मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 21

3
उपासनाखण्डः · 21

मन्त्रोपदेश वर्णनं नामैकविंशतितमोऽध्यायः

विश्वामित्र उवाच

इतस्ततो भ्रमन् धावन् वल्लभस्यात्मजस्तदा ।

न विवेद गतं वस्त्रं भूषणं चातिविव्हल

॥१॥

पप्रच्छ ब्राह्मणान्मार्गे वृक्षाँश्चैव विनायकम् ।

विनायको गतः कुत्र क्वचिद्दृष्टो गदन्तु मे

॥२॥

स एवं भ्रान्तहृदयोऽभ्रमच्चक्षुः नृपोत्तम ।

निपपात धरापृष्ठे क्षणं विगतचेतनः

॥३॥

एतस्मिन्नन्तरे स्वप्नेऽपश्यद् ब्राह्मणमग्रतः ।

दत्तं तवेप्सितं बाल मुद्गलेन मया हि तत्

॥४॥

यत् त्वया याचितं पूर्वं विघ्नेशाद् दृष्टिगोचरात् ।

इत्युक्त्वा प्रस्थिते तस्मिन् ब्राह्मणे नृपसत्तम

॥५॥

सुप्तोस्थित इव प्रायो दक्षोहृष्टमनाऽभवत् ।

कस्मैचित् परिपप्रच्छ त्वरिताय द्विजातये

॥६॥

अन्तिकं दर्शितं तेन बहुशिष्योपशोभितम् ।

मुद्गलस्यातिभक्तस्य गजाननरतस्य च ।

आश्रमं परमं दिव्यं सर्वसत्त्वाऽभयप्रदम्

॥७॥

मुद्गलं मनसा ध्यायन् भ्रमन् यातस्तदाश्रमम् ।

नानाश्चर्ययुतं रम्यमलकानन्दनातिगम्

॥८॥

ददर्श मुद्गलं तत्र परार्ध्यासनगं द्विजम् ।

वेदवेदाङ्गतत्त्वज्ञं सर्वशास्त्रविशारदम्

॥९॥

योगाभ्यासबलैर्नानारूपिणं सूर्यतेजसम् ।

वैनायकीं महामूर्तिं रत्नकाञ्चननिर्मिताम्

॥१०॥

चतुर्भुजां त्रिनयनां नानालङ्कारशोभिनीम् ।

उपचारैः षोडशभिः पूजयन्तं विधानतः

॥११॥

ननाम दक्षस्तं दृष्ट्वा दण्डवत् पृथिवीतले ।

मुञ्चन्नश्रूणि नेत्राभ्यां निश्वसँश्च मुहुर्मुहुः

॥१२॥

विश्वामित्र उवाच

पप्रच्छ मुद्गलस्तं तु कस्त्वं कस्मादिहागतः ।

नुदामि दुःखं किं तेऽस्ति वद सर्वमशेषतः

॥१३॥

एवं विप्रवचः श्रुत्वा कमलानन्दनस्तदा ।

सावधानमना भूत्वा जगाद द्विजपुङ्गवम्

॥१४॥

दक्ष उवाच

सत्यमेव वदे ब्रह्मन्नभिप्रायं तवान्तिके ।

कर्णाटदेशे राजाभून्नगरे भानुसंज्ञके

॥१५॥

वल्लभोनाम नीतिज्ञो ज्ञानी दाता दयान्वितः ।

तस्य पत्नी तु कमला जनयामास मां यदा

॥१६॥

तदा दुर्गन्धिक्षतयुक् शोणितस्त्राविनासिकः ।

अन्धः कुब्जः कर्णहीनः शब्दहीनः श्वसन्बहु

॥१७॥

अभवं नागरा दृष्ट्वा त्यजैनमिति चाब्रुवन् ।

पिता मे द्वादशाब्दानि नानायत्नमथाऽकरोत्

॥१८॥

शरीरपाटवार्थं मे नालभत् तन्महेश्वरात् ।

उपायं स ततो मां च मातरं कमलां च मे

॥१९॥

बहिर्निष्कासयामास निर्दयेऽनान्तरात्मना ।

ततो मे जननी खेदादटमाना पुरं पुरम्

॥२०॥

आगत्य कौण्डिन्यपुरं महा सह क्षुधार्दिता ।

भिक्षाटने क्रियमाणे पूर्वपुण्यप्रभावतः

॥२१॥

अभवद्दर्शनं ते वामन्धस्येव यथा दृशिः ।

तव गात्रभवाद्वायोः स्पर्शाद्दोषा गता मम

॥२२॥

रघुनाथाङ्घ्रिसंस्पर्शादहल्याया यथा पुरा ।

दिव्यदेहं समापन्नः प्रसादात्तव सुव्रत

॥२३॥

न मया विदितं किञ्चिज्जनन्या मे निवेदितम् ।

अहं च विस्मितो भूत्वा निश्चयं कृतवान् हृदि

॥२४॥

यदङ्गवायुस्पर्शेन दिव्यदेहमहङ्गतः ।

तद्दर्शनं यदा स्यान्मे तदा देहं धराम्यहम्

॥२५॥

एवं भ्रमन् बहुदिनं ततोऽसौ करुणानिधिः ।

आविरासीन् मत्पुरतः कोटिसूर्यसमप्रभः

