त्रिचत्वारिंशत्तमोऽध्यायः
ब्रह्मोवाच
अयुध्येतां द्वन्द्वशोऽथ गिरिशासुर नायकौ ।
षण्मुखेन प्रचण्डश्च नन्दिना चण्ड एव च
॥१॥युयुधे पुष्पदन्तोऽपि भीमकायेन वीर्यवान् ।
भृशुण्डी कालकूटेन विषवत्प्राणहारिणा
॥२॥अयुध्येतां वीरभद्रवज्रदंष्ट्रौ महाबलौ ।
इन्द्रोऽपि युयुधे तत्र दैत्यामात्येन वीर्यवान्
॥३॥दैत्यपुत्रेण बलिना जयन्तो युद्धदुर्मदः ।
काव्येन युयुधे तत्र सुराचार्योऽस्त्रवित्तमः
॥४॥देवानां चैव दैत्यानामेवं द्वन्द्वान्यनेकशः ।
वर्णितुं नैव शक्यानि मया वर्षं शतैरपि
॥५॥रथिनो रथिभिः सार्धं गजिनौ गजिभिः सह ।
अश्वारोहाः स्वसदृशैः पदाताश्च पदातिभिः
॥६॥युयुधः संयुगे घोरे नानावाद्य निनादिते ।
हेषितैर्बृहितैः क्ष्वेडैर्नेमिनादैश्च शब्दिते
॥७॥केचिच्च मल्लयुद्धेन युयुधुर्विविधेन तु ।
जघ्नुरङ्गानि चाङ्गेषु त्यक्त्वा शस्त्राणि संयुगे
॥८॥ततः प्रचण्डो नवभिस्ताडयामास षण्मुखम् ।
आकर्णाकर्षनिसृतैर्दृढैर्बाणैः शिलाशितैः
॥९॥अप्राप्तानेव तांश्छित्त्वा शरैः सन्नतपर्वभिः ।
कार्तिकेयः पञ्चभिस्तु ताडयामास सायकैः
॥१०॥सम्मूर्छितोऽपतद्भूमौ प्रचण्डो भ्रान्तमानसः ।
नन्दिनाऽपि हतश्चण्ड पञ्चभिर्निशितैः शरैः
॥११॥मूर्छामवाप सहसा पतितो धरणीतले ।
भीमकायः पुष्पदन्तमविध्यद्द्शभिःशरैः
॥१२॥छेदयामास समरे स्वशरैर्निशितैः स तान् ।
त्रिभिरेवाहनत् च सोऽपि भूतलमाश्रितः
॥१३॥कालकूटं भृशुण्डीस्तु पातयामास पञ्चभिः ।
शरैर्महाबलस्तत्र वीरभद्रौ रूषा युतः
॥१४॥वज्रदंष्ट्र ततो जघ्ने चतुर्भिर्निशितैः शरैः ।
तान्निवार्य स्वयं जघ्ने वीरभद्रं त्रिभिः शरैः
॥१५॥तानापतत एवाशु वीरभद्रोऽच्छिनत् त्रिभिः ।
पातयामास वेगेन वज्रदंष्ट्रं त्रिभिःशरैः
॥१६॥इन्द्रोऽपि वज्रपातेन दैत्यामात्यं न्यपातयत् ।
उद्यम्य निशितं खड्गं दैत्यपुत्रः समाययौ
॥१७॥हन्तुकामो जयन्तं तं वीरेषु पतितेषु च ।
तं निरीक्ष्य तथा यान्तं खड्गं चिच्छेद पत्रिणा
॥१८॥जयन्तोऽभ्यहनच्छीघ्रं दैत्यसूनुं त्रिभिः शरैः ।
तैराहतो वमन् रक्तं न्यपतन् मोहसंयुतः
॥१९॥एवं सर्वेषु सैन्येषु प्रभग्नेषु समन्ततः ।
दृष्ट्वा पलायनपरान् दैत्यान् देवगणार्दितान्
॥२०॥अधावन् पृष्ठतः केचित् प्रमथा जयशालिनः ।
एवं जयत्सु देवेषु स्वसैन्ये विद्रुतेऽपि च
॥२१॥आययौ स्वयमेवेशं त्रिपुराधिष्ठितोऽसुरः ।
शस्त्रयुद्धं पुरा कृत्वा युध्येतामस्रतो ह्युभौ
॥२२॥वारूणास्त्रं जहौ दैत्यो वृष्टिर्घोरतराऽभवत् ।
नीहारबहुले युद्धेन प्राज्ञायत किञ्चन
॥२३॥क्वचिद् विद्युत्प्रकाशेन स्वपरज्ञानकारिणा ।
युद्धमासीत् तु तुमुलङ्घोररूपं दुरासदम्
