मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 39

3
उपासनाखण्डः · 39

इन्द्रपराजयोनामैकोन चत्वारिंशोऽध्यायः

व्यास उवाच

ततः किमकरोद् ब्रह्मं त्रिपुरो वरदर्पितः ।

तत्सर्वं कौतुकं मह्यं वक्तुमर्हस्यशेषतः

॥१॥

ब्रह्मोवाच

ततः काश्मीरपाषाणभवां मूर्तिं गजाननीम् ।

स्थापयामास विधिवद्ब्रह्मणैर्मन्त्रकौविदैः

॥२॥

महान्तं काञ्चनं दिव्यं मणिमुक्ताविभूषितम् ।

गणेशपुरमध्ये स प्रासादं कृतवान् शुभम्

॥३॥

उपचारैः षोडशभिः पूजयामास तं विभुम् ।

नमस्कारैरसङ्ख्यातैः स्तुतिभिः प्रार्थनैरपि

॥४॥

क्षमाप्य देवदेवेशमनुज्ञाप्य ययौ बहिः ।

ददौ दादान्यनेकानि ब्राह्मणेभ्यो यथार्हतः

॥५॥

ततस्तदभवत्स्थानं बङ्गाले त्रिपुरस्य ह ।

गणेशपुरमित्येवं सर्वेषां सर्वसिद्धिदम्

॥६॥

ततः स त्रिपुरो दैत्यो गजाननवरोद्धतः ।

नृलोकान्पालयामास देवानामाक्रमे रतः

॥७॥

पदातयस्तुरङ्गाश्च गजाश्च रथिनस्तथा ।

दशदिग्भ्यो ययुस्तं तु सेवार्थं बलवत्तराः

॥८॥

राजानः सेवका जाता आनुकूल्येन तस्य ह ।

प्रतिकूला गता मृत्युं युद्धं कर्तुमनीश्वराः

॥९॥

एवमाक्रम्य भूखण्ड ततोऽगादमरावतीम् ।

तत इन्द्रो देवगणैर्नानायुद्ध करैर्वृतः

॥१०॥

ऐरावतसमारूढो ययौ युद्धाय दंशितः ।

सोऽपि सेनां त्रिधा चक्रे चतुरङ्गां महाबलः

॥११॥

भीमकायं महादैत्यं वज्रदंष्ट्रं च दानवम् ।

धनुर्युद्धे गदायुद्धे शस्त्रयुद्धे च कोविदम्

॥१२॥

अस्त्रयुद्धे मल्लयुद्धे निष्णातं दैत्यपुङ्गवम् ।

भीमकायमवोचत् स नृलोकस्याधिपो भव

॥१३॥

कालकूटं वज्रदंष्ट्रं जगाद त्रिपुरो बली ।

त्रिभागयाऽनया याहि सेनया त्वं रसातलम्

॥१४॥

शेषमुख्यान् सर्वनागान् वशान् कुरू ममायज्ञा ।

अहं त्रिभागया शक्रमाक्रमिष्येऽखिलान्सुरान्

॥१५॥

भीमकायो वज्रदंष्ट्रो यथऽऽज्ञप्तो प्रतस्थतुः ।

चतुरङ्गबलैर्युक्तः स्वयं नन्दनमाययौ

॥१६॥

दिव्यान् वृक्षान् बभञ्जुस्ते वार्यमाणास्तु सैनिकाः ।

तत्र स्थित्वा दैत्यराजो दूतान् शक्राय प्राहिणोत्

॥१७॥

अत्रानयन्तु तं शक्रं दर्शनाय त्वरान्विताः ।

वदन्तु मम वाक्यं वा मृत्युलोकं व्रजाऽधुना

॥१८॥

तत्र त्वां पालयिष्यामि साम्ना देह्यमरावतीम् ।

यदि युद्धे च ते बुद्धिस्तदा शीघ्रं प्रयाहि माम्

॥१९॥

ते गत्वा शक्रमाचख्युस्त्रिपुरासुरचेष्टितम् ।

श्रुत्वेत्थं वचनं तेषां वज्राहत इवाचलः

॥२०॥

चकम्पे चाचलरिपुर्वायुनेव यथा तरूः ।

चिन्तया व्याकुलीभूतः किमेतदिति चिन्तयन्

॥२१॥

क्रोधानलेन जज्वाल संरक्ताखिललोचनः ।

कुर्वन्भस्मेव लोकानां शोषयन्निव वारिधीन्

॥२२॥

उवाच दूतान् गच्छन्तु यान्तु युद्धाय सत्वराः ।

स्वयमैरावतारूढो जगर्ज सुरशत्रुहा

॥२३॥

तेन नादेन महता क्षोभयन् भुवनत्रयम् ।

श्रुत्वा तद्वचनं ते तु गता दूता यथागतम्

॥२४॥

विबुधाश्चापि सन्नद्धा नानाशस्त्राऽसिपाणयः ।

भिण्डिपालकराः केचित् केचिच्छक्त्यृष्टि पाणयः

॥२५॥

मुद्गरासिधाराः केचिद्धनुर्बाणकराः परे ।

गदाखेटकराः केचित् केचित्तु दण्डपाणयः

॥२६॥

एवं देवगणैर्युक्तो वज्रभृन्निर्ययौ बहिः ।

कृतस्वस्त्ययनो विप्रैर्नानावादित्रनिस्वनैः

॥२७॥

त्रिपुरो दूतवाक्येन ज्ञात्वा युद्धोद्यमन्तु तम् ।

सन्नद्धामकरोत्सेनां प्रहृष्टां चतुरङ्गिणीम्

॥२८॥

