तारकवधो नाम सप्ताशीतितमोऽध्यायः
शङ्कर उवाच
अहं ते कथयिष्यामि व्रतस्यास्य विधिं परम् ।
श्रावणे तु सिते पक्षे चतुर्थ्यामारभेद् व्रतम्
॥१॥तिलामलककल्केन प्रातःस्नानं विधाय च ।
नित्यनैमित्तिकं सर्वं समाप्य क्रोधवर्जितः
॥२॥शुचौ मण्डपिकां कृत्वा कदलीस्तम्भमण्डिताम् ।
इक्षुचामरपुष्पाढ्यामादर्शावलिशोभिताम्
॥३॥तन्मध्ये कलशं स्थाप्य वस्त्रयुग्मेन वेष्टितम् ।
तत्र चाष्टदलं पद्मं कारयेच्चन्दनेन तु
॥४॥गुरोराज्ञां गृहीत्वा च पूजाद्रव्याणि प्रोक्षयेत् ।
उपचारैः षोडशभिः पूजयेद् गणनायकम्
॥५॥काञ्चनं राजतं वापि स्वस्वशक्त्या विनिर्मितम् ।
एकविंशतिपक्वान्नैरेकविंशति सङ्ख्यकैः
॥६॥गजाननाय देवाय नैवेद्यं परिकल्पयेत् ।
एकविंशति मुद्रास्तु दक्षिणार्थं निवेदयेत्
॥७॥सौवर्णी राजतीर्वापि वित्तशाठयं विवर्जितः ।
एकविंशतिदूर्वाश्च श्वेता वा हरिता अपि
॥८॥अर्पयेद् देवदेवाय मन्त्रपुष्पाञ्जलिं तथा ।
ब्राह्मणान् वेदविदुषः पूजयेदेकविंशतिम्
॥९॥भोजयेत् तादृशान्नेन तावद् दानानि दापयेत् ।
नमेत् क्षमापयेत् पश्चादच्छिद्रमिति वाचयेत्
॥१०॥पार्थिवस्य गणेशस्य विधानं कथितं पुरा ।
पूजाप्रकारः सोऽप्यत्र सर्व एव उदाहृतः
॥११॥कथां तामेव शृणुयात् पश्चाद् बन्धुयुतः स्वयम् ।
ध्यायन् गणेशं भुञ्जीत मौनेर्नोपवसेत वा
॥१२॥एवं मासव्रतं कुर्याद् यावद् भाद्रचतुर्थिका ।
तस्यां महोस्तवः कार्यो यथाविभवमादरात्
॥१३॥पूर्वोक्तेन विधानेन पूजयेद् गणनायकम् ।
रात्रौ जागरणं कार्यं गीतवादित्रनिःस्वनैः
॥१४॥पुराणश्रवणैरन्यैर्नानाख्यानवरैरपि ।
सहस्रनाममन्त्रेण स्तुवीत द्विरदाननम् ।
प्रभाते विमलं स्नात्वा पूजयेत् द्विरदाननम्
॥१५॥ब्राह्मणान् भोजयेद् भक्त्या शतं चैवैकविंशतिम् ।
गोभूकाञ्चनवस्त्राणि भूषणानि धनानि च
॥१६॥तेभ्यो दद्याद् यथाशक्ति दीनान्ध कृपणेषु च ।
अशक्तौ भोजयेदेकविंशत्येकं तु वाडवान्
॥१७॥ब्राह्मणाय प्रदातव्या मूर्तिश्चेद्धातुनिर्मिताः ।
अन्यथा परमोत्साहैर्जलमध्ये विसर्जयेत्
॥१८॥दिव्यवादित्रनिर्घोषैर्नरयानस्थितां च ताम् ।
छत्रध्वजपताकाभिर्वेदगीतादिनिःस्वनैः
॥१९॥बालानां दण्डयुद्धैश्च तां विसृज्य गृहं व्रजेत ।
व्रतमेवं तु यः कुर्यादेकवार षडानन
॥२०॥सर्वान् कामानवाप्यैव गाणेशं पदमाप्नुयात् ।
ब्रह्मणाऽकारि सृष्टयर्थमेकार्णं जपता मनुम् ।
प्रत्यक्षो विकटस्तस्य सामर्थ्यं विविधं ददौ