॥२६॥

उभयोस्तपसा तुष्टो देवदेवो गजाननः ।

तं दृष्ट्वा कमला कामान् सम्प्राप्ता मनसीप्सितान्

॥२७॥

ततो मामब्रवीद् देवः प्रसन्नो मञ्जुलाङ्गिरम् ।

यदर्थं नियमं कृत्वा भ्रमन् खेदमुपागतः

॥२८॥

सोऽहं ते दर्शनं यातो मुद्गलो ब्राह्मणोत्तमः ।

श्रुत्वा तद्वचनं हृष्टमभवन् मानसं मम

॥२९॥

ततो गजाननमहं स्तुतवान् विविधैः स्तवैः ।

उवाच सुप्रसन्नात्मा वरं वृणु महामते

॥३०॥

अहं चाकथयं तस्मै यद्यन्मे मनसीप्सितम् ।

ततो ब्राह्मणरूपं तत् त्यक्त्वाऽन्यद् रूपमादधे

॥३१॥

चतुर्भुजं महाकायं मुकुटाटोपमस्तकम् ।

परशुं कमलं मालां मोदकानावहत् करैः

॥३२॥

दिव्याम्बरधरं भ्राजद्विषाणकरपुष्करम् ।

कुण्डलेप्रावहच्छुत्योः सूर्यबिम्बे इवापरे

॥३३॥

दिव्यालङ्कारसंयुक्तं भुजङ्गवलयोदरम् ।

देवर्षिगन्धर्वगणैः किन्नरैरूपशोभितम्

॥३४॥

तत आनन्दपूर्णोऽहं दृष्ट्वा रूपं तथाऽभवम् ।

पूर्णचन्द्रं यथा दृष्ट्वा पूर्णो भवति वारिधिः ।

तनोक्तं मुद्गलः सर्वान् कामाँस्ते परिपूरयेत्

॥३५॥

तदेवाऽन्तर्हितं रूपं दृष्टं यावन्न सादरम् ।

यथा स्वप्नगतं सर्वं जागरेर्नैव दृश्यते

॥३६॥

ततोऽहं नितरां खिन्नो न्यपतं भुवि मूर्च्छितः ।

प्रतिलभ्य ततः संज्ञां वरं वृण्विति संस्मरन्

॥३७॥

ययाचे देवदेवेशं सर्वव्यापिनमीश्वरम् ।

गृहे मे सुस्थिरा लक्ष्मीर्भक्तिर्मे तादृशी तव

॥३८॥

दृष्टश्चेत् पूर्वपुण्येन द्वयमेतत् प्रदीयताम् ।

ततोऽहं श्रुतवान् दत्तमिति वाचं नभोगताम्

॥३९॥

ततो हृष्टमना विप्र तव सान्निध्यमागतः ।

मुद्गलस्त्वं द्विपास्योऽसौ द्विपास्यस्त्वं स मुद्गलः

॥४०॥

इति मे मनसि स्पष्टं भाति सर्वं गजाननः ।

भृगुरुवाच ।

इति तद्वचनं श्रुत्वा मुद्गलो वाक्यमब्रवीत्

॥४१॥

सभाग्यः कृतकृत्योऽसि भक्तिमान् कमलासुत ।

महिमा तव भक्तेर्हि वक्तुं शक्यो न केनचित्

॥४२॥

तपामि सुदृढं चाहं दशवर्षशतं तपः ।

न म एतादृशो देवो दृष्ट आसीत् कदाचन

॥४३॥

यः सर्वजगतां नाथश्चराचरगुरोर्गुरूः ।

यो रजःसत्त्वतमसां नेता नित्यं गुणाश्रयः

॥४४॥

यो ब्रह्मशिवविष्णूनां शरीराणि करोति हि ।

भूतानां च विभूतीनां मात्रेन्द्रियधियामपि

॥४५॥

यं न देवा विदुः सम्यक् न वेदा नर्षयोऽपि च ।

एवं गजाननं त्वं हि प्रत्यक्षं दृष्टवान् स्फुटम्

॥४६॥

अहं त्वच्चरणौ वन्दे यतस्त्वं भक्तिमान् परः ।

ततः परस्परं तौ तु नेमतुश्चालिलिङ्गतुः

॥४७॥

गुरुबन्धू चिरं कालमेकचित्तौ समागतौ ।

तत एकाक्षरं मन्त्रं सजपध्यानपूर्वकम्

॥४८॥

मुद्गलो राजपुत्राय नम्रायोपदिदेश ह ।

उवाच चैनं भूयोऽपि मन्त्रस्याऽस्य दिनेदिने

॥४९॥

अनुष्ठानं कुरुष्व त्वं प्रसन्नस्ते भविष्यति ।

गजाननो ददेत् कामान् मनसा वाच्छिताँस्त्वया

॥५०॥

एनं चेत् त्यजसे मन्त्रं सर्वशो नाशमेष्यसि ।

यद्यस्य भक्तिं सुचिरं लोकेऽस्मिन् विचरिष्यसि

॥५१॥

इन्द्रादिलोकपालानां गणो वश्यत्वमेष्यति ।

इह भुक्त्वाऽखिलान् भोगानन्ते मोक्षमवाप्स्यसि

॥५२॥

इति श्रीगणेशपुराणे उपासनाखण्डे मन्त्रोपदेश वर्णनं नामैकविंशतितमोऽध्यायः ॥ २१ ॥