मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 66

3
उपासनाखण्डः · 66

षट्षष्टितमोऽध्यायः

कौडिन्य उवाच

धरामात्रासनौ तौ तु नभःप्रावारसंयुतैः ।

दिगम्बरो सर्वधातुसंस्पर्शवर्जितावुभौ

॥१॥

अयाचितभुजौ नित्यं जलेनैवाखिलाः क्रियाः ।

द्विजरूपधरोऽपश्यत् कुर्वाणौ सत्त्वशुद्धये

॥२॥

गृहं च मक्षिकापुञ्जैर्मशकैरभितो वृतम् ।

मूर्तिं च गणनाथस्य पूजितां पुष्पपल्लवैः

॥३॥

अनन्यभक्त्या ताभ्यां च तत्पराभ्यां ददर्श सः ।

तावूचे श्रूयतां वाक्यं यन्मया प्रोच्यतेऽनघौ

॥४॥

मिथिलाधिपतेः कीर्तिं श्रुत्वाहं क्षुधितो भृशम् ।

तृप्तिकामः समायातो न स तृप्तिं समाकरोत्

॥५॥

कर्मणा दाम्भिकेनैव सत्त्वं न परिरक्ष्यते ।

मम तृप्तिकरं किञ्चिद् गृहे चेदस्ति दीयताम्

॥६॥

दम्पती ऊचतुः

चक्रवर्ती नृपो योऽसौ तेन तृप्तिर्न ते कृता ।

आवाभ्यां तु दरिद्राभ्यां किं देयं तृप्तिकारकम्

॥७॥

नदी नद जलैरब्धिरसङ्ख्यैर्यो न पूर्यते ।

बिन्दुमात्रेण पयसा स कथं पूर्यते वद

॥८॥

द्विज उवाच

भक्त्या दत्तं स्वल्पमपि बहुतृप्तिकरं मम ।

अभक्त्या वाऽथ दम्भेन बहु दत्तं वृथा भवेत्

॥९॥

तावूचतुः

आवयोर्न गृहे किञ्चिच्छपथस्ते द्विजोत्तम ।

पूजायै गणनाथस्य प्रातर्दूर्वाङ्कुरा हृताः

॥१०॥

पूजितो गणनाथस्तैस्तत एकोऽवशिष्यते ।

द्विज उवाच ।

भक्त्या दत्तः स एकोऽपि तृप्तये स्यात् प्रदीयताम्

॥११॥

कौडिन्य उवाच

विरोचना ददौ तस्मै श्रत्वा वाक्यं तदीरितम् ।

एकं दूर्वाङ्कुरं भक्त्या तेन तृप्तोऽभवद्विजः

॥१२॥

शाल्यन्नं पायसान्नं च नाना पक्वान्नमेव च ।

व्यञ्जनानि च सर्वाणि लेह्यचोष्यान्यनेकधा

॥१३॥

विरोचना ददौ कल्प्य तस्मिन् दूर्वाङ्कुरे च तम् ।

गृहीत्वा ब्राह्मणस्तं तु बभक्ष परया मुदा

॥१४॥

तस्मिन् दूर्वाङ्कुरे भक्त्या दत्ते तेनाथ भक्तितः ।

प्रशशाम द्विजस्यास्य तत्क्षणाज्जठरानलः

॥५॥

तृप्तिश्च परमा तेन प्राप्ता तत् क्षणमात्रतः ।

आलिलिङ्ग त्रिशिरसं तृप्तो हर्षाद् द्विजस्तदा

॥१६॥

तत्याज कुत्सितं रूपं प्रकटोऽभूद गजाननः ।

चतुर्भुजोऽरविन्दाक्षः शुण्डादण्डविराजितः

॥१७॥

कमलं परशुं मालां दन्तं करतलैर्दधत् ।

महार्हमुकुटो राजत्कर्णकुण्डलमण्डितः

॥१८॥

दिव्यवस्त्रपरीधानो दिव्यगन्धानुलेपनः ।

उवाच तौ प्रसन्नात्मा दम्पती स गजाननः

॥१९॥

वृणीतं तं वरं शीघ्रं मनसा यं यमिच्छथः ।

तावूचतुः ।

जन्मनी यत्र नौ स्यातां तत्र ते दृढभक्तिता

॥२०॥

मुक्तिर्वा दीयतां देव दुस्तराद् भवसागरात् ।

नावयोश्चित्तयोरन्यरपेक्षितमिभानन

॥२१॥

कौण्डिन्य उवाच

इति तद्वाक्यमाकर्ण्य तथेत्युक्त्वा गजाननः ।

पुनरालिङ्ग्य पिदधे भक्तं त्रिशिरसं मुदा

॥२२॥

एतस्मात्कारणाद् दूर्वाङ्कुरोऽस्मै दीयते मया ।

असङ्ख्यभक्षणाद् यो न तृप्तिं देवः समाययौ

॥२३॥

दूर्वाङ्कुरेण चैकेन स तृप्तिं परमां ययौ ।

इति ते कथितः सम्यगाश्रये महिमा शुभः ।

दूर्वासमर्पणभवः श्रवणात् सर्वकामदः

॥२४॥

इतिहासमिमं भक्त्या श‍ृणुते श्रावयेच्च यः ।

स पुत्र धनकामाढ्यः परत्रेह च मोदते

॥२५॥

गजानने लभेद् भक्तिं निष्कामो मुक्तिमाप्नुयात् ।

गणा ऊचुः ।

श्रुत्वापीत्थमितीहासमाश्रया संशयं पुनः

॥२६॥

प्रपेदे हृदि तं ज्ञात्वा कौण्डिन्यः पुनरब्रवीत् ।

आश्रये श‍ृणु मे वाक्यं संशयस्यापनुत्तये

॥२७॥

यद् ब्रवीमि हृदिस्थस्य मया ज्ञातस्य तेऽनघे ।

एकं दूर्वाङ्कुरं गृह्य गच्छ शीघ्रं बिडौजसम्

॥२८॥

वदाशीर्वचनं पूर्वं पश्चाद् याचस्व काञ्चनम् ।

दूर्वाङ्कुरेण तुलितं गृहीत्वा तदिहानय

॥२९॥

न न्यूनं नाधिकं ग्राहयं तस्य भाराच्छुभावने

॥३०॥

गणा ऊचुः

इति वाणीं तस्य श्रुत्वा गृहीत्वैकं तदाश्रया ।

दूर्वाङ्कुरं ययौ शक्रं भर्तृवाक्य परायणा

॥३१॥

इति श्रीगणेशपुराणे उपासनाखण्डे दूर्वामहिमाकथनं नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