मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 63

3
उपासनाखण्डः · 63

दुर्वामाहात्म्ये त्रिषष्टितमोऽध्यायः

गणा ऊचुः

श‍ृणुध्वं योगिनः सर्वे स्थिरीकृत्य मनश्चलम् ।

यन्न शेषो भवेद् वक्तुं समर्थश्चतुराननः

॥१॥

तद् वक्तुं कः समर्थःस्याद् यथाशक्ति वदाम च ।

कुर्वन्ति स्तवनं यस्य सर्वदाऽजशिवादयः

॥२॥

तस्य को गणनाथस्य महिमानं वदेत् स्फुटम् ।

इत्थं तदीयां लीलां वा तथापि श‍ृणुतानघाः

॥३॥

दूर्वाङ्कुराणां महिमा न ज्ञातो मुनिभिः सुरैः ।

यज्ञैर्दानैस्तपोभिश्च व्रतैर्होमैर्न वाप्यते

॥४॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।

वासवस्य च संवादं नारदस्य महात्मनः

॥५॥

एकदा नारदोऽगच्छद् वासवं द्रष्टुमुत्सुकः ।

पूजिता परया भक्त्या कृतासन परिग्रहम्

॥६॥

मुनिं पप्रच्छ बलहा दूर्वामाहात्म्यमादरात् ।

इन्द्र उवाच ।

किमर्थं देवदेवस्य गणेशस्य महात्मनः ।

विशेषतः प्रिया ब्रह्मन् महादूर्वाङ्कुरा मुने

॥७॥

मुनिरूवाच

कथयामि यथाज्ञातं दूर्वामाहात्म्यमुत्तमम् ।

स्थावरे नगरे पूर्वं कौण्डिन्योऽभून्महामुनिः

॥८॥

उपासको गणेशस्य तपोबलसमन्वितः ।

रमणीयतरस्तस्य ग्रामदक्षिणभागतः

॥९॥

आश्रमः सुमहानासील्लतावृक्षसमन्वितः ।

सरांसि फुल्लपद्मानि यत्रासन् सुमहान्ति च

॥१०॥

भ्रमरैरुपजुष्टानि हंसकारण्डकैरपि ।

चक्रवाकैर्बकैश्चैव कच्छपैर्जल कुक्कुटैः

॥११॥

स तु ध्यानरतस्तत्र प्रारभत् तप उत्कटम् ।

पुरः स्थाप्य महामूर्तिं गणेशस्य चतुर्भुजाम्

॥१२॥

सुप्रसन्नां सुवरदां दूर्वायुक्तां सुपूजिताम् ।

जजाप परमं मन्त्रं षडर्णं देवतोषकम्

॥१३॥

पप्रच्छ संशयाविष्टा पत्नी नाम्नाऽऽश्रयाऽस्य तम् ।

आश्रयोवाच ।

स्वामिन् गजानने देवे दूर्वाभारं दिने दिने

॥१४॥

समर्पयसि कस्मात् त्वं तृणैः कोऽपि न तुष्यति ।

अस्ति चेत् पुण्यमेतेन तन्मे त्वं कृपया वद

॥१५॥

कौण्डिन्य उवाच

श‍ृणु प्रिये प्रवक्ष्यामि दूर्वामाहात्म्यमुत्तमम् ।

धर्मस्य नगरे पूर्वमासीदुत्सव उत्तमः

॥१६॥

सर्वे देवाः सगन्धर्वा आहूताश्चाप्सरो गणाः ।

सिद्धचारणनागाश्च मुनयो यक्षराक्षसाः

॥१७॥

तिलोत्तमाया नृत्यन्त्याः प्रावारो न्यपतत् भुवि ।

ददर्श तस्याः स यमः कुचौ चारू बृहत्तमौ

॥१८॥

अभवत् कामसन्तप्तोऽविश्रान्तो निरपत्रपः ।

इयेषाऽऽलिङ्गितुं तस्याश्चुम्बितुं च तदाननम्

॥१९॥

सदसो निर्गतस्तस्माल्लज्जयाऽधोमुखो यमः ।

गच्छतस्तस्य रेतश्च स्खलितं पतितं भुवि

॥२०॥

ज्वालामाल्यभवत्तस्मात् पुरुषो विकृताननः ।

कुर्वन् दंष्ट्रारवं क्रूरं त्रासयन् भुवनत्रयम्

॥२१॥

ददाह पृथिवीं सर्वां जटाभिर्गगनं स्पृशत् ।

चकम्पे तस्य शब्देन त्रिलोकीमानसं भृशम्

॥२२॥

तदैव विष्णुमगमँस्ते तु सर्वे सभासदः ।

स्तुतिं नानाविधां कृत्वा नानास्तोत्रैर्यथामति

॥२३॥

प्रार्थयामासुरव्यग्राः सर्वलोकहिताय तम् ।

स तैः सर्वैः समगमद् गजाननमनामयम्

॥२४॥

तस्य नाशं ततो ज्ञात्वा तुष्टुवुः सर्व एव तम् ।

