मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 69

3
उपासनाखण्डः · 69

एकोनसप्ततितमोऽध्यायः

शूरसेन उवाच

ब्रह्मणा कथमादिष्टं कृतवीर्याय सिद्धिदम् ।

तन्ममाचक्ष्व सङ्कष्ट चतुर्थी व्रतमुत्तमम्

॥१॥

इन्द्र उवाच

सत्यलोके सुखासीनं सर्वज्ञं चतुराननम् ।

कृतवीर्यपिता गत्वा पप्रच्छ प्रणतो नृपः

॥२॥

कृतवीर्यपिता उवाच

देवदेव जगद्धातः प्रणतार्तिनिवारण ।

वर्तते हृदये यन्मे पृच्छामि त्वां वदस्व तत्

॥३॥

आपत्सु वर्तमानानां नृणां व्याकुलचेतसाम् ।

चिन्तया व्यग्रमनसां वियोगे सुहृदां तथा

॥४॥

दुर्लभप्राप्तये नॄणां कार्यसिद्धिः कथं भवेत् ।

अर्थसिद्धिः कथं नित्यं पुत्रसौभाग्यसम्पदाम्

॥५॥

सर्वसङ्कष्टनाशार्थं कार्य किं मानवैः प्रभो ।

ब्रह्मोवाच ।

श‍ृणु राजन् प्रवक्ष्यामि सर्वसिद्धिप्रदं व्रतम्

॥६॥

यस्यानुष्ठानमात्रेण चिन्तितं प्राप्नुयान्नरः ।

ओषधीभिः शुक्लतिलैर्दिवा स्नायात् प्रसन्नधीः

॥७॥

सङ्कल्पं कारयेत् सम्यग् ध्यात्वा देवं गजाननम् ।

गणेशं पूजयेद् भक्त्या मन्त्रैरागमसम्भवैः

॥८॥

कृष्णपक्षे चतुर्थ्यां च निशि चन्द्रोदयेऽपि च ।

नृप उवाच ।

कथं सम्पूजयेद् ब्रह्मन् देवदेवं गजाननम्

॥९॥

विस्तरेण मम ब्रूहि प्रणयात् परिपृच्छते ।

ब्रह्मोवाच ।

नित्यकर्म समाप्याऽथ निशायामुदये विधोः

॥१०॥

शुचौ देशे गोमयेन लिप्ते मण्डपिकान्विते ।

तत्र पीठं गणेशस्य पूजयेत् कुङ्कुमाक्षतैः

॥११॥

स्थापयेत् कलशं तत्र पञ्चरत्नसमन्वितम् ।

तस्योपरि न्यसेत्पात्रं सौवर्णंकलशान्वितम्

॥१२॥

तदभावे तु रौप्यं वा ताम्रं वैणवमेव च ।

तस्योपरि न्यसेद्वस्त्रं क्षौमं वा शक्तिसंयुतः

॥१३॥

तस्योपरि लिखेद्यन्त्रमागमोक्तविधानतः ।

तत्र मूर्तिं गणेशस्य सौवर्णीं लक्षणान्विताम्

॥१४॥

ध्यानम् ।

एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।

लम्बोदर विशालाक्षं ज्वलत्पावकलोचनम्

॥१५॥

आखुपृष्ठसमारूढं चामरैर्वीजितं गणैः ।

शेषयज्ञोपवीतं च चिन्तयेत् तं गजाननम्

॥१६॥

आवाहनम् ।

आगच्छ देवदेवेश सङ्कटान्मां निवारय ।

यावद् व्रतं समाप्येत तावत् त्वं सन्निधौ भव

॥१७॥

सहस्रशीर्षेत्यावाहनम् ।

(पुरुषसूक्ते ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।

स भूमिँ सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥

) आसनम् ।

गणाधीश नमस्तेऽस्तु सर्व सिद्धिप्रदायक ।

आसनं गृह्यतां देव सङ्कटान्मां निवारय

॥१८॥

अथवा पुरुष एवे० आसनम् ।

(पुरुष एवेदँ सर्वं यद्भूतं यच्च भाव्यम् ।

उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥

) पाद्यम् ।

उमापुत्र नमस्तेऽतु नमस्ते मोदकप्रिय ।

पाद्यं गृहाण देवेश सङ्कटं मे निवारय

॥१९॥

एतावानस्य पाद्यम् ।

(एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।

पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥

) अर्घ्यम् ।

लम्बोदर नमस्तेऽस्तु रत्नयुक्तं फलान्वितम् ।

अर्घ्यं गृहाण देवेश सङ्कटं मे निवारय

॥२०॥

त्रिपादूर्ध्वेत्यर्घ्यम् (त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः ।

ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥

) आचमनीयम् ।

गङ्गादि सर्वतीर्थेभ्यः आहृतं तोयमुत्तमम् ।

गृहाणाऽऽचमनीयार्थं सङ्कटं मे निवारय

॥२१॥

तस्माद्विराळ् आचमनीयम् ।

(ततो विराडजायत विराजो अधि पूरुषः ।

स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥

) पञ्चामृतम् ।

पयो दधि घृतं चैव शर्करामधुसंयुतम् ।

पञ्चामृतं गृहाणेदं सङ्कटं मे निवारय

॥२२॥

अथवा पयः पृथिव्याम् ।

स्नानम् ।

नर्मदा चन्द्रभागा च गङ्गासङ्गमजैर्जलैः ।

स्नापितोऽसि मया भक्त्या सङ्कटं मे निवारय

॥२३॥

यत्पुरुषेणेति ।

(यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।

वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥

) वस्त्रयुग्मम् ।

इभवक्त्र नमस्तुभ्यं गृहाण परमेश्वर ।

वस्त्रयुग्मं गणाध्यक्ष सङ्कटं मे निवारय

॥२४॥

(तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।

तेन देवा अयजन्त साध्या ऋषयश्च ये ॥

) यज्ञोपवितम् ।

विनायक नमस्तुभ्यं नमः परशुधारिणे ।

उपवीतं गृहाणेदं सङ्कटं मे निवारय

॥२५॥

(तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् ।

पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥

) चन्दनम् ।

ईशपुत्र नमस्तुभ्यं नमो मूषकवाहन ।

चन्दनं गृह्यतां देवं सङ्कटं मे निवारय

॥२६॥

(तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।

छन्दाँसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥

) अक्षताः ।

घृतकुङ्कुमसंयुक्तास्तन्दुलाः सुमनोहराः ।

अक्षतास्ते नमस्तुभ्यं सङ्कटं मे निवारय

॥२७॥

अथवा अक्षन्नमीमदन्त ।

पुष्पम् ।

चम्पकं मल्लिका दूर्वाः पुष्पजातिरनेकशः ।

गृहाण त्वं गणाध्यक्ष सङ्कटं मे निवारय

॥२८॥

(तस्मादश्वा अजायन्त ये के चोभयादतः ।

गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥

) धूपम् ।

लम्बोदर महाकाय धूम्रकेतो सुवासितम् ।

धूपं गृहाण देवेश सङ्कटं मे निवारय

॥२९॥

(यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।

मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्येते ॥

) दीपम् ।

विघ्नान्धकारसंहारकारक त्रिदशाधिपः ।

दीपं गृहाण देवेश सङ्कटं मे निवारय ।

(ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ।

ऊरू तदस्य यद्वैश्यः पद्भ्याँ शूद्रो अजायत ॥

) नैवेद्यम् ।

मोदकापूपलड्डूकपायसं शर्करान्वितम् ।

पक्वान्नं सघृतं देव नैवेद्यं प्रतिगृह्यताम्

॥३१॥

(चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।

