मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 18

3
उपासनाखण्डः · 18

सिद्धक्षेत्रोत्पत्ति कथनं नामाष्टादशोऽध्यायः

सोमकान्त उवाच

कथ जजाप हरिः कुत्र वा मन्त्रमुत्तमम् ।

सिद्धिं चावाप स कथं वद मे तत् सविस्तरम्

॥१॥

भृगुरूवाच

सिद्धिक्षेत्रमितिख्यातं भुवि सिद्धिकरं परम् ।

तत्र गत्वा महाविष्णुस्तताप परमं तपः

॥२॥

ध्यायन् विनायकं देवं षडक्षरविधानतः ।

आराधयामास तदा जित्वा खानि प्रयत्नतः

॥३॥

बाणास्त्रेण तु कृत्वैव पूर्व दिग्बन्धमादृतः ।

भूतशुद्धिं विधायैव प्राणानां स्थापनं तथा

॥४॥

कृत्वाऽन्तर्मातृकान्यासमाधारादिक्रमेण तु ।

बहिश्च मातृकान्यासं मस्तकादिक्रमेण च

॥५॥

प्राणानायम्य मूलेन ध्यात्वा देवं गजाननम् ।

आवाहन्यादिमुद्राभिः पूजयित्वा मनोमयैः

॥६॥

द्रव्यैर्नानाविधैश्चैव षोडशैश्चौपचारकैः ।

जजाप परमं मन्त्रं विष्णुर्योगेश्वरेश्वरः

॥७॥

गते वर्षशते काले परमात्मा गणाधिपः ।

प्रत्यक्षतां ययौ तस्य कोटि सूर्याग्निसन्निभः

॥८॥

अतिप्रसन्नहृदयो बभाषे गरुडध्वजम् ।

याचस्व त्वं वरान्मत्तो यांस्त्वं कामयसे हरे

॥९॥

ददामि तानहं सर्वांस्तपसाऽनेन तोषितः ।

पूर्वमेवार्चितः स्यां चेद्विजयस्ते ध्रुवं भवेत्

॥१०॥

हरिरुवाच

ब्रह्मेशानाविन्द्रमुख्याश्च देवां यं त्वां द्रष्टुं नैव शक्तास्तपोभिः ।

तं त्वां नानारूपमेकस्करूपं पश्ये व्यक्ताऽव्यक्तरूपं गणेशम्

॥११॥

त्वं योऽणुभ्योऽणुस्वरूपो महद्भ्यो व्योमादिभ्यस्त्वं महान् सत्त्वरूपः ।

सृष्टिं चान्तं पालनं त्वं करोषि वारंवारं प्राणिनां दैवयोगात्

॥१२॥

सर्वस्यात्मा सर्वगः सर्वशक्तिः सर्वव्यापी सर्वकर्ता परेशः ।

सर्वद्रष्टा संहारकर्त्ता पाता धाता विश्वनेता पिताऽपि

॥१३॥

एतादृशस्य ते देव दर्शनान्मम सिद्धयः ।

सम्भविष्यन्ति सर्वत्र तथाऽप्येकं वदामि ते

॥१४॥

ममैव योगनिद्रान्ते श्रुतेर्मलसमुद्भवौ ।

मधुकैटभौ महासत्त्वौ कं तौ खादितुमुद्यतौ

॥१५॥

ताभ्यामहं ततो युद्धं कृतवान् बहुवत्सरम् ।

ततःक्षीणबलस्त्वाऽहं शरणं समुपागतः ।

अतो यथा तयोर्मत्तो वधः स्यात्तद्विचार्यताम्

॥१६॥

अन्येषामपि दैत्यानां जयेन यश उत्तमम् ।

देहि मे परमेशान भक्तिं ते ह्यनपायिनीम्

॥१७॥

ययामे कीर्तिरतुला त्रैलोक्यं पावयिष्यति ।

गणेश उवाच ।

यद्यते प्राथितं विष्णो तत्तत्ते भविता ध्रुवम्

॥१८॥

यशो बलं परा किर्तिरविघ्नश्च भविष्यति ।

मुनिरुवाच ।

एवमुक्त्वा महाविष्णुं तत्रैवाऽन्तर्दधे विभुः

॥१९॥

तत आनन्दपूर्णोऽसौ मेने तावसुरौ जितौ ।

प्रासादं निर्ममे तत्र स्फाटिकं भूरिरत्नकम्

॥२०॥

लसत्काञ्चनशिखरं चतुर्द्वार सुशोभनम् ।

प्रतिमां स्थापयामास गण्डकीयोपलैः कृताम्

॥२१॥

देवाश्च मुनयः सिद्धिविनायक इति प्रथाम् ।