॥२१॥विष्णुनाऽप्रापि शक्तिश्च पालने कुर्वता व्रतम् ।
षडक्षरं महामन्त्रं जपता परमाद्भुतम्
॥२२॥स्वेच्छावतारसामर्थ्यं ततः प्राप्तं षडानन ।
मयाऽप्यकारि पुत्रैतज्जपताऽष्टाक्षरं मनुम्
॥२३॥वृत्रं च शम्बरं दैत्य शक्रेण मदनेन च ।
जिघांसताऽकारि व्रतं तौ तौ जेतुं च शेकतुः
॥२४॥नानासामर्थ्यवानस्मि संहरामि जगत्त्रयम् ।
यक्षगन्धर्वमुनिभिः किन्नरोरगराक्षसैः ।
अकारि स्वेष्टसिद्ध्यर्थं सिद्धचारणमानवैः
॥२५॥एतत् त्वं स्कन्द वरदचतुर्थीव्रतमाचर ।
भविष्यसि रणेऽजेयो विख्यातो भुवनत्रये
॥२६॥षडक्षरं च मन्त्रं ते ददामि वरदस्य ह ।
ब्रह्मोवाच ।
सुमुहूर्ते ददौ तस्मै शिवो दीक्षां षडक्षरीम्
॥२७॥तदैव स ययौ स्कन्दस्तपस्तप्तुं द्विजोत्तम ।
सुनिर्मलतरे देशे वृक्षवल्लीसमाकुले
॥२८॥बहुमूलफले रम्ये सरोवापीसुशोभिते ।
एकपादस्थितः स्कन्दस्तपस्तेपे सुदारुणम्
॥२९॥व्रतं चकार विधिवद् यथोक्तं शम्भुना पुरा ।
अनुष्ठानाच्च मन्त्रस्य व्रतस्यास्य प्रभावतः
॥३०॥प्रसन्नोऽभूत् तदैवास्य परमात्मा गजाननः ।
दर्शयामास सेनान्ये योगिध्येयमनुत्तमम्
॥३१॥निजं रूपं महातेजाश्चतुर्भुजविराजितम् ।
महामुकुटसंशोभि कुण्डलाङ्गदशोभितम्
॥३२॥एकदन्तं भालचन्द्रं शुण्डादण्डविराजितम् ।
पाशाङ्कुशकरं मालादन्तहस्तं सुशोभनम्
॥३३॥मुक्तामणिगणोपेतं सर्पराजयुतोदरम् ।
दिव्यस्त्रपरीधानं दिव्यगन्धानुलेपनम्
॥३४॥अनेकसूर्यसङ्काशं तेजोज्वालासुदीपितम् ।
ददर्श षण्मुखस्तत्र विस्मयोत्फुल्ललोचनः
॥३५॥व्याकुलीभूतचित्तोऽसौ किमेतदित्यचिन्तयत् ।
मया यच्चिन्त्यतेऽन्यद्वा तद्वा विन्द्यान्न चाप्यहम्
॥३६॥ततः पप्रच्छ तूष्णीं स को भवान् किञ्च नाम ते ।
गजानन उवाच ।
चिन्त्यते यो दिवारात्रौ त्वयैकाग्रेण चेतसा
॥३७॥सोऽहं प्राप्तो वरं दातुं वद ते हृदि वाञ्छितम् ।
ददामि तुष्टस्तपसा षडानन गजाननः
॥३८॥स्कन्द उवाच
विदुर्न देवा न च शास्त्रकारा ब्रह्मादयः शेषमुखाश्च नागाः ।
तव स्वरूपं जगदीश सम्यगदर्शि तन्मे द्विरदाननाद्य
॥३९॥तेनैव जातः परिपूर्णकामः तथापि याचे तव देववाक्यात् ।
पराजयो मे न कदापि भूयात् प्रत्यक्षतामेहि विचिन्त्यमानः
॥४०॥अविस्मृतिः स्यात् तव पादपद्मे सर्वेषु देवेषु वरिष्ठता च ।
अलक्ष्यो लक्ष्यतां यातः ततो लक्षविनायकः ।
नाम्ना ख्यातो भवात्र त्वं भक्तकामसुरद्रुमः
॥४१॥लक्ष उवाच
सर्व तद् भविता स्कन्द यद्यत् प्रार्थितमद्य मे
