मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 51

3
उपासनाखण्डः · 51

हिमवत् पार्वती संवादो नामक पञ्चाशत्तमोऽध्यायः

पार्वत्युवाच

तव वाक्यामृतेनाऽहं पितः प्रीताऽस्मि साम्प्रतम् ।

परन्तु संशयो मेऽस्ति तं नुदस्व हिमालय

॥१॥

केन केन कृतं पूर्वं व्रतमेतन् महीधरः ।

आख्यातं केन वा कस्मै कः कां सिद्धिमितोऽगमत्

॥२॥

एतत्सविस्तरं ब्रूहि संशयच्छेदनाय मे ।

यश्च पृच्छति यो वक्ति गजाननकथा शुभाः

॥३॥

श‍ृणोत्यन्योऽपि यो मर्त्यस्त्रयस्ते पुण्यभागिनः ।

जीवितं सफलं तेषां जन्म ज्ञानं च कर्म च

॥४॥

ब्रह्मोवाच

एवं तया कृत प्रश्नो हिमवानभ्यभाषत ।

वरदस्य गणेशस्य नानाजनकृतं व्रतम्

॥५॥

हिमवानुवाच

श‍ृणु पार्वति वक्ष्यामि संवादं ते पुरातनम् ।

सेतिहासं व्रतस्यास्य सर्वसिद्धिकरस्य ह

॥६॥

कैलासे गिरिवर्ये तु सुखासीनं जगद्गुरुम ।

क्रीडमानं मुदा देवैर्गन्धर्वैः परमर्षिभिः

॥७॥

नत्वा स्तुत्वा महातेजाः परिपप्रच्छ षण्मुखः

॥८॥

स्कन्द उवाच

देवदेव जगन्नाथ भक्तानामभयङ्कर ।

नानाख्यानानि दिव्यानि श्रुतानि त्वत्प्रसादतः

॥९॥

तृप्तिं तात न गच्छामि पायं पायं सुधामिव ।

अधुना ब्रूहि मे देव व्रतं सर्वार्थसिद्धिदम्

॥१०॥

अनुष्ठानेन यस्याथ करस्था सिद्धयो नृणाम् ।

जायन्ते साधकानां तु वरदस्य प्रसादतः

॥११॥

शिव उवाच

साधु पृष्टं त्वया स्कन्द सर्वेषां हितकारकम् ।

कथयामि तव प्रीत्या महासिद्धिप्रदं भुवि

॥१२॥

विनायकप्रियं तात व्रतानामुत्तमं व्रतम् ।

सर्वेषां पुरुषार्थानां साधकं कृत्तिकात्मज

॥१३॥

विनायज्ञैस्तथा दानैर्जपहोमादिभिर्विना ।

सर्वसिद्धिकरं स्कन्द पुत्रपौत्रप्रवर्धनम्

॥१४॥

राजानं राजपुत्रं वा तन्मन्त्रिणमथाऽपि वा ।

वशमानयति क्षिप्रं व्रतमेतन्मऽहत्तमम्

॥१५॥

महापापोपपापैश्च बहुजन्मसु सञ्चितैः ।

व्रतस्यास्य प्रभावेण तैः पुमान् मुच्यते क्षणात्

॥१६॥

भाजनं सर्वसिद्धीनां जायते मानवो भुवि ।

प्रीतिदं तु गणेशस्य नानेन सदृशं क्षितौ

॥१७॥

स्कन्द उवाच

तात कस्मिन् भवेन्मासि व्रतमेतन्महोत्तमम् ।

विधानं कीदृशं चास्य केन वाऽऽचरितं पुरा

॥१८॥

सर्वमेतन्ममाचक्ष्व यद्यस्ति करुणा मयि ।

शिव उवाच ।

नभः शुक्ल चतुर्थ्यान्तु स्नात्वा गुरुगृहं व्रजेत् ।

