स्कन्दोपाख्याने षडशीतितमोऽध्यायः
क उवाच
दृष्टवा सा तादृशं बालं स्नेहस्नुतपयोधरा ।
आलिलिङ्ग मुदा बालं तद्धस्तहृदया सती
॥१॥तामूचे मम बालोऽयं गङ्गा गम्भीरनिस्वना ।
ममायमिति तां प्राह वह्निर्बालो गिरेः सुताम्
॥२॥कृत्तिकाद्याश्च तां प्राहुरस्मज्जातोऽयमर्भकः ।
अस्माकमेव बालोऽयमिति चुक्रुशुरातुराः
॥३॥एवं विवदमानास्ता याता वह्निपुरोगमाः ।
कैलासे देवनिलये गिरिशं चन्द्रशेखरम्
॥४॥गौरी विवेश प्रथमं कटिन्यस्तस्वबालका ।
शिवो गृहित्वा तं स्वाङ्के शिरस्याघ्राय मन्त्रतः
॥५॥रमयामास परया मुदा देवस्त्रिलोचनः ।
गङ्गा वह्निः षट्स्त्रियस्ता गृहं जग्मुर्यथागतम्
॥६॥तन्नामकरणार्थाय ब्रह्मणं च बृहस्पतिम् ।
आहूय शिव ऊचे तौ नामास्य क्रियतामिति
॥७॥ब्रह्मा बृहस्पती ऊचतुः
कार्तिके मासि जातोऽयं कार्तिकेय इति स्फुटम् ।
नामास्य प्रथमं देव पार्वतीनन्दनोऽपि च
॥८॥शरद्वीपेऽयमुत्पन्नः शरजन्मा ततोऽपि च ।
कृत्तिकाभ्योऽपि जातत्वात् कार्तिकेय इति स्मृतः
॥९॥यतोऽस्य मातरः षट् ता स षाण्मातुर इत्यपि ।
अयं पुत्रस्तारकजित् तारकं च विजेष्यति
॥१०॥देवसेनापतिर्भावी सेनानीरिति शब्दितः ।
तत एव महासेनः षण्मुखत्वात् षडाननः
॥११॥स्कन्नं त्रिवारं रेतो यत् तेन स्कन्दोऽयमुच्यते ।
तयोऽस्तु वदतोरेवं शक्राद्या आययु सुराः
॥१२॥आननन्दुश्च नेमुस्तं पुपूजुस्तुष्टुवुर्जगुः ।
व्यानशे रोदसी दिव्यवाद्यशब्दो रसातलम्
॥१३॥ततस्ते प्रार्थयामासुः सेनान्यं प्रणिपत्य च ।
त्रैलोक्यकण्टकं देव जहि त्वं तारकासुरम्
॥१४॥नानाभिषेकसम्भारैः सेनापत्येऽभिषिच्य तम् ।
वैदिकैस्तान्त्रिकैर्मन्त्रैर्नानामुनिसमीरितैः
॥१५॥ततोऽनुज्ञां गृहीत्वा ते देवाः स्वस्थानमागमन् ।
ऋषयोऽपि निरुद्योगास्तपस्तेपुर्यथा पुरा
॥१६॥सेनान्यां विद्यमाने नो न भयं विद्यते क्वचित् ।
स बालो ववृधेऽत्यन्तं शुक्लपक्षे यथा शशी
॥१७॥एकदा बालभावात् स उड्डीय शशिनं ययौ ।
गृहितुं ब्रह्मणाऽवारि नेदृशं साहसं कुरू
॥१८॥बुद्ध्या बृहस्पति शक्त्या जिगायेन्द्रं च सोऽर्भकः ।
एकदा सुखमासीनं पार्वत्या सहितं शिवम्
॥१९॥प्रणम्य परिपप्रच्छ सर्वकामार्थसिद्धये ॥
स्कन्द उवाच ।
पितर्मयाऽश्रावि महाकथा नानाविधाः शुभाः
॥२०॥सर्वसिद्धिकरं देव पुत्रसम्पत्प्रवर्द्धनम् ।
सर्वपापहरं चैव धर्मार्थकाममोक्षदम्
॥२१॥त्रैलोक्यस्य गुरोस्त्वत्तस्तृप्तिर्नास्ति तथापि मे ।
वद मे सर्वशत्रूणां जयकारि व्रतं शुभम्
॥२२॥ईश्वर उवाच
सम्यक्पृष्टं त्वया स्कन्द सर्वलोकोपकारकम् ।
व्रतं तेऽहं प्रवक्ष्यामि सर्वसिद्धिकरं नृणाम्
॥२३॥सर्वपापक्षयकरं धर्मार्थकाममोक्षदम् ।
सर्वशत्रुक्षयकरं पुत्रसम्पत्प्रवर्द्धनम्
॥२४॥अलक्ष्मीसङ्कटहरं गणनाथस्य तोषकृत ।
यः करोति नरो भक्त्या सपूज्यस्त्रिदशैरपि
॥२५॥इच्छाविहारी भवति सृष्टिस्थित्यन्तकृच्च सः ।
दर्शनात् तस्य चान्येषां महापापं लयं व्रजेत्
॥२६॥नास्त्येषां स्कन्द वरदचतुर्थीव्रततुल्यता ।
एवमाकर्ण्य वचनं सेनानीः शङ्करेरितम्
॥२७॥पुनः पप्रच्छ पितरं महिमानं व्रतस्य सः ।
स्कन्द उवाच ।
विस्तरेण मम ब्रूहि माहात्म्यं व्रतसम्भवम्
॥२८॥कस्मिन्मासि दिने चास्य प्रारम्भः क्रियते हर ।
को विधिः किं फलं चास्य कस्याभूत् प्रत्ययोऽस्य च
॥२९॥एतन्मे सकलं ब्रूहि यदि तुष्टोऽसि शङ्कर ।
सर्वलोकोपकाराय व्रतस्यास्य प्रसिद्धये
॥३०॥इति श्रीगणेशपुराणे उपासनाखण्डे स्कन्दोपाख्याने शिवस्कन्दसंवादो नाम षडशीतितमोऽध्यायः ॥ ८६ ॥