सोमकान्त पूर्वजन्म कथनं नाम सप्तमोऽध्यायः
ऋषय ऊचुः
तत्र गत्वा किमकरोत् सोमकान्तो नृपस्तदा ।
उपायः कथितः को वा भृगुणा सर्ववेदिना
॥१॥कथयस्व कथामेतां शृण्वतां नो द्विजोत्तम ।
न तृप्तिमधिगच्छामः पीत्वा त्वद्वचनामृतम्
॥२॥सूत उवाच
सम्यक् पृष्टं महाभागा यूयं तु ज्ञानसागराः ।
यः कथान्तं न प्रयाति श्रोता वक्ताऽथवा द्विजाः
॥३॥लिख्यमानं वाचयति पुस्तकं हरतेऽपि वा ।
नृपृच्छति च यः शिष्यो गुरुः पृष्टो न वक्ति चेत्
॥४॥उभौ तौ मूकबधिरौ लोके दृष्टौ द्विजोत्तमाः ।
शृण्वन्तु कथयिष्यामि सोमकान्तकथामतः
॥५॥तस्या रात्र्यां व्यतीतायां दिननाथे तथोदिते ।
स्नानं सन्ध्यां जपं होमं कृत्वा स भृगुसत्तमः
॥६॥स्नाताय कृतजप्याय पत्नीप्रकृतिसंयुजे ।
पूर्वजन्मकथां तस्मै राज्ञे कथितुमारभत्
॥७॥भृगुरुवाच
कोल्हारनगरे रम्ये विन्ध्याचलसमीपतः ।
चिद्रूप इति विख्यातो वैश्यो बहुधनोऽभवत्
॥८॥तस्य भार्या तु सुभगा नाम्ना ख्याता सुलोचना ।
सुशीला दानशीला च पतिवाक्यपरा सति
॥९॥तस्यास्त्वं पुत्रतां यातो भवे पूर्वे नृपोत्तम ।
कामन्द इति ते नाम चक्रतुस्तौ द्विजेरितौ
॥१०॥अति स्नेहं दिवारात्रावतिलालनमेकके ।
वार्धक्यकालजे तौ तु पितरौ त्वयि चक्रतुः
॥११॥विवाह चक्रतुस्तौ तु धनकौतुकमङ्गलैः ।
मृगाक्षी सुकुमाराङ्गी नाम्ना ख्याता कुटुम्बिनी
॥१२॥अनुरक्ता त्वयि सदा द्विजदेवाऽतिथि प्रिया ।
बभूव योषिद्योषित्सु रत्नभूताऽतिसुन्दरी
॥१३॥कुटुम्बिनीति स्वं नाम विदधे सार्थकं तुं सा ।
सप्तपुत्रा पञ्चकन्या पञ्चबाण प्रिया नु किम्
॥१४॥ततो बहुतिथे काले पञ्चत्वमगमत्पिता ।
माता तव सती तेन सहं दग्धा दिवं गता
॥१५॥ततस्त्वं सखिवर्गैस्तद् द्रव्यं नाशितवान् बहु ।
नीतं नष्टं भक्षितं च विनाशमगमद् धनम्
॥१६॥चिन्तया धर्मपत्नी त्वां निराकृतवती भृशम् ।
न गृहीतं तु तद्वाक्यं ततो विक्रीतवान् गृहम्
॥१७॥गता सा बालकैः सार्धमनुज्ञाता पितुर्गृहम् ।
अपत्यपोषणकृते ऋते त्वां वंशकण्टकम्
॥१८॥तत उध्दृत्ततां यातं उन्मत्त इव मद्यपः ।
अन्यायकारी नगरे जातो मत्त इव द्विपः
॥१९॥परस्वहारो वनितासु जारो ग्रामेषु चोरो जनतापकारः ।
द्यूतेषु वीरो वृजिनौघसारो हिंसाविहारो बलहीनशूरः
॥२०॥ये ये जनास्ते सुखसङ्गतृप्तास्तेभ्यो गृहीत्वा बहुवित्तमादः ।
निक्षेपतः पितृकृतात्सुहृद्भ्यो मिषात् कुतश्चिन्नगरस्तितेभ्यः
॥२१॥शपथाननृतांश्चकर्थं नूनमनृतानां प्रमदाजनेषु साक्ष्यम् ।
