दक्षस्तुतिर्नामविंशतितमोऽध्यायः
ब्रह्मोवाच
ततः स ब्राह्मणान् साधून् दैवज्ञान् वेदनिष्ठितान् ।
आकार्य प्रतिपूज्यादौ रत्नवासोधनादिभिः
॥१॥पृष्ट्वा तान् दक्ष इत्येव नामचक्रे सुतस्य सः ।
जपमन्त्रप्रयोगांश्च चकारौषधसञ्चयान्
॥२॥स्वयं च द्वादशाब्दानि चकार परमं तपः ।
पुत्ररोगविमुक्त्यर्थं स्वसन्तानस्य वृद्धये
॥३॥नापश्यद्रोगनिर्मुक्तं पुत्रं तं स सदा नृपः ।
तदा निर्वेदमापन्नो जगाद क्रोधमूर्च्छितः
॥४॥गच्छ मे भवनाद् राज्ञि कमले पुत्रसंयुता ।
नेमं पुत्रं न च त्वाहं द्रष्टुं शक्त इतःपरम्
॥५॥इति निर्भर्त्सिता तेन वल्लभेन तदा सुतम् ।
आदाय कमला तस्मान्नगरात् प्रस्थिता वनम्
॥६॥रुदती शोक संविग्ना दुःखिताऽश्रु प्रमार्जती ।
वहन्ती पृष्ठभागे तं क्षुत्तृट्श्रमविकर्शिता
॥७॥ग्रामाद्ग्रामान्तरं याता भिक्षाचारा भृशातुरा ।
तस्करैर्लुण्ठितं तस्या वसनं भूषणादिकम्
॥८॥ततो ग्रामान्तरं गत्वा न्यस्य पुत्रं शिवालये ।
भिक्षायै पुरमध्ये सा बभ्राम नृपवल्लभा
॥९॥कदाचित् सह पुत्रेण भिक्षितुं सा पुरं ययौ ।
कस्यचिद् द्विजमुख्यस्य वायुस्पर्शन सोऽर्भकः
॥१०॥भक्तेरतिशयात् साक्षात्कृतो लम्बोदरेण सः ।
चक्षुष्मान् श्रुतिसम्पन्नो दिव्यदेहोऽभवत्तदा
॥११॥जहर्ष कमला त्यक्त्वा सर्वं दुःखं निरीक्ष्य तम् ।
मञ्जुलां सुखदां वाच मुच्चरन्तं मुहुर्मुहुः
॥१२॥तर्कयामास कमला मणिमन्त्रमहौषधैः ।
अनुष्ठानैर्महाहोमैर्नसम्यग्यो बभूव ह
॥१३॥स कथं मारुतस्पर्शात् समीचीनोऽभवत्सुतः ।
अथ तं पुरुषं क्वाहं द्रक्ष्ये दुष्कर्मनाशनम्
॥१४॥इत्युक्त्वा सुतमालिङ्ग्य सा तस्थौ विगतज्वरा ।
तमादाय गता भिक्षां कर्तुं तन्नगरे पुनः
॥१५॥नागरा भोजयामासुरूभावामन्त्र्य सादरम् ।
नानापक्वान्नशाकाद्यैः शर्कराघृतपायसैः
॥१६॥एवं प्रतिदिनं तौ तु भुक्त्वानुदिवसं मुदा ।
आपतुर्धनवस्त्राणि नूतनानि वराणि च
॥१७॥तमपृच्छन्नागरिकः पितुस्ते नाम वे वद ।
को देशः किं पुरं ज्ञातिः का च ते वृत्तमेव च
॥१८॥इति तग्दिरमाकर्ण्य दक्षो नाम तमब्रवीत् ।
ततो मातरमागम्य पितरं नगरं कुलम्
॥१९॥वृत्तं च परिपपृच्छ ततस्तं पुनरब्रवीत् ।
कर्नाटे भानुनगरे वल्लभो मे पिता महान्
॥२०॥क्षत्रियो बलसम्पन्नः ख्यातो रिपुबलार्दनः ।
तस्येयं कमला जाया सुतोऽहं दक्षसंज्ञकः
॥२१॥उत्पन्नोऽहं यदा ब्रह्मन्नन्धो बधिर एव च ।
अनेकक्षतसम्पन्नो माता त्यक्तुं तदोद्यता
॥२२॥पित्र निषेधिता सा च यत्नं बहु तथाऽकरोत् ।
द्वादशाब्दं तपस्तप्त्वा पिता पुण्यं न्यवेदयत्
॥२३॥न च मे पाटवं देहे पश्यति स्म पिता यदा ।
तदा विसर्जयामास मातरं मां च नागर
॥२४॥इति सर्वं जगौ तस्मै दक्षो मातृमुखोद्गतम् ।
अत्राहं सुभगो जातो वायुस्पर्शन कस्यचित्
॥२५॥श्रुत्वैवं तु गते तस्मिन् पुरुषे पुरवासिनी ।
दक्षो जगाम त्वरितो मातरं प्रतिनन्दयन्
॥२६॥ततस्तन्नगरे तौ द्वावुपदिष्टौ द्विजन्मना ।
गणेशाराधनविधौ करुणायुतचेतसा
॥२७॥ततः सा कमला दक्षो निर्वाणं परमास्थितौ ।
एकाङ्गुष्ठेन तपसा गणेशाराधने रतौ
॥२८॥देवनामचतुर्थ्यन्तमोङ्कारपल्लवान्वितम् ।
