाभवत् तुलया तस्य पर्याप्तं तत्तु हाटकम् ।

वणिक्तुला समानीता तत्रापि नाभवत समम्

॥११॥

तैलकारतुलायां तु दुर्वाङ्कुरसमं न च ।

घटो बद्धस्ततस्तत्र हाटकं दत्तमेकतः

॥१२॥

दूर्वाङ्कुरोऽपरत्रापि याति पत्रमधस्तदा ।

अन्यदन्यद् दधौं तत्र कुबेरः काञ्चनं बहु

॥१३॥

तच्चापि नाभवत्तेन समं दूर्वाङ्कुरेण च ।

सर्व कोशगतं द्रव्यं दत्तं तेन गिरीन्द्रवत्

॥१४॥

तथापि नाभवत् साम्यं तेन दूर्वाङ्कुरेण तत् ।

पत्नीमाहूयः तां प्राह कुबेरः कौतुकान्वितः

॥१५॥

कुरू मद्वाक्यतः सुभ्रु घटारोहणमग्रतः ।

न समं चेत् समारोक्ष्ये निजसत्त्वरिरक्षया

॥१६॥

पतिव्रताऽऽज्ञया तस्य घटमारुरुहे तदा ।

न समा साऽपि तेनासीत् ततः सर्वां पुरी ददौ

॥१७॥

घटमध्ये कुबेरोऽसौ न चोर्ध्वं जायतेङ्कुरः ।

श्रुत्वा दूतमुखादिन्न्द्रो गजारूढः समाययौ

॥१८॥

स्वकीयद्रव्यसहितो घटमारुरुहे स्वयम् ।

दूर्वाङ्कुरो न चोर्ध्वं स तथापि समजायत

॥१९॥

अधोमुखो गतश्चिन्तां किमेतदिति चिन्तयन् ।

विष्णुं हरं च सस्मार तत्रारोहणकाम्यया

॥२०॥

तत्रागतौ स नगरौ घटमारुहतां तदा ।

तथापि नोर्ध्वमगमत् तदा दूर्वाङ्कुरं स्फुटम्

॥२१॥

ततस्ते तत उत्तेरुः शिवविष्णुधनेश्वराः ।

वरुणेन्द्राग्निमरुतः कौण्डिन्यमभितो ययुः

॥२२॥

देवा देवर्षयश्चैव सिद्धविद्याधरोरगाः ।

दिनान्ते समनुप्राप्ते स्वं नीडमिव पक्षिणः

॥२३॥

नमस्कृत्य मुनिं सर्वे प्रोचुरूद्विग्नचेतसः ।

सर्व ऊचुः ।

वृजिनं विलयं यातं दर्शनात् तव भो मुने

॥२४॥

पूर्वपुण्यभवादग्रे कल्याणं नो भविष्यति ।

तव पत्न्या हृतं सत्त्वं सर्वेषामद्य नः स्फुटम्

॥२५॥

महिमानं न जानीमो दूर्वाङ्कुरसमुद्भवम् ।

एकदूर्वाङ्कुरतुलां त्रैलोक्यमपि नालभत्

॥२६॥

गजाननशिरस्थस्य त्वया भक्त्याऽर्पितस्य च ।

जानीयान्महिमानं कः सम्यक् दूर्वाङ्कुरस्य ह ।

यज्ञदानव्रततपः स्वाध्यायोऽपि न तत्समः

॥२७॥

गजाननैकभक्तस्य जपतस्तपतोऽनिशम् ।

तवापि महिमानं को जानीयात् सर्वदेहिनः

॥२८॥

एवमुक्त्वा मुनिं सर्वे पूर्वं पूज्य गजाननम् ।

सर्वे सभार्य पुपूजुस्तुष्टुवुर्ननृतुर्जगुः

॥२९॥

न ब्रह्मा न हरिःशिवेन्द्रमरुतो नाग्निर्विवस्वान् यमः ।

शेषोऽशेषकलानिधिश्च वरुणो नो चन्द्रमा नाश्विनौ ।

नो वाचामधिपो न चैव गरूडो नो यक्षराट् नाङ्गिरा ।

माहात्म्यं परिवेद देव नियमैरज्ञातरूपस्य ते

॥३०॥

एवं सन्तोष्य सर्वे ते देवदेवं गजाननम् ।

मुनिं च समनुज्ञाप्य ययुः स्वं स्वं निकेतनम्

॥३१॥

आश्रयाऽपि ततो ज्ञात्वा दूर्वामाहात्म्यमुत्तमम् ।

विश्वस्ता भर्तृवाक्ये सा दूर्वाभिः प्रत्यपूजयत्

॥३२॥

विघ्नेश्वरं सर्वदेवं सर्वैर्दूवाभिरर्चितम् ।

प्रणनाम च कौण्डिन्यं भर्तारं सत्यवादिनम्

॥३३॥

उवा च सुप्रसन्ना सा स्वात्मानं निन्दती भृशम् ।

आश्रयोवाच ।

मादृशी नैव दुष्टाऽस्ति याते वाक्ये ससंशया

॥३४॥

विशेषविदुषा स्वामिन् विशेषविदुषा त्वया ।

सम्यक् कृतं मम विभो सर्वभूतदयावता

