चिन्तामणितीर्थ वर्णनं नाम चतुस्त्रिंशोऽध्यायः
नारद उवाच
कदम्बवृक्षस्य तले निधाय नासाग्रदृष्टिं परमासने सः ।
मनो निरूध्याऽथ जजाप मन्त्रं षडक्षरं जम्भरिपुर्नरेन्द्र
॥१॥सहस्रवर्षाणि गतानि तस्य मरूत्पतेर्मारुतभक्षणस्य ।
वल्मीकगुल्मानि शरीरदेशे जातानि वै भूधरवत् स्थिरस्य
॥२॥ततःप्रसन्नो भगवान् गणेशो यः सर्वगः सर्वविदुग्रतेजाः ।
स्वतेजसा वन्हिशशीनतेजांस्याच्छादयन्सर्व विलोचनानि
॥३॥चतुर्भुजो रत्नकिरीटमाली चार्वङ्गदः कुण्डलमण्डिगण्डः ।
मुक्तामयं दाम च नूपुरे च बिभ्रन्महार्घे कटिसूत्रमुच्चैः
॥४॥यः पुष्कराक्षः पृथुपुष्करोऽपि बृहत्करः पुष्करशालिमालः ।
आविर्बभूवाखिलदेवमूर्तिः सिन्दूरशालि पुरतो मघोनः
॥५॥तं दृष्ट्वा भयभीतोऽभूत् किमिदं किमिवागतम् ।
कथं च जीवितं मे स्यादस्थिप्राणमयस्य च
॥६॥विघ्नोऽयं किं महानद्य न जाने केन निर्मितः ।
स्वेदस्रावि शरीरं मे कम्पते बोधिपत्रवत्
॥७॥इत्थं विक्लवितं तस्य बुबुधेऽखिल दृग्विभुः ।
विनायको महेन्द्रं तमुवाच मञ्जुलं वचः
॥८॥विनायक उवाच
मा भयं कुरू देवेश मां न वेत्सि कथं सुर ।
यन्निर्गुणं निर्विकारं चिदानन्दं सनातनम्
॥९॥कारणातीतमव्यक्तं जगत्कारणकारणम् ।
यं ध्यायसि सदा देवं मन्त्रेणाऽनेन निश्चलः
॥१०॥श्रान्तोऽसि बहु कालं त्वमिति प्रत्यक्षतां गतः ।
तपसाऽनेन तुष्टोऽहं वरं दातुमिहागतः
॥११॥ब्रह्माण्डानामनन्तानामुत्पत्तिप्रलयावनम् ।
मत्त एवेति विद्धि त्वं वृणु यद्वाञ्छसेऽनघ
॥१२॥नारद उवाच
श्रुत्वा तस्य वचो रम्यं बुबुधे बलभेदनः ।
भगवन्तं महाकायं देवदेवं विनायकम्
॥१३॥ननाम परया भक्त्या तत उत्थाय सत्वरः ।
अवीदिच्छचीकान्तः प्रत्यक्षं ब्रह्मरुपिणम्
॥१४॥इन्द्र उवाच
ब्रह्मादयोऽपि नो देवा विदुस्त्वां सदिगीश्वराः ।
गुणाँस्तव महाबाहो सृष्टिस्थित्यन्तकारिणः
॥१५॥पदं तु कृत्रिमं मह्यं शतयज्ञसमुद्भवम् ।
दत्तं तत्राप्यन्तराया भवन्ति बहुधा मम
॥१६॥मया कथं तु विज्ञेयो महिमा ते गजानन ।
यस्य तेऽनुग्रहः पूर्णो भविष्यति महेश्वर
॥१७॥स एव महिमानं ते जानीयाद् विघ्नकारण ।
तस्य ते गुणरूपाणि वक्तुं शक्तिर्भविष्यति
॥१८॥निराधारोऽखिलाधारो नित्यज्ञानोऽजरोऽमरः ।
नित्यानन्देन सम्पूर्णो मायावी क्षर एव च
॥१९॥अक्षरः परमात्माच विश्वरूपोऽखिलेश्वरः ।
उग्रैस्तपोभिस्त्वां ज्ञात्वा निर्वृत्ताः सनकादयः
॥२०॥षडक्षर प्रभावेण दृष्टोऽसि परमेश्वर ।
पुराऽयं ब्रह्मणाऽऽदिष्टो मन्त्रो मेऽनुग्रहेण वै
