सप्तसप्ततितमोऽध्यायः
व्यास उवाच
अन्येनाकारि केनेदं वद तत् कौतुकं महत् ।
ब्रह्मोवाच ।
जामदग्न्येन रामेण व्रतमेतत् पुरा कृतम्
॥१॥सोऽपि कीर्तिं जयं ज्ञानमायुर्दीर्घं च लब्धवान् ।
व्यास उवाच ।
रामः कथं समुत्पन्नः कस्मात् कस्यां पितामह
॥२॥एतत्सर्वं सुविस्तार्यं ब्रूहि त्वं मम पृच्छतः ।
ब्रह्मोवाच ।
श्वेतद्वीपेऽविख्यातो जमदग्निर्महामुनिः
॥३॥मनसा सृष्टिसंहारान् निग्रहानुग्रहानपि ।
यः करोति त्रिकालज्ञस्ततो देवाश्चकम्पिरे
॥४॥यस्यासीत् पत्न्यपि तथा रेणुका नाम नामतः ।
यस्या लावण्यगुञ्जापि पत्न्याः कामस्य नाभवत्
॥५॥रतिरित्येव लोकेषु विख्याताऽभू ततस्तु सा ।
यया सम्मोह्ययते सर्वं क्षमस्तद्वर्णने तु कः
॥६॥यन्नेत्रशोभासम्प्राप्त्यै चकोरा जलवासिनः ।
हरिणाश्च तपश्चेरुर्वने छन्दतृणाशिनः
॥७॥यदास्यशोभासम्प्राप्त्यै सेवते चन्द्र ईश्वरम् ।
अनादिनिधना देवी मूलप्रकृतिरिश्वरी
॥८॥यस्यामजनि रामोऽसौ विष्णुर्योगेश्वरो यथा ।
जमदग्नेर्महाभागात् साक्षादीश्वररूपिणः
॥९॥अतिसुन्दरगात्रोऽसौ साक्षान्मन्मथमन्मथः ।
मातापितृवचः कर्ता विख्यातबलपौरुषः
॥१०॥देवद्विजगुरुप्राज्ञगोबोधिपूजने रतः ।
वेदवेदाङ्गशास्त्राणां स्मृतीनामपि पाठकः
॥११॥वाक्येबृहस्पति समः क्षमया पृथिविसमः ।
गाम्भीर्येऽब्धिसमो यस्तु पित्रोर्वाक्यपरायणः
॥१२॥पित्रोराज्ञां गृहीत्वा स निमेषारण्यमाययौ ।
अनेकविद्याभ्यसने मतिं कृत्वा परां स्थिराम्
॥१३॥तस्मिन् गते तदा राजा कार्तवीर्यो महाबलः ।
यस्य प्रतापादभवद् वश्यं भूमण्डलं सदा
॥१४॥यस्मिँल्लक्ष्मी स्थिरा विष्णोरंशभूतेऽखिलार्थदे ।
आजौ पञ्चशतं बाणान् सृजते रिपुघातकान्
॥१५॥इन्द्रादिवृन्द सेव्योऽसौ विख्यातबलपौरुषः ।
असङ्ख्याता गजा यस्य रथवाजिपदातयः
॥१६॥यस्य निर्गमने सैन्याश्छादयन्ति महीतलम् ।
वर्षाकाले यथा मेघा धाराभिर्व्योममण्डलम्
॥१७॥यस्य कम्बुस्वनं श्रुत्वा द्विषो यान्ति दिशो दश ।
यथा सिंहरवं श्रुत्वा मत्तमातङ्गकोटयः
॥१८॥यदा तालीपञ्चशतं स्वेच्छया कुरुते नृपः ।
तदा सनादं ब्रह्माण्डं कम्पते मुनिसत्तम
॥१९॥असौ यदृच्छया यत्तश्चतुरङ्गबलान्वितः ।
नीलवस्त्रधरो नील छत्रस्तादृशसैनिकः
॥२०॥वनानि सरितो दुर्गान् पर्वतांश्च विलोडयन् ।
नानामृगगणान्वीक्ष्य विनिघ्नन्नपि कांश्चन
॥२१॥ततः सहयाद्रिशिखरेऽपश्यदाश्रममुत्तमम् ।