प्रणम्य तं गुरुं पश्चात्पूजयित्वा यथाविधि

॥१९॥

पाद्याचमनवस्त्राद्यैर्भूषणश्च महत्तरैः ।

तोषयित्वा तु तं सम्यगाज्ञया प्रारभेद् व्रतम्

॥२०॥

सर्वसिद्धिकरं तात व्रतं गाणेश्वरं गुरो ।

त्वमेव श्रीगणेशोऽसि दिशकामप्रदं प्रभो

॥२१॥

उपदिष्टे व्रते तेन सार्धं गङ्गातटं व्रजेत् ।

तडागं वा देवखातं तत्र स्नायाद् यथाविधि

॥२२॥

श्वेतसर्षपयुक्तेन तिलकल्केन षण्मुख ।

स्नात्वा धात्रीयुतेनेह कृत्वा नित्यं गृहं व्रजेत्

॥२३॥

उपविश्यासने शुद्धे पूजयित्वा गणाधिपम् ।

गुरुपदिष्टमार्गेण व्रतं पश्चात् समारभेत्

॥२४॥

मृदा मूर्तिं गणेशस्य चतुर्थ्यां श्रावणस्य तु ।

प्रत्यहं पूजयेत्कृवा यावद्भाद्रचतुर्थिका

॥२५॥

ब्रह्मचर्यव्रते स्थित्वा कर्तव्यं व्रतमुत्तमम् ।

उपवासैक भक्ताभ्यां नक्तेनायाचितेन वा

॥२६॥

चतुर्थकाले भुञ्जीत हविष्यान्नं समाहितः ।

अक्षरं मधुरं भुञ्जन् भक्तिमानाचरेद्व्रतम्

॥२७॥

जपन् गाणेश्वरीं विद्यां षडानन षडक्षरीम् ।

द्विचतुरक्षरां वापि तथैवैकाक्षरामपि

॥२८॥

दशाक्षरामथ स्कन्द द्वादशार्णामथापि वा ।

नियुतं वाऽयुतं वापि प्रत्यहं जप इष्यते

॥२९॥

तदर्धं वा तदर्धं वा दशांशं होममाचरेत् ।

ध्यायन् गजाननं देव महोरात्रमतन्द्रितः

॥३०॥

प्राप्ते प्रोष्ठपदे मासि चतुर्थ्यां तु गजाननम् ।

सौवर्णपलमानेन तदर्धार्धेन वा पुनः

॥३१॥

मयूरवाहनं कुर्यादथवाऽऽखुगतं शुभम् ।

कृत्वा मण्डपिकां तत्र धान्यराशिं प्रकल्पयेत्

॥३२॥

सौवर्णं राजतं ताम्रं कलशं स्थापयेत् ततः ।

तस्योपरि न्यसेत्पात्रं रुक्मराजतताम्रकम्

॥३३॥

वस्त्रयुग्मेन संवेष्ट्य सपात्रं कलशं ततः ।

पञ्चपल्लव संयुक्तं पञ्चरत्नसमन्वितम्

॥३४॥

पीठपूजां पुरा कृत्वा स्थापयेत्तत्र तं विभुम् ।

मूलमन्त्रैश्च वेदोक्तैः पूर्वोक्तैरपि षण्मुख

॥३५॥

ध्यात्वा गजाननं देवमावाह्य परया मुदा ।

आसनं च तथा पाद्यं दद्यादाचमनीयकम्

॥३६॥

अर्घ्यं रत्नयुतं स्कन्द स्नानं पञ्चामृतैः शुभम् ।

सुवासिताभिरद्भिश्च स्नापयेत् परमेश्वरम् ।

रक्तवस्त्रयुगं दद्यादुपवीतं तथोत्तमम्

॥३७॥

नानाविधैराभरणैर्भूषयेत् परमेश्वरम् ।

गन्धाक्षतैर्धूपदीपैर्नैवेद्येर्विविधैरपि

॥३८॥

वटकापूपलड्डूकशाल्यन्नपायसादिभिः ।

पञ्चामृतैर्व्यञ्जनैश्च भोजयेत् परमेश्वरम्

॥३९॥