॥४२॥अविस्मृतिश्च सान्निध्यं चिन्त्यमानस्य मे भवेत् ।
पराजयो रिपूणां ते देवश्रेष्ठ्यं भविष्यति
॥४३॥ब्रह्मोवाच
एवं वरान् ददौ देवो मयूरं निजवाहनम् ।
ददौ स्कन्दाय सुप्रीतो विनयाच्च तपोबलात्
॥४४॥मयूरध्वज इत्येवं नाम ख्यातं ततोऽभवत् ।
गजानन उवाच ।
मृतिं यास्यन्ति हस्तात् ते तारकाद्या महासुराः
॥४५॥लक्षविनायक इति नाम्नाऽहं भक्तवत्सलः ।
भविष्यामि चिरादत्र क्षेत्रे त्वद्वाक्यतोऽनघ
॥४६॥ब्रह्मोवाच
एवमुक्त्वा तु विकटस्तत्रैवान्तर्हितोऽभवत् ।
ततः स्कन्दो महामूर्तिं कृत्वा स्थाप्य द्विजैः सह
॥४७॥लक्षविनायक इति नाम चक्रे शुभं तदा ।
मोदकैर्लक्षसङ्ख्याकैः पुष्पैर्दूर्वाङ्कुरैरपि
॥४८॥पूजयामास तां मूर्तिमन्यैर्द्रव्यैस्थताविधैः ।
ब्राह्मणान् भोजयामास तावत् सङ्ख्यायुतान् द्विजान्
॥४९॥स्तुत्वा नत्वा ययौ स्कन्दः शङ्करं लोकशङ्करम् ।
मयूरमारूह्य ततः सर्वं चाकथयच्च तम्
॥५०॥मयूरध्वज इति च नाम देवकृतं जगौ ।
तारकासुरनाशाय ययौ स्कन्दः शिवाज्ञया
॥५१॥स्मृत्वा गजाननं देवं परिगृह्य शिवाशिषः ।
देवसेनापतित्वेऽसावभिषिक्तः सुरर्षिभिः
॥५२॥सेनानीस्तारकं दृष्ट्वा युद्धं चक्रे महाबलः ।
लक्षवर्षान्तरे तं स मारयामास शक्तितः
॥५३॥युद्धं तद् वर्णितुं शक्तिः शेषस्यापि न वै भवेत् ।
तारके निहते दैत्ये ननन्दुः सर्वदेवताः
॥५४॥मुनयो लोकपालाश्च नागाश्च मानवास्तथा ।
मुमुचुः पुष्पवर्षाणि स्कन्दस्योपरि निर्वृताः
॥५५॥सर्वदेवाश्च लोकाश्च स्वं स्वं स्थानं ययुस्तदा ।
स्वाहास्वधावषट्कारान् यथापूर्वं च चक्रिरे
॥५६॥ब्रह्मोवाच
एवं प्रभावो देवोऽसौ कथितस्ते गजाननः ।
व्रतप्रभावोऽपि मया यथावत् ते निरूपितः
॥५५॥त्रयस्त्रिंशत्कोटिसुरैरवध्योऽसौ महासुरः ।
स्कन्देन निहतः सङ्ख्ये देवव्रत प्रभावतः
॥५८॥इन्द्रादिदेवतावृन्दैः पूजनीयोऽभवच्च सः ।
व्यास उवाच ।
अनुष्ठानं कृतं तेन कस्मिन् स्थाने समाधिना
॥५९॥परमेण विशाखेन तन्मे ब्रूहि प्रजापते ।
ब्रह्मोवाच ।
अनुष्ठानं कृतं तेन यत्रास्ते घृषणेश्वरः
॥६०॥प्रसिद्धो वर्तते नाम्ना आसील्लक्षविनायकः ।
एलोऽभूत्तत्र नगरे पश्चाद् राजाऽभिविश्रुतः ।
तन्नाम्ना नगरं ख्यातं ततस्तदभवन्मुने
॥६१॥इति श्रीगणेशपुराणे उपासनाखण्डे तारकवधो नाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥
आदितः श्लोकानां समष्ट्यड्काः - ३७४६ + ३० = ३७७६