असङ्ख्यातां समादाय हयारूढोऽभिनिर्ययौ ।

परस्परं ददृशतुस्ते सेने वीरभूषणे

॥२९॥

कोलाहलो महानासीद् बृंहितैर्हेषितैरपि ।

क्ष्वेडितै रथघोषैश्च वाद्यघोषैरनेकधा

॥३०॥

ततो हुङ्कारमात्रेण नोदितास्त्रिपुरेण ते ।

वीरा युयुधिरे देवैः स सम्मर्दो महानभूत्

॥३१॥

नाभूत स्वपरबोधोऽपि जघ्नुरेव परस्परम् ।

एवं सुतुमुले जन्ये मृतास्ते दानवा बहु

॥३२॥

सुमनसोऽपि पतिता दैत्यशस्त्र प्रपीडिताः ।

बभुस्ते सैनिकास्तत्र पुष्पिता इव किंशुकाः

॥३३॥

अशय्याः शयिताः केचिदङ्घ्रिहीनास्तथाऽपरे ।

क्रमेलका गजाध्यक्षा रथाश्वाश्च पदातिनः

॥३४॥

ततः पलायनपरा दैत्या याता दिशो दश ।

सिंहं दृष्ट्वैव सहसा मृगा जीवनकाङ्क्षिणः

॥३५॥

ततो निवार्य तत्सैन्यं वृन्दारकरिपुः स्वयम् ।

क्रोधानलमहाज्वालो गर्जन्मेघ इवापरः

॥३६॥

शक्रसान्निध्यमगमद् भक्षयन्निव रोदसी ।

स्वखड्गेनाहनत्तीव्रं हस्तं वज्रधरं हरेः

॥३७॥

वज्रं पपात तद्धस्तात् तदद्भुतमिवाभवत् ।

तदादायाऽहनद् द्दैत्यस्तेनैवैरावतं गजम्

॥३८॥

ऐरावतः प्रहारेण पलायनपरो ययौ ।

ततो जघान स हरिर्मुष्टिना दैत्यपुङ्गवम्

॥३९॥

स क्षणं पतितो भूमौ तत उत्थाय वेगवान् ।

जघान मुष्टिना शक्रं धरण्यां तमपातयत्

॥४०॥

तत उत्थाय मघवा दैत्यं प्राह रूषान्वितः ।

इदानीं मल्लयुद्धाय सज्जीभवाऽसुरेश्वर

॥४१॥

ततः स विस्मयाविष्ट उवाच बलगर्वितः ।

किमर्थ त्वं निजप्राणे निर्दयोऽसि सुरेश्वर

॥४२॥

कृमिकीटपतङ्गानां प्राणोऽतीव प्रियो मतः ।

गच्छ देव धरण्यां ते स्थानं दत्तं मया शुभम्

॥४३॥

ब्रह्मोवाच

इति तद्वचनं श्रुत्वा जगाद बलवृत्रहा ।

यद्यहं जीवितात् त्वां हि मोचयामि न चेद्रिपो

॥४४॥

तदाऽहं धरणीं यामि त्वदाज्ञावशगोऽधम ।

त्वमेव हतमूर्धाऽद्य धरणीं यास्यसे खल

॥४५॥

वदत्येवं तु देवेन्द्र दैन्येन्द्रो निजघान तम् ।

मुष्टिना हृदये दुष्टस्ततो युद्धमभूत् तयोः

॥४६॥

चाणूरकृष्णयोर्यद्वत् परस्परजयैषिणोः ।

हृदयं हृदयेनैव हस्तं हस्तेन जघ्नतुः

॥४७॥

जानुभ्यां जानुनी चोरू ताभ्यां तौ च निजघ्नतुः ।

मस्तकं मस्तकेनैव कूर्परं कूर्परेण तु

॥४८॥

पृष्ठं पृष्ठेन पादाभ्यां पादौ तावभिजघ्नतुः ।

पादों गृहीत्वा दैत्योऽस्य भ्रामयित्वा मुहुर्मुहः

॥४९॥

तत्याज दूरतः शक्रं यथा न ज्ञायते क्वचित् ।

आरूरोह स्वयं तं तु चतुर्दन्तं गजेश्वरम्

॥५०॥

ततो देवगणाः सर्वे हिमवद्गिरिगव्हरम् ।

ययुः शक्रं विचिन्वन्तो दैत्यसन्त्रासतापिताः

॥५१॥

कुत्र वा पतितो देवो द्रक्ष्यामो वा कथं विभुम् ।

एवं सञ्चिन्तयन्तस्ते भ्रमन्तो ददृशुश्च तम्

॥५२॥

अधोमुखं समायान्त देवेन्द्रं तं तदैव ह ।

प्रणेमुर्देवसङ्घास्तमालिलिङ्गस्तथाऽपरे

॥५३॥

पूजयामासुरपरे बीजयामास कश्चन ।

पादसंवाहनं चास्य चक्रुः केचन भक्तितः

॥५४॥

तत्रैव न्यवसन् सर्वे गुप्तरूपाः सुरास्तदा ।

दैत्यस्त्वैरावतारूढो ययौ ताममरावतीम्

॥५५॥

देवस्थानानि दैत्यानामिन्द्रासनगतः स्वयम् ।

ददौ विभज्य प्रत्येकं मानपूर्वं सुरद्विषाम्

॥५६॥

दिव्य वादित्रनिर्घोषैः श‍ृण्वन् गान्धर्वनिस्वनान् ।

किन्नरैः सेव्यमानस्तु रेमे चाप्सरसां गणैः

॥५७॥

इति श्रीगणेशपुराणे उपासनाखण्डे इन्द्रपराजयोनामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