उद्वर्तन करे दद्यात् फलं ताम्बूलमेव च ।

काञ्चनीं दक्षिणां दद्याच्छत्रं व्यञ्जनचामरे

॥४०॥

नीराजनं मन्त्रपुष्पं दत्वा स्तोत्राण्युदीरयेत् ।

सहस्रनामभिः स्तुत्वा ब्राह्मणान् पूजयेत्ततः

॥४१॥

रात्रौ जागरणं कृत्वा गीतनृत्यादि मङ्गलैः ।

प्रभाते विमले स्नात्वा नित्यं कृत्वा यथाविधि

॥४२॥

पूजयेत्पूर्ववद्देवं ततो होमं समाचरेत् ।

द्रवैर्नानाविधैर्हुत्वा कुर्यादाचार्यपूजनम्

॥४३॥

गोभूतिलहिरण्याद्यं गुरवे तन्निवेदयेत् ।

अन्येभ्यो ब्राह्मणेभ्यश्च प्रदद्याद् भूरि दक्षिणाम्

॥४४॥

ब्राह्मणान् भोजयेत् पश्चाच्छतमष्टोत्तरं तथा ।

अधिकान् यदि शक्तिश्चेदथवाऽप्येकविंशतिम्

॥४५॥

दीनान्धकृपणेभ्यश्च दद्यादन्नं सपायसम् ।

पुनश्च दक्षिणां दद्यात् प्रगृह्याशिषमुत्तमाम्

॥४६॥

सुहृद्बन्धुयुतो मौनी स्वयं भुञ्जीत सादरम्

॥४७॥

शिव उवाच

एवं ते कथितं स्कन्द वरदस्य व्रतं शुभम् ।

भुक्तिमुक्तिप्रदं नॄणां सर्वकामफलप्रदम्

॥४८॥

पुरातनमितिहासास्मिन्नर्थे वदामि ते ।

महाधर्मपरो राजा पुराऽभूत् कर्दमाभिधः

॥४९॥

पालयामास वसुधां सागरान्तां स्वतेजसा ।

गुणैर्यस्य हृता देवा नित्यं यत्सदसि स्थिताः

॥५०॥

कदाचिद् दैवयोगेन भृगुस्तस्य गृहं ययौ ।

तत उत्थाय राजा स बहुमान पुरःसरम्

॥५१॥

उपविश्यासने श्रेष्ठे पूजितो गुरुवत् ततः ।

भुक्त्वा स्थितं मुनिवरं राजा वचनमब्रवीत्

॥५२॥

राजोवाच

भगवन् सर्वतत्त्वज्ञ किञ्चित् पृच्छामि तद् वद ।

पूर्वजन्मनि कश्चाहं किं मया सुकृतं कृतम्

॥५३॥

येनेदृशं मया राज्यं प्राप्तं निहतकण्टकम् ।

प्राप्तं नैव नृपैरन्यैर्न च प्राप्स्यन्ति चापरे

॥५४॥

देवानामपि पूज्योऽहं गन्धर्वोरगराक्षसाम् ।

कुबेरसम्पदा तुल्यां सम्पदं पश्यमे मुने

॥५५॥

त्रिलोक्यां रत्नभूतं यत् तदानीतं स्वतेजसा ।

यं यं पदार्थमिच्छामि तं तं पश्यामि वेश्मनि

॥५६॥

केनेत्थं कर्मणा प्राप्तं तद् वदस्व मम प्रभो ।

कामये तत्पुनः कर्तुं पुण्यं पुण्यवतां वर

॥५७॥

भृगुरुवाच

कथयामि नृपश्रेष्ठ प्रणिधानबलादहम् ।

त्वमासीः पूर्वजनुषि क्षत्रियो दुर्बलः शुचिः

॥५८॥

कुटुम्बभरणार्थं त्वं नानाकर्माण्यथाकरोः ।

क्रियमाणं च तत्कर्म न चासीत् फलदं तव

॥५९॥

अत्यन्तनिष्ठुरैर्वाकैर्दारापत्यैश्च पीडितः ।

