मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 83

3
उपासनाखण्डः · 83

त्र्यशीतितमोऽध्यायः

मुनिरुवाच

कस्मिन् स्थाने तपोऽकारि रामेण परमाद्भुतम् ।

तन्मे कथय लोकेश तृप्तिं मे नास्ति श‍ृण्वतः

॥१॥

क उवाच

मयूरेश्वर नाम्ना यत्क्षेत्रं ख्यातं चतुर्युगे ।

यत्रावतीर्णो देवेशो मयूरारुढ एव सः

॥२॥

कमलासूरनामानमहद् दैत्यपुङ्गवम् ।

यस्मान् मयूरमारूढो मयूरेश इति स्फुटम्

॥३॥

संस्तुतो देवमुनिभिर्लोके तां ख्यातिमागमत् ।

तत्रानुष्ठानमकरोदवाप परशुं ततः

॥४॥

स्वयं परशुरामोऽभून्नाम्ना ख्यातस्त्रिविष्टपे ।

इतिहासं प्रवक्ष्यामि श‍ृणु तं मुनिसत्तम

॥५॥

तारकोनाम दैत्योऽभून्महाबल पराक्रमः ।

दिव्यवर्ष सहस्रं स तपस्तेपे सुदारुणम्

॥६॥

ततः प्रसन्नो ब्रह्माऽस्मै ददौ सर्वाभयं द्विज ।

देवर्षियक्षगन्धर्वोरगराक्षसहस्ततः

॥७॥

तच्छस्त्रास्त्रगणान् मृत्युर्न ते क्वापि भवेदिति ।

उत्पत्स्यते यदा स्कन्दस्ततस्ते मरणं भवेत्

॥८॥

इति तद्वाक्यमाकर्ण्य बलगर्वसमायुतः ।

तारकोऽपीडयल्लोकांस्त्रैलोक्ये वसतो मुने

॥९॥

वेदाध्ययननिष्ठांश्च तपोऽनुष्ठानकारिणः ।

अग्निहोत्ररतानन्यान् कारागारेऽक्षिपद् द्विजान्

॥१०॥

सर्वान् राज्ञोऽथ नागांश्च वशे कृत्वा दिवं ययौ ।

इन्द्रादयस्तदा देवा हिमाचलगुहां गताः

॥११॥

तद् भायान्नाभवत् क्वापि यजनं पूजनं तथा ।

अहमेवेश्वरो देवो ब्राह्मणः कुलदेवता

॥१२॥

अहं नमस्य पूज्यश्च नान्यो जगति वर्तते ।

यश्चान्यान् प्रणमेत् क्वापि पूजयेद्वा कदाचन

॥१३॥

स दण्डयस्ताडनीयः स्याद् गच्छेद् वा यमसादनम् ।

एवं सर्वेषु लोकेषु ख्यापयामास दूततः

॥१४॥

ततः सर्वे जना रिक्ता जाताः सज्जनवर्जिताः ।

निःस्वाध्याय वषट्कारा यज्ञदानविवर्जिताः

॥१५॥

उच्छिन्नकुलधर्माश्च स्वाचाररहिताः खलाः ।

मुनयः साधवः सवै गिरिगव्हरमाश्रिताः

॥१६॥

देवं ते प्रार्थयामासुः कथं दैत्यो विवर्द्धितः ।

विना त्वां शरणं शम्भो यामः कं जगदीश्वरम्

॥१७॥

निर्माता रक्षिता धाता संहर्त्ता जगतां विभो ।

दावानलो वनमिव दहतेऽस्मान् स दर्पतः

॥१८॥

यदि ते सञ्जिहीर्षा स्यात् संहरस्व स्वयं जगत् ।

नोचेत् संहर दैत्यं त्वं तारकं सर्वपीडकम्

॥१९॥

एवं सम्प्रार्थ्य तेपुस्ते दुष्करं तप उत्तमम् ।

पत्रभक्ष्या वायुभक्ष्या निराहारा जलाशिनः

॥२०॥

एवं स्थितेषु मुनिषु तेनाज्ञातेषु दैत्यराट् ।

ऐन्द्रं पदं समास्थाय ब्रह्माणं समताडयत्

॥२१॥

विष्णुस्ततोऽगमत् क्षीरसागरं निद्रितुं मुने ।

त्यक्त्वा कैलासमगमच्छङ्करोऽपि गुहान्तरम्

॥२२॥

दिक्पाला दिग्गजाश्चापि नानागव्हरमाश्रिताः ।

तेषां स्थानेऽस्थापयत् स दैत्यानन्यांश्च दैत्यराट्

॥२३॥

अचलामचलस्तिष्ठन् पालयामास वै प्रजाः ।

गर्जते स्वस्वभावेन कम्पतेऽथ त्रिविष्टपम्

॥२४॥

तत इन्द्रादयो देवास्तुष्टुवुर्गिरिगव्हरे ।

गिरिशं गिरिजानाथं गिरा गम्भीरया मुदा

॥२५॥

देवा ऊचुः

देवाधिभूमिगगनेनशशिस्वरूप ! वाय्वग्निरूपयजमानजलस्वरूप ।

त्वं स्थावरानथ चरान् सृजसेऽवसीश ! त्वं सर्वमेव हरसे निजयेच्छयेश

॥२६॥

तन्नोचितं त्वयि परे परदुःखहारिन् ।

स्वीयं यशःपरगतं बहुधाऽद्य कर्तुम् ।

तन्नाशयैनमथवा सकलान् मुनींश्च (तन्नाशयैनमव तान्) देवान् द्वयोश्च भजने परिविष्टचित्तान्

