मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 29

3
उपासनाखण्डः · 29

नारदागमनं नामैकोनत्रिंशोऽध्यायः

मुनिरुवाच

तस्मिन्वटे समासीनः कस्मिंश्चिद्दिवसे नृपः ।

दूराद्ददर्श देवर्षिं नारदं मुनिपुङ्गवम्

॥१॥

ननाम प्रार्थयामास क्षणं विश्राम्यतामिति ।

उत्ततार नभोमार्गान्नारदः करूणानिधिः

॥२॥

पूजयित्वा यथाशक्ति प्रपच्छ मुनिमादरात् ।

अहं रुक्माङ्गदो नाम भीमपुत्रो महाबलः

॥३॥

मृगयां व्यचरन्वाचक्नवेराश्रममागतः ।

जलयाच्चा कृता तत्र तृषितेन मयाऽनघ

॥४॥

तस्य पत्नी भृशं नष्टा कामार्ता मामचुम्बत ।

तस्मिन्मुनौ गते स्नातुं दृष्टभावेन चेतसा

॥५॥

उवाच मां भजस्वेति कामबाण प्रपीडिता ।

जितेन्द्रियतया देवप्रसादात्सा निराकृता

॥६॥

अशपद्दुःखिताऽत्यन्तं सा मां निष्ठुरचेतसा ।

कुष्ठी भव महादुष्ट सकामां त्यजसे यतः

॥७॥

ब्रह्मोवाच

श्रुत्वैवं दुष्टवचनं निर्गतोऽहं तदाश्रमात् ।

श्वेतकुष्ठी तदा जातो वद मे निष्कृतिं मुने

॥८॥

वियोगान्मम भीमोऽपि मग्नःस्याद् दुःखसागरे ।

श्रुत्वेत्थं वचनं तस्य नारदः प्राह विश्ववित्

॥९॥

उपायं तस्य कुष्ठस्य नाशाय करुणायुतः ।

नारद उवाच ।

आगच्छता मया मार्गे दृष्टमाश्चर्यमुत्तमम्

॥१०॥

विदर्भे नगरं ख्यातं कदम्बमिति संज्ञया ।

तत्प्रासादे मया दृष्टा मूर्तिर्वैनायकी शुभा

॥११॥

चिन्तामणिरिति ख्याता सर्वेषां सर्वकामदा ।

तस्याऽग्रतो महाकुण्डं गणेशपदपूर्वकम्

॥१२॥

कश्चिच्छूद्रो महाकुष्ठी जराजर्जरितो नृप ।

तीर्थयात्राप्रसङ्गेन कदम्बपुरमागतः

॥१३॥

गणेशकुण्डे स्नात्वैव दिव्यदेहमवाप सः ।

विनायकस्वरूपैस्तु गणैरानतितम्बरात्

॥१४॥

विमानवरमारूह्य स गतः स्थानमुत्तमम् ।

यत्र गत्वा न शोचन्ति न पतन्ति पुनः क्वचित्

॥१५॥

दृष्टो मयैव राजेन्द्र तत्र स्नानाय साम्प्रतम् ।

स्नात्वा देवं समभ्यर्च चिन्तितार्थप्रदं विभुम्

॥१६॥

देहि दानानि विप्रेभ्यः सद्यः पूतो भविष्यसि ।

जीर्णां त्वचं परित्यज्य सुरूपी भुजगो यथा

॥१७॥

ब्रह्मोवाच

इति वाणीं नारदोक्तां निशम्य नृपसत्तमः ।

न किञ्चिदुक्तवान् वाक्यं मग्न आनन्दसागरे

॥१८॥

गन्तुं समुद्यते तस्मिन्नारदे मुनिपुङ्गवे ।

प्रणिपत्य ततोऽपृच्छत् प्रपूज्य च मुनिं पुनः

॥१९॥

रूक्माङ्गद उवाच

तस्मिन्क्षेत्रे पुरा केन सिद्धिः प्राप्ता शुभाऽनघ

॥२०॥

मूर्तिश्च स्थापिता केन मणिरत्नमयीं शुभा ।

वैनायकीति मे शंस परं कौतूहलं मुने

॥२१॥

भवादृशानां साधूनां परोपकरणे मतिः ।

अन्यथा भ्रमणे कृत्यं न लोकेषु प्रदृश्यते

॥२२॥

लोकेषु वर्षते मेघः शेषेण ध्रियते धरा ।

उपकाराय सूर्योऽपि भ्रमतेऽहर्निशं द्विज

॥२३॥

समस्य सर्वभूतेषु सर्वज्ञस्य तवाग्रतः ।

अनभिज्ञेन मूढेन किं वक्तव्यं दयानिधे

॥२४॥

पृच्छे तथापि देवर्षे संशयच्छेदनाय वै ।

नारद उवाच ।

साधु पृष्टं त्वया भूप लोकानुग्रहकारक

॥२५॥

तृप्तोऽहं तव वाक्येन सर्वं च कथयामि ते

॥२६॥

इति श्रीगणेशपुराणे उपासनाखण्डे नारदागमनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