व्रतनिरूपणं नामाष्टषष्टितमोऽध्यायः
शूरसेन उवाच
अन्यां कथय शक्र त्वं गणनाथकथां पुनः ।
कृतवीर्यस्य जनकः किं चकार ततः परम्
॥१॥इन्द्र उवाच
श्रुत्वाऽख्यानं तु सङ्कष्टचतुर्थ्यां राजसत्तमः ।
दूर्वाख्यानं तु संश्रुत्वा चिन्ताविष्टो नृपोऽभवत्
॥२॥अपुत्रस्य गतिर्नास्ति पुत्रों मे भविता कथम् ।
स्वप्ने ददर्श पितरं कार्तवीर्यस्तथाविधः
॥३॥सगद्गदाभ्यां कण्ठाभ्यां नोचतुस्तौ परस्परम् ।
आलिलिङ्गतुरन्योन्यं प्रेमविव्हलचेतसा
॥४॥ततः पुत्रं करे धृत्वा पर्यङ्केऽस्थापयत् पिता ।
उवाच च त्वया पुत्र पुत्रार्थं बहुधा श्रमः
॥५॥क्रियते चाहमप्येकमुपायं वच्मि तेऽनघ ।
मृत्युलोकादागतेन कथितं नारदेन मे
॥६॥तदैवाहं गतः पुत्र ब्रह्मणः सदनं प्रति
॥७॥पप्रच्छाहंऽ नमस्कृत्य ब्रह्माणं सर्ववेदिनम् ।
कथं मे भविता पुत्रः सन्ततिः कमलासन
॥८॥कथितं तेन सङ्कष्टचतुर्थीव्रतमुत्तमम् ।
क उवाच ।
अस्मिन् व्रते कृते पापक्षये जाते नृपोत्तम
॥९॥सन्ततिस्तव पुत्रस्य भविष्यति न संशयः ।
पितोवाच ।
तदा तथैव लिखितं ब्रह्मणा कथितं यथा
॥१०॥गृहाण पुस्तकं चैतद् यथावत् कुरु तद् व्रतम् ।
यावदब्दं समाप्येत तावत् सिद्धिविनायकः
॥११॥प्रसन्नो भविता देवः सर्वसङ्कष्टहारकः ।
तस्मिन् प्रसन्ने पुत्रस्ते भविता नात्र संशयः
॥१२॥इत्युक्त्वाऽन्तर्हितस्तस्य पुत्रस्य जनको नृपः ।
जजागार ततो राजा कृतवीर्यस्तु वै बली
॥१३॥ददर्श पुस्तकं हस्ते स्वप्नार्थान् परिसस्मरे
॥१४॥मुमोचाश्रूणि नेत्राभ्यां शोकानन्दपरिप्लुतः ।
पितुर्वियोगाच्छोकार्त्तः पुस्तकाप्तेश्च हर्षितः
॥१५॥अमात्यास्तावदायाताः परिवार्याऽब्रुवन् नृपम् ।
अमात्या ऊचुः ।
जहि प्रमादं राजन् त्वं सावधानमना भव
॥१६॥त्यज शोकं वदास्मान् किं कारणं शोककारकम् ।
अस्मानपि समाविष्टस्त्वच्छोकाच्छोक उत्कटः
॥१७॥इन्द्र उवाच
श्रुत्वा वाक्यममात्यानां कृतवीर्यो जगाद तान् ।
मया स्वप्ने पिता दृष्टस्तेन मे विव्हलं मनः
॥१८॥पुस्तकं चैव सङ्कष्टचतुर्थीव्रतबोधकम् ।
दत्तं मम करे तेन पिदधे तत्क्षणाच्च सः
॥१९॥तद्वियोगेन शोचामि गतार्थं निर्धनो यथा ।
उक्तं च तेन मे वाक्यं पुत्रार्थं कुर्विदं व्रतम्
॥२०॥प्रबुद्धोऽहं यदामात्या हस्ते दृष्टं च पुस्तकम् ।
आश्चर्यहर्षशोकैश्चाप्यश्रु मुञ्चामि नान्यथा
॥२१॥अमात्या ऊचुः
यः पिता सर्वलोकानां मनुष्योरगरक्षसाम् ।
स एव पितृरूपेण परितुष्टो गजाननः
॥२२॥उपायमवदत् ते स सन्तत्यै राजसत्तम ।
अन्यथा पुस्तकं क्वत्यं स्वप्नार्थः क्व प्रमा भवेत्
॥२३॥विना प्रसादं स्वप्नोऽपि विपर्ययमुदाहृतः ।
इन्द्र उवाच ।
इत्यमात्यवचः श्रुत्वा सावधानमना नृपः
॥२४॥आहूय परिपप्रच्छ पण्डितान् सुहृदोऽपि च ।
वदन्तु पुस्तकस्यार्थं प्रसादात्तस्य भो द्विजाः
॥२५॥त ऊचुः पुस्तकं दृष्ट्वा तस्यार्थं सर्वसंसदि ।
द्विजा ऊचुः ।
ब्रह्मणः कृतवीर्यस्य संवादोऽत्र महान् नृप
॥२६॥चतुर्थी सर्वसङ्कष्टनाशिन्यत्र निरूपिता ।
चन्द्रोदये गणेसशस्य पूजा प्रोक्ता सविस्तरा
॥२७॥अङ्गारकचतुर्थास्तु महिमा बहुशोऽपि च ।
तिथिदेवविधूनां च अर्घ्यदानं समन्त्रकम्
॥२८॥एकविंशतिविप्राणां भोजनं चैव पूजनम् ।
नानादानानि तेभ्यश्च देयानीति निरूपितम्
॥२९॥दूर्वासमर्पणफलं श्वेतदूर्वाफलं पृथक् ।
एतद् व्रतं महाभाग भाग्यात् प्राप्तं त्वयाऽनघ
॥३०॥न दुष्टं न श्रुतं लोके भविष्यत्युपकारकम् ।
श्रवणात् स्मरणाच्चापि सङ्कष्टहरणं नृणाम्
॥३१॥इन्द उवाच
श्रुत्वा तत्पण्डितमुखाद् राजा सर्वजनश्च ह ।
आश्चर्यानन्दसंयुक्तः पुपूजे स द्विजोत्तमान्
॥३२॥वस्त्रालङ्काररत्नानि धनं धान्यं ददौ बहु ।
अत्रिमाहूय राजाऽपि गुरुं निजकुलस्य च
॥३३॥सुमुहूर्ते ततोऽगृह्णात् परिपूज्य यथाविधि ।
देवं विनायकं तं च विद्यामेकाक्षरां शुभाम्
॥३४॥जजाप मन्त्रं तमनन्यभक्त्या ध्यायन् गणेशं विजितेन्द्रियः स ।
व्रतं च चक्रे गणनाथतुष्ट्यै सुताप्तये सङ्कटनाशनं तत्
॥३५॥इति श्रीगणेशपुराणे उपासनाखण्डे व्रतनिरूपणं नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