अपृष्ट्वा पुत्रदारांस्त्वं गतवान् गहनं वनम्

॥६०॥

विभ्रमन् दिक्षु सर्वासु दृष्टवानसि सौभरिम् ।

सिद्धासने समासीनं सेवितं मुनिपुङ्गवैः

॥६१॥

कथयन्त महाविद्यां शिष्येभ्यो दुःखनाशिनीम् ।

दृष्ट्वा तं सौभरिं दिव्यमन्यांश्चर्षिगणान्नृप

॥६२॥

दण्डवत् पतितोऽसि त्वं भुवि तैश्चाभिनन्दितः ।

उपविष्टः स्वासने च मुनिना तेन दर्शिते

॥६३॥

पृष्टवानसि तं दिव्यं लब्ध्वाऽवसरमादृतः ।

क्षत्रिय उवाच ।

स्वामिन् संसारदुःखेन बहुधा क्लेशितो मुने

॥६४॥

दारापत्यसुहृद्भिश्च वाग्बाणैर्भृशताडितः ।

न वैराग्यं मनो याति निष्ठुरेषु सुहृत्सु च

॥६५॥

शीतोष्णक्षुत्पिपासाभिः पीडितोऽपि भृशं मुने ।

उपायं वद मे किञ्चिद्दुःखसागरतारकम्

॥६६॥

शिव उवाच

इति श्रुत्वा वचस्तस्य सौभरिः कृपया युतः ।

उपायं चिन्तयामास नृपदुःखविनाशनम्

॥६७॥

ततस्तं क्षत्रियं प्राह सर्वपापविमोचनम् ।

ऋषिरुवाच ।

व्रतं यत्कथयिष्यामि कुरु निश्चितमानसः

॥६८॥

यस्यानुष्ठानमात्रेण सर्वदुःखलयो भवेत् ।

ब्राह्मणैः क्षत्रियैर्वैश्यैस्तथा ब्रह्मर्षिभिः कृतम्

॥६९॥

मुक्तास्ते सर्वदुःखेभ्यः प्राप्ताः सिद्धिमनुत्ताम् ।

वरदस्य गणेशस्य धर्मार्थकाममोक्षदाम्

॥७०॥

क्षत्रिय उवाच

कोऽसौ गणेशः किंशीलः किंरुपः किस्वभाववान् ।

किं कर्मा कथमुत्पन्नस्तत्सर्वं कथयस्व मे ।

यदि मे श्रवणायालं यद्यनुग्राहयता मयि

॥७१॥

ऋषिरुवाच

यद्ब्रह्म नित्यं विरजं विशोकं ज्ञानस्वरूपं परमार्थभूतम् ।

अनादिमध्यान्तमनन्तपारं गणाधिपं तं प्रवदन्ति सन्तः

॥७२॥

यस्मादोङ्कारसम्भूतिर्यतो वेदा यतो जगत् ।

येन सर्वमिदं व्याप्तं तं विद्धि गणनायकम्

॥७३॥

जगत्सर्जनकामेन ब्रह्मणा यस्य तुष्टये ।

अब्दानां तु शतं पूर्णं तपस्तप्तं सुदुष्करम्

॥७४॥

ततो हृष्टमना वेधाः प्रसन्नं तमपूजयत् ।

नानाविधोपचारैश्च दिव्यरत्नैः फलैस्तथा

॥७५॥

सिद्धिबुद्धी उभे कन्ये मनसा कल्पिते ददौ ।

तुष्टो देवो ददौ तस्मै विद्यामेकाक्षरीं विभुः

॥७६॥

ततो लब्धावरो ब्रह्मा चकार सकलं जगत् ।

षडक्षरेण मन्त्रेण विष्णुना तोषितः पुरा

॥७७॥

कृत्वा मूर्तिं गणेशस्य पूर्वोक्तविधिना व्रतम् ।

अव्यङ्गं वर्षमेकं तु नियमान् कृतवान् हरिः

॥७८॥

वरं लब्ध्वा गणेशात्तु पालयामास वै जगत् ।

एवं विधं विजानीहि गणेशं भुवि संस्तुतम्