यथा कैलासशिखरे गिरिशालयमुत्तमम्
॥२२॥अपृच्छत् सेवकान् राजा कस्येदमुत्तमं स्थलम्
॥२३॥भृत्य उवाच
जमदग्निरिति ख्यातः साक्षात्सूर्य इवापरः ।
मुनिरास्ते महाभागः शापानुग्रहकारकः
॥२४॥यस्य दर्शनतः पाप कोटयो यान्ति संक्षयम् ।
इच्छा चेत्तत्र गन्तव्यं दर्शनं ते भविष्यति
॥२५॥तवप्रसादात् सर्वेषामुपकारो भविष्यति ।
ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा गमनायोद्यतो नृपः
॥२६॥न्यषेधयत् सर्वबलं श्रेष्ठानादाय तत् क्षणात् ।
ययौ तं मुनिशार्दूलं जमदग्निं तपोनिधिम्
॥२७॥दशर्श तं कुशासीनं ज्वलन्तमिव पावकम् ।
प्रणनाम स साष्टाङ्गं ते सर्व सहयायिनः
॥२८॥नानाविशालशालासु कुञ्जवृक्षावलीषु च ।
निषेदुः सैनिकास्ते तु राजा तस्थौ मुनेः परः
॥२९॥आसने मुनिनादिष्टे चतुर्भिः परिवारितः ।
निषसाद तदा राजा कृतवीर्यसुतो बली
॥३०॥अपूजयत् तान् सर्वान् पाद्यार्घ्यविष्टरादिभिः ।
सु मुनिः प्रददौ गाश्व शिष्यैः सर्वानपूजयत्
॥३१॥नानासरोवरजले निर्मले चारूशीतले ।
अमज्जन्त तदा सर्वे सैनिका मृगयार्दिताः
॥३२॥शृण्वन् वेदनिनादांश्च शास्त्रशब्दांश्च पुष्कलान् ।
अभितो वादशब्दाँश्च तच्छिष्यैः समुदीरितान्
॥३३॥अब्रवीन्मुनिमुख्यं तं राजा राजीवलोचनः ।
अद्य मे पितरौ धन्यौ जन्म ज्ञानं तथा तपः
॥३४॥पुण्यवृक्षोऽद्य फलितो यज्जातं तव दर्शनम् ।
अद्य मे सम्पदो धन्याः कुल धन्यं यशोऽपि मे
॥३५॥परब्रह्मेति यत् प्रोक्तं तदेव त्वं न संशयः ।
आतिथ्यं तव दृष्ट्वैवं परितुष्टं मनो मम
॥३६॥इति श्रुत्वा तु तद्ब्राह्मीं स्मयन्निव प्रसन्नधीः ।
कोऽसि कस्यासि किं नाम किं कार्यं तव वर्तते
॥३७॥इति तं परिपप्रच्छ जानन्नपि मुनिस्तदा ।
राजोवाच ।
राज्ञां स्वकार्यकर्तॄणां भवादृशनिरीक्षणात्
॥३८॥नान्यत् प्रयोजनमुरूश्रेयसाऽजनि तत्स्फुटम् ।
कृतवीर्यसुतोऽहं च कार्तवीर्य इति श्रुतः
॥३९॥अनुज्ञातो गमिष्यामि ततोऽहं नगरं प्रति ।
मुनिरुवाच ।
मयाऽश्रावि महाकीर्तिस्तव राजन्यसत्तम
॥४०॥आसीत् त्वद्दर्शनाकाङ्क्षा जाता पुर्ण्यन सत्फला ।
देह आत्मा तपो ज्ञानमाश्रमो मम साम्प्रतम्
॥४१॥अभूत् त्वदागमाद् राजन् सार्थकाः सर्वसम्पदः ।
अकृत्वा भोजनं किचित् कथं त्वं गन्तुमर्हसि
॥४२॥मम श्लाघा भवेल्लोके न्यूनं किं तव विद्यते ।
