मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 42

3
उपासनाखण्डः · 42

युद्धवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः

व्यास उवाच

कृतवान् किमु दैत्यः स गते तास्मिन्कलाधरे ।

कथमानीय दत्ताऽस्मै मूर्तिश्चिन्तामणेः शुभा

॥१॥

एतत्कथय मे सर्व विस्तार्य चतुरानन ।

लीला गजाननीः श‍ृण्वन् न तृप्यामि समासतः

॥२॥

ब्रह्मोवाच

तस्मिन्गते यदकरोत् स दैत्यो मुनिसत्तम ।

तत्सर्वं कथयिष्यामि श‍ृणुष्वावहितो मुने

॥३॥

दूतौ सम्प्रेषयामास मन्दराद्रिस्थितं शिवम् ।

अशिक्षयच्छिवं गत्वा ब्रूतं मद्वाक्यमादरात्

॥४॥

मूर्तिश्चिन्तामणेस्तेऽस्ति गृहे सर्वार्थदा शुभा ।

देहि तां दैत्यराजाय साम्नैव गिरिजापते

॥५॥

पाताले स्वर्गलोके वा मर्त्ये वा पुनरद्भुतम् ।

तत्सर्वं तेन दैत्यैन ह्यानीतं स्वगृहे तलात्

॥६॥

शीघ्नमानीयतां देव यावो दैत्यं महाबलम् ।

न दास्यसे यदा साम्ना तदा दैत्यः पराक्रमी

॥७॥

ग्रहीष्यति बलात्तान्तु ततो दुःखमवाप्स्यसि ।

इति दैत्यवचः श्रुत्वा जग्मतुस्तौं शिवं प्रति

॥८॥

आहतुस्तौ महादेवं दैत्यराजेन शिक्षितम् ।

इत्थं दूतवचः श्रुत्वा त्रिनेत्रः क्रोधमूर्छितः

॥९॥

उवाच दूतौ दूतौ वामिति कृत्वा क्षमे वचः ।

कामस्येव भवेद् भस्म नो चेद्वां नात्र संशयः

॥१०॥

किं कार्यं तेन दैत्येन तृणीभूतेन मे विभोः ।

आयातु युद्धमेवास्तु मर्तुकामो ममान्तिकम्

॥११॥

नेयं मूर्तिस्तेन शक्या प्राप्तुं जन्मशतैरपि ।

प्रलयाग्निः पतङ्गेन किं शान्तिमधिगच्छति

॥१२॥

मेरोः पातो मूषकेन शक्यः कर्तुं किमोजसा ।

असङ्ख्य जल निष्काशाच्छुष्कः स्यात्किं महोदधिः

॥१३॥

ब्रह्मोवाच

श्रुत्वा तु शाङ्करीं वाणीं दैत्यो यातौयथागतम् ।

अब्रूतां स्वामिनं वाक्यं शम्भुना यदुदीरितम्

॥१४॥

तदाकर्ण्य प्रजज्ज्वाल दैत्यो वाक्यार्थकोविदः ।

क्रोधानलेन दीप्तोऽसौ त्रैलोक्यं प्रदहन्निव

॥१५॥

आज्ञापयच्च युद्धाय स्वसेनां चतुरङ्गिणीम् ।

निर्गता सहसा सेना मन्दराचलसम्मुखा

॥१६॥

भूतलं छादयामास निर्मर्यादो यथाऽम्बुधिः ।

अनेकसूर्यसङ्काशा विकोशैः शस्त्रसञ्चयैः

॥१७॥

गर्जन्ती घनवद् घोरं मृत्योर्मानसकम्पिनी ।

दैत्यस्त्रिपुरमारूह्य विमानसदृशं महत्

॥१८॥

मनोवेगं ततः पश्चाज्जिघांसुः शम्भुमाययौ ।

बृहन्मणिमयं चारूकवचं कुण्डलेऽङ्गदे

॥१९॥

मुक्तामालां मुद्रिकाश्च कटिसूत्रं च काञ्चनम् ।

मुकुण्ट रत्नखचितं महार्घं बिभ्रदुल्लसत्

॥२०॥

यस्य शब्देन महता चकम्पे हरमानसम् ।

तद्धनुः स निषङ्गं च कौर्मं खेटमसिं दृढम्

॥२१॥

शुशुभे शक्तिका दिव्याऽवहद् यां दैत्यपुङ्गवः ।

गायमाना नर्तमाना गन्धर्वाम्प्सरसां गणाः

॥२२॥

बन्दिनश्चारणाश्चापि ययुरस्याग्रतो मुदा ।

शङ्करो दूतवाक्येन श्रुत्वा दैत्यं समागतम्

॥२३॥

असङ्ख्यबलसंयुक्तं युयुत्सुं कालकर्षितम् ।

शूलपाणिरपि तदा सम्पूज्य द्विरदाननम्

॥२४॥

प्रणम्य तं परिक्रम्य पुरस्कृत्य बलं बलात् ।

आययौ क्रोधदीप्ताक्षः स्वस्थलाद् रणमण्डलम्

॥२५॥

ते वीरा वीरशब्देन नादयन्तो दिशो दश ।

अभिजग्मुः प्रहरणैः परस्परवधेप्सवः

॥२६॥

अभूतां मीलिते सेने रजस्तिमिरसङ्कुले ।

स्वपरज्ञानरहिते जघ्नतू रणमूर्धनि

॥२७॥

अभवत्तुमुलं युद्धं न प्राज्ञायत किञ्चन ।

गजाश्वरथवीराणां हतानां शोणितोक्षिते

॥२८॥

शान्ते रजस्ययुध्यन्त वीरा वीरैः पृथक् पृथक् ।

केचित् प्रासैः केऽपि खड्गैः केचिद्बाणैः शिलाशितैः

॥२९॥

ऋष्टिभिर्मुष्टिभिः केचित् केचित् परशुतोमरैः ।

हतानां तत्र वीराणां हयानां च पदातिनाम्

॥३०॥

असृङ्नदी समभवत् केशशैवल वाहिनी ।

खेटकूर्मा खड्गमत्स्या शिरः कमलक्षूषणा

॥३१॥

छत्रावर्ता घोरतरा कबन्धवृक्षवाहिनी ।

वीरसन्तोषजननी गृद्धगोमायुहर्षकृत्

॥३२॥

दृष्टत्वा नदीं तु गिरिशो ययौ दैत्यान्तिकं बली ।

दैत्योऽपि त्रिपुरारूढो ययौ तस्य पुरः पुरः

॥३३॥

नायको सङ्गतौ दृष्ट्वा द्वन्द्वशोऽन्ये परस्परम् ।

अव्याकुले युयुधिरे दैतेयाः शाम्भवास्तदा

॥३४॥

नाना प्रहरणैर्दिव्यैः शत्रैरस्त्रैर्द्रुमैरपि ।

तेषां युद्धानि नामानि कथयिष्ये समासतः

॥३५॥

इति श्रीगणेशपुराणे उपासनाखण्डे युद्धवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२ ॥