॥२७॥

कं वा व्रजेम शरणं त्वदृते गिरीश ।

कं वा भजेम भगवंस्त्वदृते महेश ।

कं वा वदेम वृजिनार्दन पार्वतीश ।

को वाऽवितुं प्रभवति त्वदृतेऽखिलेश

॥२८॥

क उवाच

एवं ते तुष्टुवुर्यावच्छुश्रुवुस्तावदेव हि ।

नभोवाणीं सर्वदेवा हरपुत्रो यदा भवेत्

॥२९॥

तदाऽस्य नाशो भविता यत्नं कुरूत तत्र वै ।

नभोवाणीं समाकर्ण्य सर्वे हर्षसमन्विताः

॥३०॥

कैलासं देवनिलयमापुरिन्द्रादयः सुराः ।

नापश्यन् शङ्करं तत्र ददृशुः पुरतोऽमराः

॥३१॥

मूलप्रकृतिरूपां तामुमां सर्वे विजिज्ञपुः ।

तारके तारकज्ञानप्रदे तारय तारकात्

॥३२॥

त्रैलोक्यपीडकाद् दुष्टात् पदभ्रष्टान् मुनीन् सुरान् ।

तथा विचिन्त्यतां मातस्तस्य नाशो भवेद् यथा

॥३३॥

मातस्त्वां प्रणमाम देवजननीं त्रैलोक्यरक्षाकरे शर्वाणि त्रिपुरे परात्परकले ब्रह्मादिभिः संस्तुते ।

त्वं वेदैरनिरूपिते कुरू जगत् कल्याणमीशप्रिये स्वेच्छोपात्तसुविग्रहेऽसुरहरे वैश्वादिभूतेऽनघे

॥३४॥

क उवाच

एवं सम्प्रार्थिता देवी विश्वमाता जगाद तान् ।

नभोवाणी मया ज्ञाता शङ्करः शं करिष्यति

॥३५॥

सहैव यान्तु सर्वेऽपि मया यत्र स शङ्करः ।

परं नियममास्थाय कुरुते परमं तपः

॥३६॥

इत्युक्त्वा सर्वदेवान् सा भिल्लीवेशमधारयत् ।

यां दृष्ट्वा परमो योगी कामबाणार्दितो भवेत्

॥३७॥

देवा अपि तदा केजिज्जाता मदनविव्हलाः ।

उर्वशी मेनका रम्भा पूर्वचिती रतिस्तथा

॥३८॥

लज्जितास्तां निरीक्ष्यैव सर्वावयवसुन्दराम् ।

ते देवा सा च गिरिजा प्राप्ता ब्रह्मन् शिवान्तिकम्

॥३९॥

स्थाणुं तं स्थाणुभूतं च ध्याननिश्चललोचनम् ।

ध्यायन्तं मनसा ब्रह्म जपन्तं निष्परिग्रहम्

॥४०॥

ददृशुः सर्वदेवास्ते भिल्ली चापि त्रिलोचनम् ।

तत ऊचेऽखिलान् देवानुमोपायं सुखावहम्

॥४१॥

देहातीत इवास्तेऽसौ तपोनिष्ठः सदाशिवः ।

एतस्य देहभावार्थं कामं विज्ञापयन्तु च

॥४२॥

तेनेषुणा यदा विद्ध एकनिष्ठः सदाशिवः ।

यास्यते देहभावं स तदा कार्यं भविष्यति

॥४३॥

ततो देवाः सर्व एव कामं सस्मरूरुत्कटम् ।

समागतं तमूचुस्ते स्वकार्यं कृतनिश्चयाः

॥४४॥

प्रार्थयामासुरपरे स्वकार्याय मनोभवम् ।

विभुस्त्वमसि लोकानां चरेषु स्थावरेषु च

॥४५॥

त्वयैव जायते सृष्टिस्त्वया व्याप्तमिदं जगत् ।

अबलाः कामिनः सर्वे त्वयैव बलवत्तराः

॥४६॥

त्वया विना वृथा सर्वं जगत्स्थावरजङ्गमम् ।

अतस्त्वयैव कर्तव्यं सर्वेषां कार्यमुत्कटम्

॥४७॥

काम उवाच

यद्यप्यहं विसामग्निस्तथा युष्मत्प्रसादतः ।

करिष्यामि वचः कार्यमादेहपतनावधि

॥४८॥

सुमं धनुर्मराला ज्येषुः कटाक्षोऽथ योषितः ।

विजेष्येऽथापि सकलानमरान् शङ्करावधि

॥४९॥

वसन्तं प्रतिलभ्यैव सहायं सकलं सुराः ।

क उवाच ।

एवमुक्त्वा गतः कामो यत्रास्तेऽसौ सदाशिवः

॥५०॥

मोहितुं शङ्करं देवं देवानां कार्यसिद्धये

॥५१॥

इति श्रीगणेशपुराणे उपासनाखण्डे तारकोपाख्यानं नाम त्र्यशीतितमोऽध्यायः ॥ ८३ ॥