मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 92

3
उपासनाखण्डः · 92

ब्रह्मव्यास भृगुसोमकान्त संवादे गजानननामनिरूपणं नाम द्विनवतितमोऽध्यायः

क उवाच

एवं नत्वा च स्तुत्वा च सर्वे ते तु गजाननम् ।

पुनरुचुर्गणाध्यक्षमद्य धन्यतमा वयम्

॥१॥

धन्यं तपो नो दानं च ज्ञानं यज्ञश्च पूर्वजाः ।

अद्य नो दृष्टयो धन्या याभिर्दृष्टो गजाननः

॥२॥

एवं वाक्यामृतैस्तेषां स्तुतिभिः परितोषितः ।

उवाच श‍ृण्वतां तेषां गाम्भीर्याद् द्विरदाननः

॥३॥

नैतादृशं मयाऽदर्शि ब्रह्मविष्णुशिवादिषु ।

यत् साक्षाद् दृश्यते सर्वै रूपं मे निर्गुणस्य यत्

॥४॥

अतितुष्टोऽनया स्तुत्या वरान् दातुमिहागतः ।

यद् यद् वो वाञ्छितं तत् तद् वृणुध्वमखिलं तु यत्

॥५॥

एवमुक्तास्तदा तेन विकटेन मुनीश्वर ।

यस्य यद् वाञ्छितं तत् तद् वव्रुस्तस्माद् गजाननात्

॥६॥

असङ्ख्यत्वात् तद्वराणां नास्ति शक्तिश्चतुर्मुखैः ।

गदितुं सर्वथा तस्मादुक्तं सङ्क्षेपतो मया

॥७॥

ताँस्तान् ददौ वरान् यान् यान् सर्वे वव्रुर्गजाननम् ।

पुनरप्यवदत् सर्वानिदं स्तोत्रं मम प्रियम् ।

त्रिसन्ध्यं यः पठेदेतद् विद्यावान् पुत्रवान् भवेत् ।

आयुरारोग्यमैश्वर्यं यशो वृद्धिं जयोदयम् ।

प्राप्नुयाद् वाञ्छितानर्थानन्ते च परमं पदम् ।

पुनरूचे गणाधीशः स्तोत्र मेतज्जपेन्नरः ।

त्रिसन्ध्यं त्रिनिदं तस्य सर्व कार्यं भविष्यति

॥८॥

यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।

अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धिरवाप्नुयात्

॥९॥

यः पठेन्मासमत्रं तु दशवारं दिने दिने ।

स मोचयेद् बन्धनात् तं राजबद्धं न संशयः

॥१०॥

विद्याकामो लभेत् विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।

वाञ्छितं लभते सर्वमेकविंशतिवारतः

॥११॥

यो जपेत् परया भक्त्या गजाननपरो नरः ।

एवमुक्त्वा ततो देवः सर्वेषामेव पश्यताम्

॥१२॥

अन्तर्दधेऽखिलाधारः सुमुखोऽसौ गजाननः ।

ते च चक्रुस्तदा मूर्तिं गणेशस्य शुभाननाम्

॥१३॥

प्रतिष्ठाप्य च तां स्थूले प्रासादे रत्ननिर्मिते ।

सुमुखेति च तस्यास्ते नाम चक्रुःसुविश्रुतम्

॥१४॥

सम्पूज्य च नमस्कृत्वा स्वं स्वं स्थानं ययुः सुराः ।

सर्वे ते मुनयो लोकाः सर्वकार्यरतास्तदा

॥१५॥

केचित्तस्या नाम चक्रुरेकदन्त इति स्फुटम् ।

गन्धर्वैः किन्नरैरन्या स्थापिता मूर्तिरुत्तमा

॥१६॥

प्रासादे काञ्चने श्रेष्ठेऽनेकधा परिपूज्य च ।

कपिले ति च नामास्याः स्थापयामासुरुत्तमम्

॥१७॥

गुह्यकाश्चारणाः सिद्धा मूर्तिमन्यां प्रचक्रिरे ।

महालये प्रतिष्ठाप्य नेमुश्च पुपुजुश्च ताम्

॥१८॥

गजकर्णेति नामास्याश्चक्रुस्ते तु स्फुटार्थकम् ।

तत् प्रभावाद्विमानस्थाः सर्वे ते दिवमाक्रमन्