श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥

) फलम् ।

नारिकेल फलं द्राक्षां रसालं दाडिमं शुभम् ।

फलं गृहाण देवेश सङ्कटं मे निवारय

॥३२॥

(नाभ्या आसीदन्तरिक्षँ शीर्ष्णो द्यौः समवर्तत ।

पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँऽकल्पयन् ॥

) ताम्बूलम् ।

क्रमुकैला लवङ्गादि नागवल्लीदलानि च ।

ताम्बूलं गृह्यतां देव सङ्कटं मे विनाशय

॥३३॥

सर्वप्रीतिकरं देव हिरण्यं सर्वसिद्धिदम् ।

दक्षिणार्थं गृहाणेदं सङ्कटं मे विनाशय

॥३४॥

(सप्तास्यासन्निति परिधयस्त्रिः सप्त समिधः कृताः ।

देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥

) एकविंशतिदूर्वाङ्कुरमर्पणम् ।

ततो दूर्वाङ्कुरान् गृह्य विंशत्येकं च भक्तितः ।

एभिर्नामपेदैर्देवमर्चयेत् सु समाहितः

॥३५॥

दूर्वापणमन्त्राः ।

गणाधिपतये नमः ।

१. उमापुत्राय नमः ।

२. अघनाशनाय नमः ।

३. एकदन्ताय नमः ।

४. इभवक्त्राय नमः ।

५. मूषकवाहनाय नमः ।

६. विनायकाय नमः ।

७. ईशपुत्राय नमः ।

८. सर्वसिद्धिप्रदाय नमः ।

९. लम्बोदराय नमः ।

१०. वक्रतुण्डाय नमः ।

११. मोदकप्रियाय नमः ।

१२. विघ्नविध्वंसकर्त्रे नमः ।

१३. विश्ववन्द्याय नमः ।

१४. अमरेशाय नमः ।

१५. गजकर्णाय नमः ।

१६. नागयज्ञोपवीतिने नमः ।

१७. भालचन्द्राय नमः ।

१८. परशुधारिणे नमः ।

१९. विघ्नाधिपाय नमः ।

२०. विद्याप्रदाय नमः ।

२१. नीराजनम् ।

कर्पूरानलसंयुक्तं शेषाघौघविनाशनम् ।

नीराजनं गृहाणेश सङ्कटान्मां विमोचय

॥३६॥

पुष्पाञ्जलिः ।

चम्पकाशोकबकुलपारिजातभवैः शुभैः ।

पुष्पाञ्जलिं गृहाणेमां सङ्कटान्मां विमोचय

॥३७॥

(यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥

) स्तुतिः ।

त्वमेव विश्वं सृजसीभवक्त्र त्वमेव विश्वं परिपासि देव ।

त्वमेव विश्वं हरसेऽखिलेश त्वमेव विश्वात्मक आविभासि

॥३८॥

इति स्तुतिः ।

नमस्काराः ।

नमामि देवं गणनाथमीशं विघ्नेश्वरं विघ्नविनाशदक्षम् ।

भक्तार्तिहं भक्तिविमोक्षदक्षं विद्याप्रदं वेदनिधानमाद्यम्

॥३९॥

प्रदक्षिणाः ।

एवं स्तुवीत विधिवत् प्रणमेत पुनः पुनः ।

प्रदक्षिणां प्रकुर्वीत यथा शक्त्यैकविंशतिम्

॥४०॥

प्रार्थनाः ।

ये त्वामसम्पूज्य गणेश नूनं वाञ्छति मूढा विहितार्थसिद्धिम् ।

त एव नष्टा नियतं हि लोके ज्ञातो मयाते सकलः प्रभावः

॥४१॥

वायनम् ।

आचार्यस्त्वं द्विचाध्यक्ष सर्वसिद्धिप्रदायक ।

वायनं गृह्यतां ब्रह्मन् सङ्कटान्मां निवारय

॥४२॥

विशेषार्घ्यम् ।

फलपुष्पाक्षतैर्युक्तं जलं ते दक्षिणान्वितम् ।

