पञ्चसप्ततितमोऽध्यायः
क उवाच
श्रुत्वा दृष्ट्वा शूरसेनो महिमानं व्रतोद्भवम् ।
स्वयं कर्तुमनाः प्राह वसिष्ठं मुनिपुङ्गवम्
॥१॥राजोवाच
मुहूर्तं वद सङ्कष्टचतुर्थीव्रत हेतवे ।
व्रतं कर्त्तुमिहेच्छामि सद्यः प्रत्ययकारकम्
॥२॥वसिष्ठ उवाच
माघे कृष्णे भौमवारे कुरुष्व व्रतमुत्तमम् ।
सर्वसिद्धिकरं सर्वकामदं राजसत्तम
॥३॥ब्रह्मोवाच
राजा सम्भृतसम्भारः सपत्नीकोऽति भक्तिमान् ।
अचिरेणैव सम्प्राप्ते वसिष्ठोक्तदिने शुभे
॥४॥प्रारीप्समानः सङ्कष्टचतुर्थीव्रतमुत्तमम् ।
प्राप्तःस्नानं विधायाथ नित्यकर्म समाप्य च
॥५॥गणेशं पूजयित्वैव स्वस्तिवाच्यद्विजर्षभान् ।
पूजयित्वा वसिष्ठं स ततोऽनुज्ञां समाप्य च
॥६॥गणेशे मन आधाय तन्नामजपतत्परः ।
एकाङ्गुष्ठस्थितस्तावद् यावदस्तमियाद् रविः
॥७॥पुनःस्नानं चकाराशु सायंसन्ध्यामुपास्य च ।
प्रारभत् पूजनं सम्यग्वसिष्ठेन समन्वितः
॥८॥महामण्डपिकां कृत्वा कदलीस्तम्भमण्डिताम् ।
नानालङ्कारवस्त्राढ्यां छत्रचामरशोभिताम्
॥९॥आदर्शपङ्क्तिरुचिरां पुष्पमालाविभूषिताम् ।
नानामणिप्रभायुक्तां दीपमालाविराजिताम्
॥१०॥तन्मध्ये स्वर्णकलशे स्थापयित्वा गजाननीम् ।
सौवर्णीं प्रतिमां चारुसर्वावयवसुन्दराम्
॥११॥नानालङ्काररुचिरां नानारत्नविभूषिताम् ।
पठत्सु द्विजमुख्येषु गायत्सु गायकेषु च
॥१२॥नदत्सु सर्वतूर्येषु नृत्यत्सु नर्तकेषु च ।
वैदिकैश्चैव पोराणै स्तां मूर्तिं समपूजयत्
॥१३॥उपचारैः षोडशभिः पञ्चामृतपुरःसरम् ।
मोदकापूपलड्डूकपायसान्नं सशर्करम्
॥१४॥नानाव्यञ्जनशोभाढ्यं पञ्चामृत समन्वितम् ।
नैवेद्यं पुरतः स्थाप्य जलं च चारूगन्धयुक्
॥१५॥समर्पयामास नृपो गजाननसुतुष्टये ।
फलानि पूगताम्बूलं दक्षिणां रत्नकाञ्चनीम्
॥१६॥दूर्वां नीराजनं मन्त्रपुष्पाञ्जलीननेकधा ।
तिथये गणनाथाय चन्द्र्यार्घ्यं ददावथ
॥१७॥ब्राह्मणान् पूजयामास सादरं चाप्यबूभुजत् ।
अयुतं गा ददौ तेभ्यो वस्त्रालङ्कारदक्षिणाः
॥१८॥ततः सुहृद्बन्धुयुतः स्वयं च बुभुजे नृपः ।
रात्रौ जागरणं चक्रे गीतवाद्यकथादिभिः
॥१९॥प्रभाते विमले स्नात्वा पुनः सम्पूज्य पूर्ववत् ।
मूर्ति तां गणनाथस्य वसिष्ठाय सदक्षिणाम्
॥२०॥सोपस्करां ददौ राजा ततस्तुष्टो गजाननः ।
विमानं प्रेषयामास सर्वसम्पद् विराजितम्
॥२१॥तद्दूतैः स्थापितस्तत्र गजाननस्वरूपवान् ।
पश्यतां सर्वलोकानां मन आनन्दयन् मुहुः
॥२२॥चलितो देवलोकाय राजा पुण्यप्रभावतः ।
तमूचुर्देवदूतास्ते गजाननस्वरूपिणः
