रामोपाख्याने अशीतितमोऽध्यायः
क उवाच
रेणुका तु गते तस्मिन् शुशोच भृशविव्हला ।
क्व गता मम पुत्रास्ते संहारेऽस्मिन्नुपस्थिते
॥१॥मृते भर्तरि किं कुर्यां बाणजालसमावृता ।
क्व गतोऽसौ महाक्रोधी रामो मे प्रियबालकः
॥२॥तस्मिन् दृष्टे मम प्राणा गमिष्यन्ति सुरालयम् ।
स्मृतमात्रस्तया रामो ययौ मातुस्तदाऽन्तिकम्
॥३॥बाणजालचितां तां च पितरं मृतमैक्षत ।
कार्तवीर्येण दुष्टेन दृढबाणहतं हृदि
॥४॥पपात मूर्छया भूमौ वातभग्न इव द्रुमः ।
पितरं मातरं चैव रुरोद भृशदुःखितः
॥५॥राम उवाच
अद्यान्धकारः सर्वत्र अद्य शून्या दिशो दश ।
मेरूर्विना यथा पृथ्वीशक्रहीनाऽमरावती
॥६॥नाश्रमः शोभते तद्वत् पित्रा हीनोऽयमद्य मे ।
त्रिलोकी गङ्गया हीना तद्वदाश्रम मण्डली
॥७॥न शोभते रेणुकया हीनाऽप्याश्रमण्डली ।
गतं भयं तु देवानां मुनयोऽद्य निरीश्वराः ।
यदासी त्तपसा चास्य किमयं वा ग्रहिष्यति
॥८॥एवं बहुविधाकारं चक्र आक्रन्दनं तु सः ।
अचेष्टत भृशं रामो मत्स्यो नीरं विना यथाम्
॥९॥ततः पुनर्मातरं स रुदन्नेव समाययौ ।
निष्कासयामास शरानङ्के कृत्वा शिरोधराम्
॥१०॥चक्रन्द च पुना रामो मातृदुःखेन दुःखितः ।
त्रैलोक्यं भस्मसात् कर्तुं या क्षमा जननी मम
॥११॥सा कथं पतिता भूमौ दुष्टबाणप्रपीडता ।
न विस्मरसि मां नित्यं क्षणं क्रीडागतं पुरा
॥१२॥त्यक्त्वा मां कथमद्य त्वं कुत्र वा गन्तुमुद्यता ।
ददासि मे पयो भूरि वस्त्राण्यन्नानि शोभने
॥१३॥फलमूलानि चारूणि यासि त्यक्त्वा कथं नु सा ।
मातापितृभ्यां हीनस्य धिङ्मे जीवितमद्य मे
॥१४॥ब्रह्मोवाज ।
इति पुत्रवचः श्रुत्वा रेणुका भृशदुःखिता ।
प्रमृज्याश्रूणि पुत्रस्य जगाद भृशविव्हला
॥१५॥अहं ते निकटे स्थास्ये न शोकं कर्तुमर्हसि ।
शृणु वार्तां पुरा वृत्तां राजाऽसौ कृतवीर्यजः
॥१६॥मध्यान्हे सह सैन्येन प्राप्तः आश्रममण्डलम् ।
पित्रा ते मानितः सम्यग् भोजितो बलसंयुतः
॥१७॥कामधेनोः प्रसादेन भुक्त्वाऽयाचत धेनुकाम् ।
तूष्णीं भूते मुनौ कोपात् कामधेनुं मुमोच सः
॥१८॥स्पृष्टमात्रा च सा धेनुः ससर्ज बलमुत्कटम् ।
चतुरङ्गं ततो युद्धमभवद् राजसैनिकैः
॥१९॥भग्नास्तेऽप्यपलन् सर्वे राजा युद्धमथाकरोत ।
स च पञ्चशतं बाणान् वारं वारमथासृजत्
॥२०॥सोऽपि भग्नो गृहं यातः काम धेनुर्दिवङ्गता ।
पुनरागत्य दुष्टोऽसौ बाणेनैकेन वक्षसि
॥२१॥जघान पितरं कोपादेकविंशतिसायकैः ।
अपराधं विना मां च ताडयित्वा खलो गतः
॥२२॥तस्मात्त्वयाऽद्य दुष्टस्य नाशः शीघ्रं विधीयताम् ।
एकविंशति वारं च कुरु निःक्षत्रियां धराम्
॥२३॥एकविंशति बाणा मे देहे तेन यतोऽर्पिताः ।
अन्यदेकं वदे पुत्र तत्कुरुष्व वचो मम
॥२४॥संस्कारं कुरु नौ तत्र यत्र कोऽपि न दाहितः ।
दत्तात्रेयं मुनिवरमाकार्य सर्ववेदिनम्
॥२५॥कुरु कर्मान्तरं नौ त्वं त्रयोदशदिनावधि ।
तदैव गतिमाप्स्यावो नान्यो वक्तास्ति तादृशः
॥२६॥इत्युक्त्वा रेणुका देहं त्यक्त्वा धामाप दुर्गमम् ।
रामस्तत् सर्वमकरोत् तयादिष्टं महामनाः
॥२७॥इति श्रीगणेशपुराणे उपासनाखण्डे रामोपाख्याने और्ध्वदैहिकसंस्कारोपदेशोनाम अशीतितमोऽध्यायः ॥ ८० ॥