चक्रुरत्र यतः सिद्धिः प्राप्तेयं हरिणा शुभा

॥२२॥

सिद्धक्षेत्रं ततस्तत्तु पप्रथे भुवि सर्वशः ।

ततो जगाम स हरिर्यत्र तौ मधुकैटभौ

॥२३॥

दृष्ट्वा तौ हरिमायान्तं जहसतुर्निनिन्दतुः ।

मेघश्यामं मुखं तेऽद्य दर्शितं नौ कुतः पुनः

॥२४॥

आवान्तु ते महामुक्तिं दास्यावोऽतः पुनः किल ।

लघुताञ्च प्रयातोऽसि किमर्थं रणमागतः

॥२५॥

हरिरुवाच

सहसा दहते सर्वं लघुरेव हुताशनः ।

लघुदीपो महद्रात्रौ यथा संहरते तमः

॥२६॥

तथा वा महमद्यैव शक्तो नाशाय दुर्मदौ ।

मुनिरुवाच ।

इति तस्य वचः श्रुत्वाऽति क्रुद्धौ मधुकैटभौ

॥२७॥

सहसा जघ्नतुर्विष्णुं मुष्टिभ्यां हृदये भृशम् ।

ततः पुनर्मल्लयुद्धं तयोस्तस्य व्यवर्द्धत

॥२८॥

युद्ध्वा बहुदिनं ताभ्यां वरं दातुं सुमुत्सुकः ।

उवाचश्लक्ष्णया वाचा हरिस्तौ मधुकैटभौ

॥२९॥

मम प्रहारान्हि युवां सहार्थ बहुलाः समाः ।

युवयोः पुरुषार्थेन प्रीतोऽहं दैत्यपुङ्गवौ

॥३०॥

युवयोः सदृशौ नैव सम्भूतो न भविष्यतः ।

तावूचतुः ।

अस्मत्तस्त्वं वरान् ब्रूहि दास्यवस्तान् हरे बहून्

॥३१॥

आवां हि तव युद्धेन सन्तुष्टौ च भृशं त्वयि ।

मुनिरुवाच ।

तयोर्वचनमाकर्ण्य मायामोहितर्योहरिः

॥३२॥

श्रुत्वा बभाण दैत्यौ मे वरान् दातुं समुद्यतौ ।

तदा मे वध्यतां यातं वर एष वृतो मया

॥३३॥

तदा सर्वं जलमयं दृष्ट्वा तौ मधुकैटभौ ।

ऊचतुः परमप्रीतौ तव हस्तान् मृतिः शुभा

॥३४॥

अन्ते त्वच्चिन्तनात्सद्यो मुक्तिं यान्ति सनातनीम् ।

यत्र नोर्वी जलमयी तत्र नौ जहि माधव

॥३५॥

सर्वं त्यजावो नो सत्यं सत्ये सर्वं प्रतिष्ठितम् ।

मुनिरुवाच ।

तयोरित्थं वचः श्रुत्वा जघने तौ दधार ह

॥३६॥

चक्रेण क्षुरधारेण चिच्छेद शिरसी तयोः ।

ततो देवा मुमुदिरे ववर्षुः कुसुमानि च

॥३७॥

गन्धर्वा ननृतुः सर्वे जगुरप्सरसाङ्गणाः ।

ततस्तु विष्णुरभ्येत्य ब्रह्माणं परमेष्ठिनम्

॥३८॥

कथयामास वृत्तात्तं सर्वं हर्षविनिर्भरः ।

हरिरुवाच ।

यदाऽशक्तो विजेतुं तौ तदाहं गिरिशं गतः

॥३९॥

शङ्करेणोपदिष्टोऽहं षडर्णं मन्त्रमुत्तमम् ।

आराधयमहं तेन देवं विघ्नेश्वरं विभुम्

॥४०॥

तेन दत्ता वरा महयं नानाकामफलप्रदाः ।

तत्प्रभावान् मया दुष्टौ निहतौ मधुकैटभौ

॥१४॥

स्तुतः सम्पूजितः सोऽथ तदैवाऽन्तर्दधे विभुः ।

विज्ञातो महिमा तस्य गणेशस्य महात्मनः

॥४२॥

शङ्करस्य प्रसादेन हनिष्ये दैत्यदानवान् ।

देवाश्च मुनयः सर्वे स्तुत्वा देवं गजाननम्

॥४३॥

ब्रह्माणं शङ्करं मां च ययुः स्वं स्वं निकेतनम् ।

य इदं श‍ृणुयान्नित्यं माहात्म्यं पापनाशनम्

॥४४॥

कस्मादपि भयं नस्याल्लभते सार्वकामिकम्

॥४५॥

इति श्रीगणेशपुराणे उपासनाखण्डे सिद्धक्षेत्रोत्पत्तिकथनं नामाष्टादशोऽध्यायः ॥ १८ ॥