मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 41

3
उपासनाखण्डः · 41

नारदागमनोनाम एकचत्वारिंशत्तमोऽध्यायः

व्यास उवाच

वरदेन गणेशेन प्रभुणा सर्वकारिणा ।

किं कृतं तन्ममाचक्ष्व पृच्छते चतुरानन

॥१॥

ब्रह्मोवाच

ततो गजाननो विप्ररूपेण त्रिपुरं ययौ ।

महार्हासनसंविष्टं ददर्श द्विजसत्तमः

॥२॥

स उत्थाय नमस्कृत्य स्वासने चोपवेशयत् ।

सम्पूज्य परिपपृच्छ कुत आगम्यते द्विज

॥३॥

का विद्या किं व ते नाम पृच्छते ब्रूहि मे द्विज ।

प्रयोजनं च किं तेऽस्ति शक्तिश्चेत् करवामहे

॥४॥

द्विज उवाच

सायङ्गृहा वयं दैत्य सर्वज्ञाः सर्ववेदिनः ।

इच्छाविहारा लोकानां भ्रमामो हितकाम्यया

॥५॥

कलाधरेत्येव नाम्ना विख्याता भुवनत्रये ।

द्रष्टुकामा वैभवं ते सम्प्राप्ता भवनं तव

॥६॥

अखिलाः सम्पदस्ते तु दृष्ट्वा तृप्ताः स्म साम्प्रतम् ।

न कैलासे न वैकुण्ठे ब्रह्मलोकेऽपि नेन्दृशी

॥७॥

पदे शाक्रे न वै सम्पद् यादृशी दृश्यते तव ।

दैत्य उवाच ।

नाममात्रं कलाधारः किं वा जानासि तां द्विज

॥८॥

सम्पदः सवेलोकेषु याभ्य एता प्रशंससि ।

जानासि चेद् दर्शय मे तासां मध्ये महोत्कटाम्

॥९॥

दृष्ट्वा दास्ये वाञ्छितं ते प्रियं प्राणानपि द्विज ।

न स्मरे परिहासेऽपि वितथं भाषितं मुने

॥१०॥

कलाधर उवाच

परेषां सम्पदं दृष्ट्वा किं स्यात् तव सुरद्विषः ।

विनयात् ते प्रसन्नोऽहं कलया ते ददामि वै

॥११॥

काञ्चनं राजतं लौहं त्रिपुरं शरसंस्थितम् ।

रम तत्र स्थिरो दैत्य चिरकालं यथा सुखम्

॥१२॥

अभेद्यं देव गन्धर्वैर्मानुषैरूरगैरपि ।

कल्पितार्थप्रदं तत्ते कामगं कामदं शुभम्

॥१३॥

यदैवैकेन बाणेन कस्मिश्चित् कालपर्यये ।

भेत्स्यते तद् हरो दैत्य तदा नाशमुपैष्यति

॥१४॥

ब्रह्मो वाच

इत्युक्त्वा धनुरादाय संस्तभ्य शरमन्तरा ।

पुरत्रयं निर्ममेऽसौ भुवनत्रयसन्निभम्

॥१५॥

विचित्रैर्भवनै रम्यैर्दीर्घिकाराम संयुतैः ।

नानापक्षिगणैर्जुष्टं सर्वकामप्रदं खगम्

॥१६॥

मायया मोहितो दैत्यस्तत्रस्थो चहृषे भृशम् ।

जगर्ज घनवद्दैत्यो लोकत्रयविकम्पनः

॥१७॥

न मत्तः श्रेष्ठ इत्येवं गर्वदर्पसमन्वितः ।

त्रैलोक्यं क्षोभयामास ब्राह्मणं तमथाब्रवीत्

॥१८॥

याचस्व दुर्लभतंर तत्ते दास्ये द्विजोत्तम ।

इत्युक्त्वा स द्विजः प्राह तं दैत्यं निस्पृहोऽपि सन्

॥१९॥

द्विज उवाच

अहं कैलासमगमं दृष्टवान् मूर्तिमुत्तमाम् ।

शिवेन पूजितां सम्यग् गाणेशीं चिन्तितार्थदाम्

॥२०॥

तामानय त्वं मे देहि शक्तिर्यद्यसुरेश्वर ।

नेतादृशी मया मूर्तिस्त्रैलोक्यञ्चरतेक्षिता

॥२१॥

अतो मम मनस्तस्यामासक्तं दैत्यसत्तम ।

तां प्राप्य कृतकृत्योऽहं भविष्याम्यसुरेश्वर

॥२२॥

कीर्तिं ते प्रथयिष्यामि त्रैलोक्ये सचराचरे ।

न दाता त्रिपुराच्छ्रेष्ठो वाञ्छितं यः प्रयच्छति

॥२३॥

दैत्य उवाच

शङ्कर किङ्करं मन्ये गणये न च देवताः ।

आनयित्वा प्रदास्यामि तां मूर्तिं द्विजपुङ्गव

॥२४॥

ब्रह्मोवाच

इत्युक्त्वा पूजयामास तं कलाधरमादरात् ।

ददौ तस्मै दशग्रामान गोवस्त्रभूषणानि च

॥२५॥

मुक्ताफलानि भूरीणि महार्हाणीतराणि च ।

रत्नानि च प्रवालानि राङ्कवास्तरणानि च

॥२६॥

दासीदासशतं नानाभूषायुक्तं ददेऽसुरः ।

सदश्वान् सवरूथांश्च स्वर्णाक्षान् राजतान् रथान्

॥२७॥

प्रगृह्यैतद् बलाद्दत्तं प्रययौ स कलाधरः ।

स्वाश्रमं हर्षयन् पत्नीं सर्वानाश्रमवासिनः

॥२८॥

ब्रह्मोवाच

एवं च सर्व वृत्तान्तं नारदोऽकथयत्सुरान् ।

तेऽपि कालं प्रतीक्षन्तो दिवसानतिचक्रमुः

॥२९॥

इति श्रीगणेशपुराणे उपासनाखण्डे कलाधरगमनं नामैकचत्वारिंशत्तमोऽध्यायः ॥ ४१ ॥