इति सर्वजनाः सुभीतिमापुरूरगात् सद्मगतादिवोग्रवीर्यात्
॥२२॥असहयतां तेन जनस्य यातो गोक्षूरकः पायसगो यथैव ।
राज्ञो गृहीत्वाऽनुमतिं जनास्ते निर्वापयामासुरतो पुरात् त्वाम्
॥२३॥वने स्थितस्त्वं बहुजन्तुघाती स्त्रीबालवृद्धान् विनिहंसि नित्यम् ।
महाजनं वीक्ष्य पलायसे च सिंहं निरीक्ष्येव वृको मृगो वा
॥२४॥मत्स्यान् बकान् सारसकुक्कुटाँश्च वृकान् मृगान् वानरकोकिलाँश्च ।
हत्वाऽसि खड्गान् शशकाँश्च गोधा मुधा स्वदेहं वृजिनादपोषः
॥२५॥सिंहान् व्याघ्राँश्च जम्बूकान्निःसार्य गिरिगव्हरात् ।
नानास्थानगताँश्चोरान् मेलयित्वा सुदुर्धरान्
॥२६॥काष्ठैर्लोष्टैश्च पाषाणैश्चकर्थं गृहमुत्तमम् ।
विशालं क्रोशविस्तारं नानाकौतुकमण्डितम्
॥२७॥पित्रा भीतेन पत्नी सा प्रापिता बालकैः सह ।
गृहागतं ते सदनं राजतो जनतोऽपि च
॥२८॥नानालङ्कारवसना बालका अपि तेजसा ।
देवाङ्गने व शुशुभे त्वं च चोरसमन्वितः
॥२९॥त्वं च मार्गे जनान् दीनान् हत्वा हत्वा गृहाङ्गतः ।
चौरेः सबालयोषिद्भिर्भासि राजेव तद्गतः
॥३०॥कदाचिद्ब्राह्मणो विद्वान् विख्यातो गुणवर्धनः ।
मध्यान्हे मार्गमध्ये तु त्वया दृष्टः स एककः
॥३१॥गृहीत्वा दक्षिणं पाणिं तं विप्रं धृतवानसि ।
स वेपमानस्त्वद्बुद्धिं जानन् धर्षणया तया
॥३२॥ऊचे त्वां स्वान्तकं मत्वा मूर्छितो जीवितेच्छया ।
अत्यन्तं करूणावाक्यैर्बोधयँस्त्वां सहेतुकैः
॥३३॥गुणवर्धन उवाच
धनवान् सुभगो भूत्वा कथं मां हन्तुमिच्छसि ।
द्विजं नवोढाभर्तारं शान्तं चानपराधिनम्
॥३४॥दुर्बुद्धिवासनां त्यक्त्वा सद्धर्मेषु मतिं कुरू ।
प्रथमा मे गता कान्ता प्राप्ता कान्ततराऽपरा
॥३५॥स्वाचारा परमोदारा साध्वी सर्वगुणाकरा ।
पितॄणामनृणार्थाय धर्मसन्तानवृद्धये
॥३६॥कृता साऽतिप्रयत्नेन गार्हस्थं धर्ममिच्छता ।
मद्विना तद्विना वां हि जन्मनी भवतो वृथा
॥३७॥पिता मे हि भव त्वं च मातापुत्रोऽस्म्यहं तव ।
जीवदाता भयत्राता पिताशास्त्रे निगद्यते
॥३८॥दस्यवोऽपि हि रक्षन्ति द्विजं वा शरणागतम् ।
द्विजं योग्यं शरण्यं मामतत्स्त्वं भोक्तुमर्हसि
॥३९॥नो चेत् कल्पसहस्रं त्वं निरयान् प्रतिपद्यसे ।
भोक्तारः सर्व एवैते स्त्रीपुत्राः सुहृदो जनाः
॥४०॥न पापभागिनस्त्वेते सुखिनस्त्वत्प्रतारकाः ।
कियद्भिर्जन्मभिः पापं भोक्ष्यसे न वितर्कये
॥४१॥इति श्रीगणेशपुराणे उपासनाखण्डे सोमकान्तपूर्वजन्मकथनं नाम सप्तमोऽध्यायः ॥ ७ ॥