॥२३॥नानालङ्कारशोभाढ्या मुकुटाक्रान्तमस्तकाः ।
विनायकेन तुष्टेन विमानं प्रेषितं तव
॥२४॥त्वद्दर्शनौत्सुक्यवता ततो वयमुपागताः ।
इति तद्वचनं श्रुत्वा मुमोचाश्रूणि भूमिपः
॥२५॥जगाद गद्गगदगिरा रोमाञ्चाञ्चितविग्रहः ।
तानुवाच ततो राजा शूरसेनः स्मयन्निव
॥२६॥अव्यक्तस्याप्रमेयस्य नितस्यजगदीशितुः ।
वाङ्मनोऽगोचरस्यापि न हेतुर्मम दर्शने
॥२७॥न समर्थाश्च यं वेदाः शास्त्राणि च निरूपितम् ।
यं च स्मरन्ति सततं केशाद्या देवतागणाः
॥२८॥तेनाहं चेत् स्मृतों दूतास्तर्हि भाग्यं महन्मम ।
इत्याकर्ण्य तु तद्वाक्यं दूता ऊचः पुनर्नृपम्
॥२९॥महिमानं न जानीमो भक्तानां नृपते वयम् ।
निर्गुणं यन्निराकारं येन साकारतामियात्
॥३०॥राजोवाच
एका मे महती वाञ्छा तुष्टे देवे भवत्सु च ।
तुष्टेषु नगरीं हित्वा कथं यायां गजाननम्
॥३१॥न भक्षितं विनाऽप्येतैर्मया हालाहलं क्वचित् ।
स कथं परमानन्दं भोक्ष्य एतैर्विनाऽनघाः
॥३२॥पुनरूचुश्च तं दूतास्त्वदिच्छा परिपूर्यताम् ।
न चेद् गजाननः क्रोधात् ताडयिष्यति नोऽखिलान्
॥३३॥ब्रह्मोवाच
ततः सर्वं जनं नेतुं विमाने निदधुः क्षणात् ।
चतुराकरजा ब्रह्मन् निक्षिप्ताः सर्वजन्तवः
॥३४॥सर्वे दिव्याम्बरा दिव्यवस्त्रालङ्कारशोभिनः ।
ऊचः परस्परं सर्वे किमेतदद्भुतं महत्
॥१५॥अस्माभिर्न कृतं पुण्यं विमानं कथमीदृशम् ।
अपरे चाब्रुवंस्तत्र राजपुण्यबलादिदम्
॥३६॥यथा निधिबलाद् धातुमात्रस्य हाटकं भवेत् ।
अतिपापो यथा साधुवचसा सिद्धिमाप्नुयात्
॥३७॥तथैव राजपुण्येन वयं सर्वे समुद्धृताः ।
ततो वैनायका दूता गतिमूर्ध्वामकल्पयन्
॥३८॥जडीभूतं विमानं तन्नोदतिष्ठन् महीतलात् ।
ततः संशयितं सर्वं कथमेतद् दिवं व्रजेत्
॥३९॥ऊचुः परस्परं लोका निर्दैवस्य निधिः कुतः ।
आरुरुक्षेत् कथं भिक्षापात्रं शिक्यं महत्तरम्
॥४०॥ददृशुः सर्वतः केचित् कुष्ठी दृष्टिपथं गतः ।
उवाच कश्चिद्राजानं कुष्ठिनं त्वमिमं त्यज
॥४॥अस्मिन्नधो गते यानमूर्ध्वमेतद् भविष्यति ।
शूरसेन उवाचैतान् दूताँस्तं त्यक्तुमिच्छतः
॥४२॥अहं पापसमाचारस्त्याज्यो नेयः इमेऽखिलाः ।
अथवा कथ्यतामस्य पूर्वपापं च जन्म च
॥४३॥मत्स्नेहात् सर्ववेतृत्वादुपायं कृपयाऽपि च ।
दूता ऊचुः ।
न कार्या नृपते चिन्ता वदिष्यामो वयं तव
॥४४॥जन्मपापमुपायं च कुष्ठिनो दुष्ट कर्म च
॥४५॥इति श्रीगणेशपुराणे उपासनाखण्डे शूरसेनकृतचतुर्थीव्रतफलनिरूपणं नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