॥७९॥

विश्वरुपमनादिं च सर्वकारणकारणम् ।

तमाराधय यत्नेन सर्वदुःखाद् वियुङ्क्ष्यसे

॥८०॥

क्षत्रिय उवाच

कस्मिन्काले प्रकर्तव्यमेतद्व व्रतमनुत्तमम् ।

विधिना केन मे ब्रूहि साम्प्रतं मुनिसत्तम ।

करिष्ये वचनात्तेऽहं सर्वदुःख प्रशान्तये

॥८१॥

मुनिरुवाच

श्रावणेऽबहुले पक्षे चतुर्थ्यामारभेद् व्रतम् ।

कुर्वीत परया भक्त्या यावद् भाद्रचतुर्थिका ।

उपचारैः षोडशभिः पार्थिवं गणनायकम् ।

प्रत्यहं पूजयेद् भक्त्या ब्राह्मणान् भोजयेत् ततः

॥८२॥

त्वमेतत् कुरु भूपाल सर्वान्कामानवाप्स्यसि ।

इति श्रुत्वा व्रतं तस्मात् कृतवानसि सुव्रत

॥८३॥

समाप्ते तु व्रते तत्र सौभर्याश्रममण्डले ।

तावत् तस्य गृहं दिव्यं गणेशस्य प्रसादतः

॥८४॥

दिव्यनारीनरयुतं दासीदाससमन्वितम् ।

वेदघोषसमायुक्तं जातं गोधनसङ्कुलम्

॥८५॥

दिव्यवस्त्रसमायुक्ता नानालङ्कारसंयुता ।

अपत्यैस्तादृशैर्युक्ता विस्मिताऽऽसीत् प्रतीक्षती

॥८६॥

आयास्यति कदा भर्तेत्येवं चिन्ता पराऽभवत् ।

तावत्त्वं मुनिमामन्त्र्य गतोऽसि निजमालयम्

॥८७॥

दिव्यं तच्छरणं हित्वा स्वगृहं परिमार्गयन् ।

तावद् भार्याप्रेषितास्त्वां निन्युस्तद्भवनं नराः

॥८८॥

ततस्त्वयाऽपि विज्ञातः प्रभावो वरदस्य सः ।

तद्वतस्य प्रभावेण राज्यभागिहजन्मनि

॥८९॥

शिव उवाच

इति श्रुत्वा भृगोर्वाक्यं कर्दमो हर्षनिर्भरः ।

चकार सकलं राजा भृगुणा यत्समीरितम्

॥९०॥

व्रतस्यास्य प्रभावेण ज्ञानवैराग्यवान्नृपः ।

भुक्त्वा भोगान् यथाकामं स्थाप्य पुत्रान्निजे पदे

॥९१॥

गतो गाणेश्वरं धाम यतो नावर्तते पुनः ।

सर्वार्थमाधकं स्कन्द व्रतानां व्रतमुत्तमम्

॥९२॥

नैतादृशं व्रतं दानं श्रुतमन्यत्कदाचन ।

सर्वार्थसाधकं स्कन्द व्रतं कुरु यदीच्छसि

॥९३॥

देवदानवगन्धर्वैः ऋषिभिर्मनुजैः कृतम् ।

दमयन्त्या नलेनापि राज्ञा चन्द्राङ्गदेन च

॥९४॥

सम्प्राताः सर्वकामांस्ते गता गाणेश्वरं पदम् ।

गिरिरुवाच ।

इति ते कथितं सर्वं सेतिहासं व्रतं महत् ।

कुरु त्वं मनसा ध्यात्वा वरदं गणनायकम्

॥९५॥

व्रतमेतन्महाभागे शङ्करं प्राप्स्यसे ततः ।

स्नेहेन कथितं तेऽद्य प्रकाशं कुरु मा व्रतम्

॥९६॥

इति श्रीगणेशपुराणे उपासनाखण्डे हिमवत्पार्वती संवादो नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