॥२१॥उक्तवांश्चैव मां ब्रह्मा यदाऽमुं विस्मरिष्यसि ।
तदैव भ्रश्यसे स्थानदुर्दशां चैव यास्यसि
॥२२॥ततो मयाऽतिलुब्धेन दुर्भाग्यवशगेन तु ।
धर्षिता मुनिपत्नीं सा ततो दुर्गतिमाप्तवान्
॥२३॥पुनश्च धिषणोक्तेन तेन मन्त्रेण दृष्टवान् ।
स्वरूपं तव देवेश सहस्रनयनोऽधुना
॥२४॥अन्यमेकं वरं याचे यतस्त्वं चिन्तितार्थदः ।
इदं कदम्बनगरं चिन्तामणिपुरं त्विति
॥२५॥अनुष्ठानफलं प्राप्तं यत् ते दृढपदाम्बुजम् ।
इदानीं तु वर याचे यं तं मे देहि विघ्नप
॥२६॥तव विस्मरणं देव न भवेन्मे तथा कुरू ।
मनो मे रमतां तव पादाम्बुजे विभो
॥२७॥अद्य प्रभृति लोकेऽस्मिन् ख्यातिं यातु गजानन ।
चिन्तामणीति तीर्थं तु सरश्च प्रथतामिदम्
॥२८॥अस्मिन् स्नानेन दानेन धर्मकामार्थमुक्तयः ।
जनानां सिद्धायः सन्तु प्रसादात् ते जगद्गुरो
॥२९॥मुनिरूवाच
आकर्ण्य वचनं शाक्रं मेघगम्भीरनिस्वनः ।
उवाच श्लक्ष्णया वाचा विघ्नेशो जगतां पतिः
॥३०॥विनायक उवाच
इदं सम्पत्स्यते सर्वं यत् त्वया प्रार्थितं विभो ।
अन्य एको वरस्तेऽस्तु स्वपदे त्वं स्थिरो भव
॥३१॥अविस्मृतिश्च सततं मम तेऽस्तु सुरेश्वर ।
यदा च सङ्कटं ते स्यात्तदा मां स्मर वासव
॥३२॥आविर्भावेन ते कार्यं सर्वं सम्पादयेऽनिशम् ।
इदं चिन्तामणिपुरं ख्यातं भुवि भविष्यति
॥३३॥कदम्बपुरमित्येतत् तीर्थं चिन्तामणीति च ।
अत्र स्नानेन सर्वेषां सिद्धयोऽपि करेस्थिताः
॥३४॥चिन्तितं च प्रदास्यामि चिन्तामणि विनायकः ।
नारद उवाच ।
एवं वरं ततो लब्ध्वा स्वः सिन्धुमायद् हरिः
॥३५॥कृत्वाऽभिषेकं तद्द्वारा पूजयामास तं विभुम् ।
गजाननं महाभागं परिवारसमन्वितम्
॥३६॥पूजितः सुरनाथेन तत्रैवान्तर्दधे विभुः ।
स्थापयामास शक्रोऽपि स्फाटिकां मूर्तिमादरात्
॥३७॥वैनायकीं शुभां दिव्यां सर्वावयवसुन्दराम् ।
कारयामास विपुलं प्रासादं रत्नकाञ्चनैः
॥३८॥नत्वा प्रदक्षिणीकृत्य शक्रः स्वं पदमभ्यगात् ।
तदेतद् भुवि विख्यातं चिन्तामणिसरो महत्
॥३९॥अद्यापि सा शुभजला गङ्गा शक्रस्य शासनात् ।
कृत्वाऽभिषेकं तन्मूर्तौ यातिस्वं धाम सर्वदा
॥४०॥एवं ते क्षेत्रमहिमा कथितोऽद्भुतदर्शनः ।
सर्व दोषहरः श्रीमान् सर्वकामप्रदः शुभ
॥४१॥तत्र गत्वा महीपाल स्नानं कुरू यथाविधि ।
सर्वदोषविनिर्मुक्तो भविष्यसि न संशयः
॥४२॥ब्रह्मोवाच
ततो ययौ मुनिः शीघ्रमनुपृच्छ्य च तं नृपम् ।
आशीर्भिरभिनन्द्यैव स रूक्माङ्गदमादरात्
॥४३॥इति श्रीगणेशपुराणे उपासनाखण्डे चिन्तामणितीर्थवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