॥२४॥विलोक्य सैन्यं तत्सर्वं वृष्टिवातप्रपीडितम् ।
शिलापातभयात् याते स्वसैन्ये तु दिशोदश
॥२५॥वायव्यमस्त्रं गिरिशो मोचयामास सत्वरम् ।
महावातान्महामेघा विशीर्णाः खण्डशोऽम्बरे
॥२६॥वातेन घूर्णिता सेना दैत्यानां सर्वतो दिशम् ।
जगलुः पक्षिपिच्छानि वीरोष्णीषाणि दूरतः
॥२७॥पतिताश्चूर्णिताः केचिद् रथाश्वगजपत्तयः ।
उन्मूलिता लता वृक्षाश्छादयन्ति स्म सैनिकान्
॥२८॥पन्नगास्त्रेण तं वायुं तथा दैत्यो न्यवारयत् ।
आकर्ण धनुराकृष्य तृणाद्बाणं प्रगृह्य च
॥२९॥मन्त्रयन्ननलास्त्रेण शिवसैन्ये न्यपातयत् ।
अङ्गारवृष्टिः सहसा पतिता सर्वदाहिनी
॥३०॥प्रलयं मेनिरे सर्वे ज्वाला मालाभिरर्दिताः ।
ज्वालाभ्यो दीप्यमानाभ्यो महाभीतिकरः पुमान्
॥३१॥आविरासीन् महाकायो लिखन् मूर्धा नभस्तलम् ।
दंष्ट्राकरालवदनो महारावः क्षुधातुरः
॥३२॥लालयन् रसनां घोरां शतयोजनविस्तृताम् ।
नासापवनवेगेन भ्रामयन् कुञ्जरान् रणे
॥३३॥भक्षयामास तां सेनामुरगामिव पक्षिराट् ।
अपीपलद् भर्गसेना तेन पुंसा प्रपीडिता
॥३४॥शिवपृष्ठं समासाद्य रक्ष रक्षेति चाब्रवीत् ।
माभैष्टेत्यभयं तस्यै दत्त्वा वह्निं न्यवारयत्
॥३५॥पर्जन्यास्त्रप्रपातेन तत्क्षणाद्गिरिजापतिः ।
बाणेनैकेन तं घोरं पुरूषं स न्यपातयत्
॥३६॥तत उत्थाय पुरुषो बभक्ष शिवसैनिकान् ।
ययुः पलायनपराः प्रमथा भयविव्हलाः
॥३७॥स्खलन्तो निपतन्तश्च निश्वसन्तश्च कम्पिरे ।
शिवोऽपि निःसहायत्वाद् दरीमेवान्यपद्यत
॥३८॥षडाननादयो वीरा अनुसतस्रुस्तमेव हि ।
जिघृक्षुर्गिरिजां दैत्यो विचिन्त्यैकाकिनीं गिरौ
॥३९॥विहाय रणभूमिं तु ययौ कैलासमेव सः ।
दूराद् दृष्ट्वा तमायान्तं चकम्पे गिरिजा तदा
॥४०॥उवाच पितरं गत्वा दैत्यो मां किं नु नेष्यति ।
तस्या द्वचनं श्रुत्वा नीत्वा तां दुर्गमां गृहाम्
॥४१॥अविज्ञातां स्वेतरेण स्थापयामास निर्भयाम् ।
सोऽपि दैत्यस्ततो हैमं गिरिं तद्ग्रहणेच्छया
॥४२॥आगतो न ददर्शाथ गिरिजां क्वापि सत्तम ।
भ्रमन् ददर्श तत्रैकां मूर्ति चिन्तामणेः शुभाम्
॥४३॥सहस्रसूर्यसङ्काशां नानालङ्कारशोभिनीम् ।
त्रैलोक्यसुन्दरां सद्यो गृहीत्वा स्वस्थलं ययौ
॥४४॥नानावादित्रनिर्घोषैः स्तुवद्भिर्वन्दिभिर्वृतः ।
ततः पातालमगमत् सर्वत्र विजयी बली
॥४५॥गच्छतस्तस्य दैत्यस्य हस्तेऽप्यन्तर्हिता तदा ।
मूर्तिश्चिन्तामणेः सा तु तदद्भुतमिवाभवत्
॥४६॥तमेवाशकुनं मत्वा तत्पुरं पुनराविशत् ।
अत्यन्तं विमनाश्चिन्तां दुरुतां समुपागतः
॥४७॥इति श्रीगणेशपुराणे उपासनाखण्डे त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३ ॥