विशेषार्घ्यं मया दत्तं सङ्कटान्मां निवारय

॥४३॥

इति षोडशोपचारार्चनम् ॥

ॐ नमो हेरम्ब मदमोदित मम सङ्कटं निवारय स्वाहा ।

इन्द्रादि लोकपालांश्च समन्तात् पूजयेत् सुधीः

॥४४॥

पक्वमुद्गतिलैर्युक्तान् मोदकान् घृतपाचितान् ।

भक्ष्यान्यन्यानि ताम्बूलं यथाशक्ति प्रकल्पयेत्

॥४५॥

ततो दूर्वाङ्कुरान्गृह्य विंशत्येकं च भक्तितः ।

एभिर्नामपदैर्देवमर्चयेत् सुसमाहितः

॥४६॥

गणाधिप नमस्तुभ्यमुमापुत्राभयप्रद ।

एकदन्तेभवक्त्रेति तथा मूषक वाहन

॥४७॥

विनायकेशपुत्रेति सर्वसिद्धि प्रदायक ।

लम्बोदर नमस्तुभ्यं वक्रतुण्डाघनाशन

॥४८॥

विघ्नविध्वंसकर्त्रेति विश्ववन्द्यामरेश्वर ।

गजवक्र नमस्तुभ्यं नागयज्ञोपवीतिने

॥४९॥

भालचन्द्र नमस्तुभ्यं नमः परशुधारिणे ।

विघ्नाधिप नमस्तुभ्यं सर्वविद्याप्रदायक

॥५०॥

एवं सम्पूजयद्देवं दूर्वाभिश्च पृथक् पृथक् ।

यदुद्दिश्य कृतं सम्यग्य यथाशक्ति प्रपूजनम्

॥५१॥

तेन तुष्टो भवाशु त्वं हृत्स्थान्कामान्प्रपूरय ।

विघ्नान्नाशय मे सर्वान् दुष्टांश्च समुपस्थितान्

॥५२॥

त्वत्प्रसादेन सर्वाणि कार्याणीह करोम्यहम् ।

शत्रूणां बुद्धिनाशं च मित्राणामुदयं कुरु

॥५३॥

इति विज्ञाप्य देवेशं प्रणिपत्य पुनः पुनः ।

ततो होमं प्रकुर्वीत शतमष्टोत्तरं व्रती

॥५४॥

मोदकैर्वायनं कार्यं व्रतसम्पूर्तिहेतवे ।

लड्डूकैर्वटकाद्यैर्वा त्रिसप्तफलसंयुतम्

॥५५॥

रक्तवस्त्रेण सञ्छाद्य स्वाचार्याय निवेदयेत् ।

गणाधिप नमस्तुभ्यं सर्व सङ्कल्पसिद्धिद

॥५६॥

वायनस्य प्रदानेन सङ्कटान्मां निवारय ।

इति वायनमन्त्रः ।

तिथ्यर्घ्यम् ।

कथां श्रुत्वा ततः पुण्यां दद्यादर्घ्यं समाहितः

॥५७॥

तिथीनामुत्तमे देवि गणेशप्रियवल्लभे ।

सङ्कटं हर मे देवि गृहाणार्घ्यं नमोऽस्तुते

॥५८॥

इति तिथ्यर्घः ।

देवार्घ्यम् ।

लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय ।

सङ्कटं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते

॥५९॥

इति देवार्घः ।

चन्द्रार्घ्यम् ।

चन्द्राय सप्तवारं तु मन्त्रेणानेन पार्थिव ।

क्षीरोदार्णवसम्भूत अत्रिगोत्रसमुद्भव ।

गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन्

॥६०॥

ततः क्षमापयेद्देवं ततो विप्रांश्च भोजयेत् ।

स्वयं भुञ्जीत तच्छेषं ब्राह्मेणभ्यो यदर्पितम्

॥६१॥

सप्तग्रासान् मौनयुक्तो यथाशक्त्या यथासुखम् ।

इत्थं कुर्यात्तु मासेषु चतुर्ष्वपि विधानतः

॥६२॥

इति श्रीगणेशपुराणे उपासनाखण्डे सङ्कष्टचतुर्थीव्रतान्तर्गत पूजाविधिर्नामैकोनसप्ततितमोऽध्यायः ॥ ६९ ॥