॥१९॥

लम्बोदरेति नाम्ना च स्थापिता सर्व मानवैः ।

श्वापदैरखिलैरन्या स्थापिता मूर्तिरुत्तमा

॥२०॥

विकटेति च नाम्ना तां पुपूजुस्ते ययुर्वनम् ।

गिरयश्च द्रुमाश्चान्यां मूर्तिं स्थाप्य प्रपूज्य च

॥२१॥

विघ्ननाशन इत्येवं नाम कृत्वा स्थितास्तु कौ ।

तत्प्रसादच्च ते ख्याताः पर्वताश्च द्रुमास्तथा

॥२२॥

सर्वैः पक्षिगणैर्मूर्तिः स्थापिता रत्नकाञ्चनी ।

गणाधिपेति नाम्ना तैः पूजिता च नमस्कृता

॥२३॥

सर्वैर्विषधरैरेका स्थापिता गणनायकी ।

यस्या हूतिः कृता तैस्तु धूमकेतुरिति स्फुटा

॥२४॥

सर्वैर्जलाशयैरेका प्रतिमा स्थापिता शुभा ।

गणाध्यक्षेति नाम्ना सा पूजिता परमोत्सवैः

॥२५॥

कृमिकीटादिनिचयैर्वनस्पत्योषधीगणैः ।

स्थापिता परमा मूर्तिर्भालचन्द्रेति विश्रुता

॥२६॥

अन्यैः सचेतनैरन्या रत्नप्रासादमध्यगा ।

वैनायकी महामूर्तिः पूजिता भक्तिभावतः

॥२७॥

गजाननाख्यया ख्याता सर्वेषां सर्वकामदा ।

ते ते जगत्त्रये ख्यातास्तत्तज्जात्या बभूविरे

॥२८॥

सुखिनः स्वस्वकार्येषु दक्षा देव प्रसादतः ।

प्रत्येकनामकथनेन शक्तिर्मम वर्त्तते

॥२९॥

सारं सारं प्रगृह्यैव कृतं नाम्ना सहस्रकम् ।

ततोऽपि सारभूतानि प्रोक्तानि द्वादशैव तु

॥३०॥

समुद्रमथनाद् यद्वद् रत्नानी व चतुर्दश ।

एवं सङ्क्षेपतो ब्रह्मन् महिमा तेऽभिवर्णितः

॥३१॥

विस्तराद् गदितुं शेषो नेशो नेशोऽप्यहं हरिः ।

इन्द्रादिमशकानां च जीवानां यक्षरक्षसाम्

॥३२॥

तत्र का गणना कार्या मया सत्यवतीसुत ।

तस्मात् सर्वेषु कार्येषु पूजनीयो गजाननः

॥३३॥

यो न पूजयते देवदेवं विघ्नविनाशनम् ।

स दुरात्मा परित्याज्यश्चाण्डाल इव दूरतः

॥३४॥

मुनिरुवाच

अनुक्रमेण कथय नामानि द्वादशैव मे ।

श्रवणात् पठनादेषां सर्वं निर्विघ्नतामियात्

॥३५॥

ब्रह्मोवाच

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।

लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः

॥३६॥

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।

द्वादशैतानि नामानि यः पठेच्छृणुयादपि

॥३७॥

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।

सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते

॥३८॥

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

॥३९॥

कोटिकन्याप्रदानानि कोटियज्ञं व्रतानि च ।

तपांसि यानि सर्वाणि तीर्थान्यायतनानि च

॥४०॥

स्वर्णभारसहस्राणि कोटिदानानि यान्यपि ।

कृच्छ्राणि तप्तकृच्छ्राणि पराकेन्दुव्रतानि च

॥४१॥

शतांशमेषां पुण्यस्य तानि नाम्नां न यान्ति च ।

इमानि प्रातरुत्थाय शुचिर्भूत्वा समाहितः

॥४२॥

यः पठेन्मानवो भक्त्या विघ्ना नो यान्ति तं नरम् ।

सिद्धयन्ति सर्वकार्याणि मोक्षमन्ते व्रजत्यसौ

॥४३॥

