मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 1

3
उपासनाखण्डः · 1

सोमकान्त वर्णननाम प्रथमोऽध्यायः

ॐ नमस्तस्मै गणेशाय ब्रह्मविद्याप्रदायिने ।

यस्यागस्त्यायते नाम विघ्नसागरशोषणे ॥

ऋषय ऊचुः ।

सूत सूत महाप्राज्ञ ! वेदशास्त्रविशारद ! ।

सर्वविद्यानिधे त्वत्तो वक्ताऽन्यो नोपलभ्यते

॥१॥

जन्मजन्मान्तरीयं नः स्थितं पुण्यं महत्तरम् ।

तेन सन्दर्शनं जातं सर्वज्ञस्य सतस्तव

॥२॥

वयं धन्यतमा लोके जीवितं नः सुजीवितम् ।

पितरो वेदशास्त्राणि तपांस्याश्रम एव च

॥३॥

अष्टादशपुराणानि विस्तराच्छ्रावितानि नः ।

अन्यान्यपि हिनः श्रोतुमिच्छास्ति द्विजसत्तम

॥४॥

शौनकेये महासत्रे सक्ता द्वादशवार्षिके ।

त्वत्कथामृतपानान्नो नान्यद्विश्रामकारणम्

॥५॥

सूत उवाच

साधु पृष्टं महाभागा भवद्भिः पुण्यकर्मभिः ।

साधूनां समचित्तानां मतिर्लोकोपकारिणी

॥६॥

ममापि परितोषोऽस्ति कथानां कथने द्विजाः ।

अतोऽहं साधुवृत्तेभ्यः कथयिष्ये विशेषतः

॥७॥

अन्यान्युपपुराणानि वर्ततेऽष्टादशैव च ।

गाणेशं नारदीयं च नृसिंहादिन्यथापि च

॥८॥

गणेशस्य पुराणं यत्तत्रादौ कथयाम्यहम् ।

दुर्लभं श्रवणं यस्य मर्त्यलोके विशेषतः

॥९॥

यस्य स्मरणमात्रेण कृतकृत्यो भवेन्नरः ।

प्रभावमस्य गदितुं नेशः शेषश्चतुर्मुखः

॥१०॥

सङ्क्षेपतो ब्रवीम्येतत्तथापि भवदाज्ञया ।

बहुजन्मार्जितैः पुण्यैरस्य तु श्रवणं भवेत्

॥११॥

पाखण्डिनां नास्तिकानां न भवेत् पापकर्मिणाम् ।

नित्यत्त्वान्निर्गुणत्वाच्च अनादित्वाच्च तत्त्वतः

॥१२॥

गणेशस्य स्वरूपं न वक्तुं केनापि शक्यते ।

तथाप्युपासनासक्तैर्निर्गुणं तन्निरूप्यते

॥१३॥

ॐकाररूपी भगवान् यो वेदादौ प्रतिष्ठितः ।

यं सदा मुनयो देवाः स्मरन्तीद्रादयो हृदि

॥१४॥

यं पूजयन्ति सततं ब्रह्मेशानेन्द्रविष्णवः ।

यो हेतुः सर्वजगतां सर्वकारणकारणम्

॥१५॥

यदाज्ञया कः सृजतेऽथ विष्णुर्यदाज्ञया पालनमातनोति ।

यदाज्ञया संहरते हरोऽपि यदाज्ञया सञ्चरते दिनेशः

॥१६॥

यदाज्ञया वाति समीरणोऽपि यदाज्ञयापः प्रवहन्ति दिक्षु ।

यदाज्ञया भानि पतन्ति भूमौ यदाज्ञयाऽग्निर्ज्वलति त्रिलोके

॥१७॥

तस्य यच्चरितं गुप्तं कस्यापि न निवेदितम् ।

तदहं वः प्रवक्ष्यामि सादरं श्रूयतां द्विजाः

॥१८॥

