मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 79

3
उपासनाखण्डः · 79

कार्तवीर्योपाख्याने एकोनाशीतितमोऽध्यायः

मुनिरुवाच

उपकारस्त्वयाऽऽरम्भि साधुवृत्तानुसारिणा ।

आत्मघातं पुरस्कृत्वा कामधेनुं त्वमिच्छसि

॥१॥

भ्रान्तोऽसि नृप सत्यं त्वमप्राप्यं योऽभिवाञ्छसि ।

त्रैलोक्यनाशजं पापं तव मूर्ध्नि पतिष्यति

॥२॥

ब्रह्मोवाच

इति वाक्शरविद्धोऽसौ प्रलयानलसन्निभः ।

राजा बभूव रोषेण मुखादनलमुद्वमन्

॥३॥

उवाच परमक्रुद्धो जमदग्निं मुनिं तदा ।

राजोवाच ।

न मया दुष्टवचनं कस्यापि श्रूयते शठ

॥४॥

किं करोमि द्विजोऽसि त्वमिति क्षान्तं वचः कटु ।

क उवाच ।

तत उत्थाय राजाऽसौ दूतानाज्ञाप्य सत्वरम्

॥५॥

मुक्त्वा कीलात् कामधेनुं शीघ्रं यान्तु ममान्तिकम् ।

आवेष्टयंस्तदा दूताः कामधेनुं तदाज्ञया

॥६॥

फूत्कारेणैव तस्यास्ते त्यक्त्वा प्राणान्दिवं ययुः ।

अन्यान्क्रोधानलेनासौ राजदूतान् ददाह च

॥७॥

श्वासमारुतवेगेन व्योम्नि वीराः परेऽभ्रमन् ।

आच्छाद्य मण्डलं भानोर्न प्राज्ञायत किञ्चन

॥८॥

दिशः सतिमिरा जाता व्योमापि न च भासते ।

धराकम्पः समभवद् वृक्षाः पेतुः प्रकम्पिताः

॥९॥

सैनिकाश्च ततो भीता यान्ति सर्वे दिशो दश ।

केनचित्ताडिता सा गौः कशाघातेन दूरतः

॥१०॥

उड्डीयोड्डीय सा धेनुरधावत् सैन्यमेव तत् ।

गजवृन्दं यथा सिंहो गरुत्मानुरगानिव

॥११॥

हाहाकारो महानासीद् वीराणां तत्र धावताम् ।

तानुवाच न भीः कार्या कार्तवीर्यो महाबली

॥१२॥

मया ध्माते मुदा शङ्खे भीता यास्यति मन्दिरम् ।

कामधेनुः कियच्चास्ति पश्यन्तु कौतुकं मम

॥१३॥

ततो दध्मौ महाशङ्खं त्रैलोक्यं पूरयन् रवैः ।

न बिभ्यत् कामधेनुस्तां ताडयामासुरोजसा

॥१४॥

यष्टिभिर्लोहनिचयैः सर्वे ते राजसेवकाः ।

यत्र यत्र प्रहारोऽस्याः शरीरे जायते ततः

॥१५॥

सन्नद्धाः सर्वशस्त्राढ्या नानावीराः विनिःसृताः ।

शकाश्च बर्बरा आसंस्तस्या केशसमुद्भवाः

॥१६॥

पटच्चराः पाददेशादेवं सर्वै प्रजज्ञिरे ।

नानायवनजातीया नानावीरास्तथाऽपरे

॥१७॥

वाजिवारणसङ्घाश्च रथिनो बलवत्तराः ।

ते चैव युयुधुस्तत्र कार्तवीर्यस्य सैनिकैः

॥१८॥

न्यपतन् कार्तवीर्यस्य सैनिकास्तैः प्रहारिताः ।

अपरे मिलितास्तत्र निशि वृक्षे पतङ्गवत्

॥१९॥

परस्पराघातहता निपेतुः शतशो नराः ।

भङ्क्त्वा शस्त्रैश्च शस्त्राणि मल्लयुद्धं प्रचक्रिरे

॥२०॥

एवं सुतुमुले जन्ये शस्त्रेषु निपतत्सु च ।

स्वीयो वा परकीयो वा न प्राज्ञायत किञ्चन