तस्य दर्शनतो लोका देवाः पूता भवन्ति च ।

अत एव मुने सौराः शाक्ताः शैवाश्च वैष्णवाः

॥४४॥

उक्त्वा द्वादश नामानि सर्वकार्याणि कुर्वते ।

गाणेशा अपि कुर्वन्ति किमत्रापि च कौतुकम्

॥४५॥

न सिद्धन्ति हि कार्याणि द्वादशान्यतमस्य ह ।

उच्चारणं विना ब्रह्मँस्तस्मादेकं समुच्चरेत्

॥४६॥

दुष्टानां नास्तिकानां च कार्यं यद् यद्धिसिद्ध्यति ।

तेऽपि बीजं समुच्चार्यमज्ञानादपि कुर्वते

॥४७॥

एवं ते महिमा सर्वः कथितो लेशतो मुने ।

उपासनाफलं नाना यथामति निरूपितम्

॥४८॥

विष्णुनां कथितं यावत् तावत् तव निरूपितम् ।

सोऽपि नान्तं जगामास्य गणेशोपासनस्य ह

॥४९॥

गणेशनाम महिमा पूर्णो ज्ञातो न तेन च ।

भृगुरुवाच ।

एवं ते कथितां राजन्नद्भुतो महिमा मया

॥५०॥

ब्रह्मणा सुप्रसन्नेन यो व्यासाय निरूपितः ।

उपासनाखण्डमिदं वर्णितं नृपते मया

॥५१॥

यदि ते श्रवणे श्रद्धा तदान्यदपि वर्णये ।

चरितं गणनाथस्य सोमकान्ताघनाशनम्

॥५२॥

सूत उवाच

इति वः कथितं नानाकथान्तरसमन्वितम् ।

उपासनं गणेशस्य शौनकाद्या महर्षयः

॥५३॥

वेदव्यासाय मुनये ब्रह्मणा यत् समीरितम् ।

भृगुणा सोमकान्ताय वर्णितं पापनाशनम्

॥५४॥

श‍ृणुयाद् यो गणेशस्य पुराणमिदमुत्तमम् ।

स सर्वामापदं हित्वा भुक्त्वा भोगाननेकशः

॥५५॥

पुत्रपौत्रसमायुक्तो ज्ञानविज्ञानसंयुतः ।

लभते परमां मुक्तिं गणेशस्य प्रसादतः

॥५६॥

न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ।

यः श्रावयेन् महाभक्त्या यथोक्तफलभाग्भवेत्

॥५७॥

यथाप्तं सोमकान्तेन श‍ृण्वतापरमादरात्

॥५८॥

इति श्रीगणेशपुराणे उपासनाखण्डे ब्रह्मव्यासभृगुसोमकान्तसंवादे गजानननामनिरूपणं नाम द्विनवतितमोऽध्यायः ॥ ९२ ॥

श्रीमद्गजाननार्पणमस्तु । श्रीशंवन्दे ॥ इति श्रीमद्गणेशमहापुराणे पूर्वखण्डं (उपासनाखण्डं) समाप्तम् । आदित श्लोकानां समष्ट्यङ्काः = ४०३८ + ५८ =४०९६ (Continued with the second part क्रीडाखण्डम् in a separate file.) Proofread by Manish Gavkar ``` % Text title : Ganesha Puranam 1 purvakhaNDam or Upasanakhandam % File name : gaNeshapurANam1.itx % itxtitle : gaNeshapurANam 1 pUrvakhaNDaM athavA upAsanAkhaNDam % engtitle : Ganesha Puranam 1 purvakhaNDam or Upasanakhandam % Category : purana, ganesha % Location : doc_purana % Sublocation : purana % Language : Sanskrit % Subject : philosophy/hinduism/religion % Proofread by : Manish Gavkar % Indexextra : (Scans 1, 2, 3, 4, 5, Hindi, Thesis 1, 2, TOC, Analysis) % Latest update : March 20, 2025 % Send corrections to : sanskrit at cheerful dot c om % Site access : https://sanskritdocuments.org ```