अष्टाक्षरं परं मन्त्रं जपन्तौ भक्तितत्परौ
॥२९॥वायुभक्षौ शुष्कतनू निरीक्ष्य भगवाँस्तदा ।
आविरासीत्तयोरग्रे करूणाब्धिर्विनायकः
॥३०॥चतुर्भुजो महाकायो वारणास्योऽतिसुन्दरः ।
अनेक सूर्यसङ्काशो निशि सूर्य इवोदितः
॥३१॥रत्नकाञ्चनमुक्तावन्मुकुटभ्राजिमस्तकः ।
पीतकौशेयवसनो हाटकाङ्गदभूषणः
॥३२॥एकजानुनिपातेन सन्निविष्टो महासने ।
कटिसूत्रं काञ्चनीयं मुद्रिका रत्नसंयुताम्
॥३३॥महाहिं जठरे बिभ्रदेकदन्तं गजार्धकम् ।
एवं रूपं ददृशतुः पुनश्च द्विजरूपिणम्
॥३४॥जगाद स द्विजस्तौ तु भवन्निर्वाणतोषितः ।
आगतोऽहं वरं दातुं वृणुतं मनसीप्सितम्
॥३५॥विश्वामित्र उवाच
एवं प्रसन्ने विघ्नेशे प्रत्यक्षे द्विजरूपतः ।
ननाम परया भक्त्याऽभणद्बद्धाञ्जलिश्च तम्
॥३६॥दक्ष उवाच
पूर्वनजन्मकृतं पुण्यं फलितं मे द्विजोत्तम ।
यन्मयाऽदर्शितं रूपं ते द्विविधं परमं महत्
॥३७॥वैनायकं च वैप्रं च जन्म मेऽजनि सार्थकम् ।
कारणानां परं त्वं च कारणं छन्दसामपि
॥३८॥परं ज्ञेयं परं ब्रह्म श्रुतिमृग्यं सनातनम् ।
त्वमेव साक्षी सर्वस्व सर्वस्यान्तर्बहिस्तथा
॥३९॥त्वमेव कर्ता कार्याणां लघुस्थूलशरीरिणाम् ।
नानारूप्येकरूपी त्वं निरूपश्च निराकृतिः
॥४०॥त्वमेव शङ्करो विष्णुस्त्वमेवेन्द्रोऽनलोऽर्यमा ।
भूवायुखस्वरूपोऽपि जलसोमर्क्षरूपवान्
॥४१॥विश्वकर्ता विश्वपाता विश्वसंहारकारकः ।
चराचरगुरोर्गोप्ता ज्ञानविज्ञानवानपि
॥४२॥भूतं भावि भवच्चैव त्वमेवेन्द्रियदेवताः ।
कला काष्ठा मुहूर्ताश्च श्रीर्धृतिः कान्तिरेव च
॥४३॥त्वमेव साङ्ख्यं योगश्च शास्त्राणि श्रुतिरेव च ।
पुराणानि चतुःषष्टिकला उपनिषत्तथा
॥४४॥त्वमेव ब्राह्मणो वैश्यः क्षत्रियः शूद्र एव च ।
देशो विदेशस्त्वं क्षेत्रं पुण्यक्षेत्राणि यान्युत
॥४५॥त्वं प्रमेयोऽप्रमेयश्च योगिनां ज्ञानगोचरः ।
त्वमेव स्वर्गः पातालं वनान्युपवनानि च
॥४६॥ओषध्योऽथ लतावृक्षकन्दमूलफलानि च ।
अण्डजा जारजा जीवाः स्वेदजा उद्भिजा अपि
॥४७॥कामः क्रोधः क्षुधा लोभो दम्भोदर्पो दया क्षमा ।
निद्रा तन्द्रा विलासश्च हर्षः शोकस्त्वमेव च
॥४८॥विश्वामित्र उवाच
इति दक्षवचः श्रुत्वा सुप्रसन्नो विनायकः ।
मेघगम्भीरया वाचा स्मयन्निव जगाद तम्
॥४९॥गजानन उवाच
प्रीतोऽहं ते महाभाग स्तुत्या गम्भीरयाऽनया ।
वरं दातुं समुत्कण्ठस्तथापि न ददामि ते
॥५०॥यद्यहं वरदः स्यां ते क्रुध्येद्भक्तो ममोपरि ।
स एव दास्यति वरं यदङ्गस्य प्रभञ्जनात्
॥५१॥दिव्यदेहमनुप्राप्तश्चक्षुश्रोत्रसमन्वितः ।
जातस्त्वं तस्य नामाऽपि वदामि मुद्गलेति च
॥५२॥स ध्यातमात्रो विप्रेशः स्वरूपं दर्शयिष्यति ।
यान् यान् कामयसे कामान् स ते सर्वान् प्रदास्यति
॥५३॥इत्युक्त्वा परमात्माऽसौ तत्रैवाऽन्तरधीयत ।
तस्मिन्नन्तर्हिते दक्षो रुरोद भृशदुःखितः
॥५४॥दरिद्रेण निधौ लब्धे गते तस्मिन् यथैव सः ।
गतायां गवि वत्सो वा रोरवीति यथा भृशम्
॥५५॥मुञ्चन्नश्रूणि नेत्राभ्यां पपात धरणीतले ।
क्व गतः क्व गत इति मुहुर्जल्पन्विनायकः
॥५६॥इति श्रीगणेशपुराणे उपासनाखण्डे दक्षस्तुतिर्नामविंशतितमोऽध्यायः ॥ २० ॥