॥२१॥

रजसाच्छादिते सूर्ये जघ्नुरेवं परस्परम् ।

कोलाहलो महानासीद् हन्यतां हन्यतामिति

॥२२॥

हेषितैर्बृंहितैःक्ष्वेडैर्निबिडो रथनेमिभिः ।

मृदङ्गताल वेणूनां भेरीणां निनदैरपि

॥२३॥

एवं गव्यैः कार्तवीर्यै रथ्यश्वगजपत्तिभिः ।

अभवत् सुमहद् युद्धं भूतराक्षसभीतिदम्

॥२४॥

पक्षिजम्बूकसुखदं वीरपत्नीभयप्रदम् ।

केषाञ्चिज्जानुनी भग्ने केषाञ्चिच्च शिरांसि च

॥२५॥

खड्गखेटकभल्लान्नां शराणां धनुषामपि ।

भग्नानां न च सङ्ख्याऽस्ति वीराणां रथिनामपि

॥२६॥

प्रपेतुः कार्तवीर्यस्य शेषा ये सैनिकास्तदा ।

पृष्ठलग्ना ययुर्गव्या हसन्तो न च जघ्निरे

॥२७॥

निनिन्दुर्मुनिना किं वोऽनिष्टं कृतमितीह ते ।

पूर्वदोषप्रसङ्गेन राज्ञो जाता सुदुर्मतिः

॥२८॥

एवं प्रभग्ने सैन्ये स उत्तस्थौ कृतवीर्यजः ।

हस्तयोर्जगृहे पञ्च शतं बाणान् धनूंषिच

॥२९॥

दत्त्वा भूमौ वामजानुं धनूंष्याकृष्य वेगवान् ।

चिक्षेप शरजालं स गव्ये सैन्ये महाभुजः

॥०॥

फलहीनमभूत्तस्य शरजालं नृपस्य तत् ।

अनीतेश्चरितं तद्वद् वन्ध्यायाः सुरतं यथा

॥३१॥

पुनः पुनर्जहौ बाणांस्तावतो राजसत्तमः ।

कामधेनोर्न चैकोऽपि वीरो भग्नोऽभवत्तदा

॥३२॥

शरजाले वृथा याते सन्तप्तोऽभून्नृपस्तदा ।

क्व गतं मम सामर्थ्यमिति चिन्तातुरोऽभवत्

॥३३॥

व्याकुले न प्रहर्तव्यमिति सर्वं ययुर्दिवम् ।

कामधेनुर्मदा युक्ता किं युद्धं लघुना सह

॥३४॥

गतायां कामधेनौ स कार्तवीर्यो मुनिं ययौ ।

रोषेणोवाच ते ब्रह्मन कापट्यं विदितं मया

॥३५॥

न स विप्रोऽभिमन्तव्यो यस्य स्यात्कपटं हृदि ।

इत्येकं बाणमादाय विव्याध द्विजपुङ्गवम्

॥३६॥

लग्ने हृदि महाबाणे प्राणत्यागं चकार सः ।

रेणुका तं नृपं प्राह ब्रह्महत्या वृथा कृता

॥३७॥

स ऊचे रक्तनयनः क्रोधाविष्टो नृपस्तु ताम् ।

तूष्णीं तिष्ठ न चेद् हन्मि त्वामपीह मुनिप्रिये

॥३८॥

एकविंशतिबाणैस्तां दुष्टो राजाऽहनद् रुषा ।

सस्मार मनसा साऽपि जमदग्निं मुनिं तदा

॥३९॥

पश्चादुवाच नृपतिं दुष्ट चाण्डाल किं कृतम् ।

अपराधं विना कस्मादावां निहतवानसि

॥४०॥

तवापि भविता नाशो भुजानां नात्र संशयः ।

श्रुत्वेत्थं वचनं तस्यास्ततो यातो नृपस्तदा

॥४१॥

अल्पावशिष्टसैन्येन चिन्ताक्रान्तो ययौ पुरीम् ।

विन्निदन् हृदि चात्मानं शोचंश्च मृतसैनिकान्

॥४२॥

निरुत्साहो निरुद्योगो विवेश निजमन्दिरम्

॥४३॥

इति श्रीगणेशपुराणे उपासनाखण्डे कार्तवीर्योपाख्याने एकोनाशीतितमोऽध्यायः ॥ ७९ ॥