॥३५॥

तत् क्षमस्वापराधं मे त्वामहं शरणागता ।

ततः प्रातः समुत्थाय दूर्वामादाय सत्वरौ

॥३६॥

स्नात्वा देवं समभ्यर्च्य दूर्वार्पणमकुर्वताम् ।

अनन्यभक्त्या ज्ञात्वा तौ दूर्वामाहात्म्यमुत्तमम्

॥३७॥

सायं प्रातर्देवदेवं पूजयन्तौ निरन्तरम् ।

त्यक्त्वा यज्ञ व्रतं दानं ज्ञात्वा देवो गजाननः

॥३८॥

कृपया परयाऽऽविष्टः स्वधाम प्रत्यपादयत् ।

गणाः ऊचुः ।

अगाधं वर्णितं दूर्वामाहात्म्यमिदमुत्तमम्

॥३९॥

अशेषवर्णने शेषो नेशो नैशौ हरीश्वरौ ।

त्रैलोक्यं तुलया यस्याः पत्रेणैवाऽऽभवत् समम्

॥४०॥

दूर्वेतिस्मरणात् पापं त्रिविधं विलयं व्रजेत् ।

तत्स्मृतौ स्मर्यते देवो यतः सोऽपि गजाननः

॥४१॥

इति चिन्तामणिक्षेत्रमहिमा वर्णितः स्फुटम् ।

श्रवणात् कीर्तनात् ध्यानाद् भुक्तिमुक्तिफलप्रदः

॥४२॥

एतस्मात् कारणाद् यानं त्रयाणां प्रेषितं शुभम् ।

रासभस्य मुखाद् दूर्वा गता देवे वृषस्य च

॥४३॥

चाण्डाल्या शीतनाशाय त्वानीता तृणभारतः ।

वायुना प्रबलेनापि गता दूर्वा गजानने

॥४४॥

यतस्तस्य प्रिया दूर्वा सन्तुष्टोऽसौ विनायकः ।

निष्पापत्वात् त्रयाणां स सान्निध्यं दत्तवान्निजम्

॥४५॥

गन्धमात्रेण दूर्वायाः सन्तुष्टो जायते विभुः ।

प्रसङ्गेन तु भक्त्या वा किं पुनर्मस्तकार्पणात्

॥४६॥

ब्रह्मोवाच

इति दूत मुखाद् राज्ञा स श्रुतो महिमा तदा ।

दूर्वाया मुनिभिः सर्वैर्न दृष्टों न च संश्रुतः

॥४७॥

स्नात्वा दूर्वाङ्कुरान् गृह्य पुपूजुस्ते विनायकम् ।

सेवकाश्चापि दुर्वाभिरानर्चुः श्रीगजाननम्

॥४८॥

आसन् सर्वे दिव्यदेहास्तेजसा सूर्यवर्चसः ।

श‍ृण्वन्तो देववाद्यानां नानारावान् समन्ततः

॥४९॥

विमानवरमारूढा दिव्यवस्त्रानुलेपिनः ।

याता वैनायकं धाम केचित् तद्रूपधारिणः

॥५०॥

नरा नागरिकाः केचिदागतास्तं महोत्सवम् ।

द्रष्टुं दूर्वाभिरानर्चुरेकविंशतिभिः पृथक्

॥५१॥

भुक्त्वां भोगांश्च ते सर्वे गाणेशंस्थानमागमन् ।

विमानं चापि चलितमूर्ध्वं तत् पुण्यपुञ्जतः

॥५२॥

तस्माद् गणेशभक्तेन कार्यं दूर्वाभिरर्चनम् ।

न करोति नरो यस्तु प्रमोदात् ताभिरर्चनम्

॥५३॥

स चाण्डालस्तु विज्ञेयो नरकान् प्राप्नुयाद् बहून् ।

न तन्मुखं निरीक्षेत कदाचिदपि मानवः

॥५४॥

यस्तु दूर्वाभिरर्चेत् तं देवदेवं गजाननम् ।

तस्य दर्शनतोऽन्योऽपि पापः शुद्धिमवाप्नुयात्

॥५५॥

अलाभे बहूदूर्वाणामेकयैवाऽभिपूजयेत् ।

तेनापि कोटिगुणिता कृता पूजा न संशयः

॥५६॥

ब्रह्मोवाच

इति नानाविधो राजन् महिमा कथितस्तव ।

सेतिहासस्तु दूर्वाणां श्रवणात् पापनाशनः

॥५७॥

नाख्येयो दुष्टबुद्धेस्तु प्रिये पुत्रे निवेदयेत् ।

इन्द्र उवाच ।

इति ब्रह्ममुखाच्छ्रुत्वा परमाख्यानमुत्तमम्

॥५८॥

ननन्द परमप्रीतो ननाम कमलासनम् ।

तदाज्ञया ययौ स्थानं स्वकीयं विस्मयान्वितः

॥५९॥

इति श्रीगणेशपुराणे उपासनाखण्डे दूर्वामाहात्म्यं नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