देवा मुनयश्चोचुः ।

नमो विघ्नस्वरुपाय नमस्ते विघ्नहारिणे

॥२५॥

नमस्ते सर्वरूपाय सर्वसाक्षिन् नमोऽस्तुते ।

नमो देवाय महते नमस्ते जगदादये

॥२६॥

नमः कृपानिधे तुभ्यं जगत्पालन हेतवे ।

नमस्ते पूर्णतमसे सर्वसंहारकारिणे

॥२७॥

नमस्ते भक्तवरद सर्वदात्रे नमो नमः ।

नमस्तेऽनन्यशरण सर्वकामप्रपूरक

॥२८॥

नमस्ते वेदविदुषे नमस्ते वेदकारिणे ।

कमन्यं शरणं यामः कोनु नःस्याद्भयापहः

॥२९॥

अकाल एव प्रलयः कथं लब्धो जनैरयम् ।

हा गजानन देवेश हा हा विघ्नहराव्यय

॥३०॥

सर्वेषां मरणे प्राप्ते कथमस्मानुपेक्षसे ।

इति तद्वचनं श्रुत्वा करूणाब्धिर्गजाननः

॥३१॥

आविरासीत् पुरस्तेषां शिशुरूपोऽरिभीतिहा ।

बिभ्रत् कमलनयने शतचन्द्रनिभाननम्

॥३२॥

कोटिसूर्यप्रभाजालः कोटिकन्दर्पजिद्वपुः ।

कुन्दकुड्मलशोभाजिद्दशनोऽधरबिम्बिजित्

॥३३॥

उन्नसो भृकुटीचारुनयनः कम्बुकण्ठयुक् ।

विशालवक्षा जानुस्पृग्भुजद्वययुतो बली

॥३४॥

गम्भीरनाभिविलसदुदरोऽतिलसत्कटिः ।

रम्भाशोभापरिस्पर्द्धिगुरूरूश्चासजानुयुक्

॥३५॥

सुचारूजङ्घागुल्फश्रीविलसत्पादपद्मकः ।

नानालङ्कारशोभाढ्यो महार्घवसनावृतः

॥३६॥

एवं देवं निरीक्ष्यैव नगरस्य पुरो भुवि ।

उत्तस्थुर्देवमुनयो जयशब्दपुरःसरम्

॥३७॥

प्रणेमुर्दण्डवद् भूमौ शक्रं देवगणा यथा ।

देवा ऋषय ऊचुः ।

को भवान् कुत आयातः किं कार्यं वद नो विभो

॥३८॥

वयमेवं विजानीमो ब्रह्मैव बालरूपधृक् ।

अनलासुरसन्त्रासात् त्यक्त्वा कर्माणि संस्थितान्

॥३९॥

आविर्भूतं तु नस्त्रातुं दुष्टसंहारकारकम् ।

इति तद्वचनं श्रुत्वा शिशुरूपी गजाननः

॥४०॥

बभाषे हास्यवदनः सर्वान् देवमुनीन् प्रति ।

बाल उवाच ।

भवन्तो ज्ञानसम्पन्ना यदुक्तं सत्यमेव तत्

॥४१॥

अहं तस्य वधायैव दुष्टस्य परपीडिनः ।

निजेच्छया बालरूपी वेगेनागां सुरर्षयः

॥४२॥

उपायं वच्मि वस्तस्य वधेतं कुरुतानघाः ।

सर्वैर्भवद्भिस्तं दृष्ट्वा नोदनीयो बलादहम्

॥४३॥

द्रष्टव्यं कौतुकं तस्य मम चैव महत्तरम् ।

एवं श्रुत्वा कृपावाक्यं सर्वे ते हर्षनिर्भराः

॥४४॥

उचुः परस्परं सर्वे न जानीमोऽस्य पौरुषम् ।

ईश्वरो बालरूपेण कर्तुमस्य वधं नु किम्

॥४५॥

अवतीर्णो भवेत् त्रातुं पीडितं भुवनत्रयम् ।

इत्थमुक्त्वा तु ते सर्वे प्रणेमुः सादरं च तम्

॥४६॥

एतस्मिन्नेव काले तु कालानलस्वरूपधृक् ।

दहन् दशदिशो भक्षन्नरलोकं स आययौ

॥४७॥

कोलाहलो महानासील्लोकानां क्रन्दतां तदा ।

दृष्ट्वैव सर्वे मुनयः पलायनपरा ययुः

॥४८॥

तं च ते मुनयः प्रोचुः शीघ्रं कुरू पलायनम् ।

नो चेद्धिंसिष्यते त्वाद्य सुमहाननलो ध्रुवम्

॥४९॥

तिमिङ्गिलो यथा मीनानुरगान् गरूडो यथा ।

इति तद्वचनं श्रुत्वा परमात्मा गजाननः

॥५०॥

बालरूपधरोऽतिष्ठत् पर्वतो हिमवानिव ।

सुरर्षयो ययुर्दूरात् त्यक्त्वा तत्रैव बालकम्

॥५१॥

इति श्रीगणेशपुराणे उपासनाखण्डे दुर्वामाहात्म्यनिरूपणं नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