किञ्चिद् भुक्त्वा व्रज विभो सनाथं कुरु मां प्रभो
॥४३॥राजोवाच
सत्यं भोजनकालोऽस्ति भोक्तव्यं च तवाज्ञया ।
अन्नाभावे श्रोत्रियाणां जलं याच्च पिबेदपि
॥४४॥तथाऽप्येतान् विहायाहं सैनिकान् गणनातिगान् ।
जलं पातुं न शक्नोमि कथं भोक्तुं समुत्सहे
॥४५॥जानेऽहं मनसा ब्रह्मन् न शक्तिः सर्वभोजने ।
भवद्दर्शनमात्रेण कृतकृत्यो व्रजेऽधुना
॥४६॥मुनिरुवाच
चिन्तां मा कुरू राजर्षे भोजयिष्ये ससैनिकम् ।
चतुर्विधेन चान्नेन किमसाध्यं तपस्विनाम्
॥४७॥गृहे ते वाहिनी या स्यात् तामप्याकारय प्रभो ।
क्षणं विश्राम्यतां तीरे नद्याश्चारुतरे शुभे
॥४८॥यावत् सिद्धं भवेदन्नं पश्चाद् द्रक्ष्यसि कौतुकम् ।
क उवाच ।
अन्तः स विस्मयाविष्टो जगाम कृतवीर्यजः
॥४९॥वाक्यमाकर्ण्य तु मुनेर्नदीतीरं सुशोभनम् ।
मुनि पत्नीं समाहूय वृत्तान्तं तं जगाद ताम्
॥५०॥आहूय कामधेनुं तौ पुपूजतुः क्षणेन ताम् ।
प्रार्थयामासतुरुभौ लज्जां नौ रक्ष धेनुके
॥५१॥असङ्ख्यातबलो राजा भोजनाय निमन्त्रितः ।
यथारूचि भवेत्तस्य स सैन्यस्य भुजिः शुभे
॥५२॥तथा कुरू क्षणेन त्वं नो चेत् सत्यं लयं व्रजेत ।
अकीर्तिश्च भवेल्लोके यथेच्छसि तथा कुरू
॥५३॥एवं सम्प्रार्थिता ताभ्यां कामधेनुर्महापुरम् ।
निर्माय स्वप्रभावेण नानामन्दिरसुन्दरम्
॥५४॥नानारत्नमयस्तम्भशोभि नानासभागृहम् ।
नानापुष्पलताचारू वाटिकाराममण्डितम्
॥५५॥नानाध्वजपताकाढ्यं नानावादित्रनिस्वनम् ।
अष्टापदानां भाण्डानां नाना पङ्क्तिविराजितम्
॥५६॥चतुर्विधान्नसम्पन्नं नानाभोजनपङ्क्तिमत् ।
महातोरणशोभाढ्यं परिखावलयाङ्कितम्
॥५७॥अनेकदासदासीभिर्विलसच्चारू वेदिकम् ।
निवारयन्ति लोकांश्च यत्र तत्र स्थिता नराः
॥५८॥पुरो गन्तुं न चाज्ञाऽस्ति जमदग्निमुनेरिति ।
परिविष्टेषु पात्रेषु सङ्ख्यातीतेषु सर्वतः
॥५९॥दीपप्रभाभासुरेषु नानाव्यञ्जनशालिषु ।
सूपपायसपक्वान्नपञ्चामृतयुतेषु च
॥६०॥सखाद्यलेह्यचोष्यादि पेयपङ्क्तिविराजिषु ।
सामुद्रपक्वनिम्बाम्रामृत बिल्वादिशालिषु ।
चन्द्रैलाहिङ्गुमारीच क्वथिकापात्रशालिषु
॥६१॥सिद्धेषु पात्रेषु मुनिस्तदाऽसावाकारयच्छिष्यगणं तदानीम् ।
श्रीकामधेनोः परिपूर्ण तोषाद् भोक्तुं ससैन्यं कृतवीर्यपुत्रम्
॥६२॥इति श्रीगणेशपुराणे उपासनाखण्डे जमदग्निमहिमावर्णनं नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