ब्रह्मणा कथितं पूर्वं व्यासायामिततेजसे ।

भृगवे कथितं तेन सोमकान्ताय तेन च

॥१९॥

व्रतैर्यज्ञैस्तपोभिश्च दानैस्तीर्थैश्च कोटयः ।

भवन्ति येषां पुण्यानां तेषां बुद्धिः प्रजायते

॥२०॥

गणेशाख्यपुराणस्य श्रवणे द्विजसत्तमाः ।

माया येषां न संसारे न दारापत्यभूमिषु

॥२१॥

मयूरेशकथायां ते सादरा मुनिसत्तमाः ।

श्रूयतामस्य महिमा सोमकान्तप्रसङ्गतः

॥२२॥

सौराष्ट्र देवनगरे सोमकान्तोऽभवन्नृपः ।

वेदशास्त्रार्थतत्त्वज्ञो धर्मशास्त्रार्थतत्परः

॥२३॥

दशनागसहस्राणि हयानां द्विगुणानि च ।

रथिनां षट्सहस्राणि प्रयान्तमनुयान्ति च

॥२४॥

पदातयोऽप्यसङ्ख्याता अग्निशस्त्रधरास्तथा ।

कोदण्डधारिणश्चान्ये निषङ्गद्वयधारिणः

॥२५॥

बुद्ध्या बृहस्पतिं जिग्ये सम्पदा धनदञ्च यः ।

क्षमया पृथिवीं जिग्ये गाम्भीर्येण महोदधिम्

॥२६॥

सूर्याचन्द्रमसौ जिग्ये भासा कान्त्याच यो नृपः ।

प्रतापेनाऽनलं जिग्ये सौन्दर्येण मनोभवम्

॥२७॥

यस्यामात्याः प्रबलिनः पञ्चासन् दृढविक्रमाः ।

नीतिशास्त्रार्थतत्त्वज्ञाः परराष्ट्रविमर्दिनः

॥२८॥

रूपवान्प्रथमस्तत्र विद्याधीशस्तथाऽपरः ।

क्षेमङ्करो ज्ञानगम्यः सुबलः पञ्चमः स्मृतः

॥२९॥

एतैर्नानाविधा देशा आक्रान्ताः स्वपराक्रमात् ।

एतेऽति सुन्दरा नाना भूषावस्त्रैरलङ्कृताः

॥३०॥

राजकार्य करानित्यं राज्ञः प्रियतमाभृशम् ।

तस्य राज्ञोऽभवद्भार्या सुधर्मा गुणशालिनी

॥३१॥

तद्रूपमवलोक्यैव रतिरम्भातिलोत्तमाः ।

लज्जिता न सुखं क्वापि लेभिरे न च मेनिरे

॥३२॥

अनेकरत्नरचिते ताटङ्के काञ्चने शुभे ।

बिभ्रतीकर्णयोः कण्ठे निष्कं मुक्ताफलानि च

॥३३॥

कटौरत्नमयींकाञ्ची तादृशे नूपूरेंऽङ्घ्रिगे ।

अङ्गुलीयान्युत्तमानि च करपादाङ्गुलीषु च

॥३४॥

वासांस्यनेकवर्णानि महार्हाणि सहस्रशः ।

भगवद्भजने दाने सक्ताचातिथि पूजने

॥३५॥

सेवनेऽहर्निशं भर्तुर्वचने च रता सदा ।

हेमकण्ठ इति ख्यातः पुत्रोऽभूदनयोः शुभः

॥३६॥

गजायुतबलो धीमान् विक्रमी शत्रुतापनः ।

एवमासीत्सोमकान्तः पृथिव्यां राजसत्तमः

॥३७॥

सर्वान् राज्ञो वशे कृत्वा चक्रे राज्यं धरातले ।

नित्यं धर्मरतो यज्वा दातात्यागी द्विजोत्तमाः

॥३८॥

इति श्रीगणेशपुराणे उपासनाखण्डे सोमकान्तवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