मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 23

3
उपासनाखण्डः · 23

भविष्यकथनं नाम त्रयोविंशोऽध्यायः

भृगुरुवाच

विश्वामित्रवचः श्रुत्वा भीमः पप्रच्छ तं पुनः ।

वैश्याचरितवार्तायाः श्रवणे परमोत्सुकः

॥१॥

सोमकान्त नृपश्रेष्ठ कथयामि श‍ृणुष्व तत् ।

भीम उवाच ।

श्रुतं दक्षस्य चरितं विश्रान्तं मम मानसम्

॥२॥

कथं कल्याणवैश्यस्य गतिरासीद् वदस्व ताम् ।

विश्वामित्र उवाच ।

श‍ृणुष्वैकमना भीम कथामेतां वदामि ते

॥३॥

बल्लालशापात् कल्याणदेहात् सुस्राव शोणितम् ।

असङ्ख्यक्षतसंयुक्तः स्रावो वाधिर्यमन्धता

॥४॥

मूकता पूतिगन्धित्वं जातं तस्य दुरात्मनः ।

ददर्शेन्दुमती तस्य दशामाकस्मिकीं ततः

॥५॥

किमिदं किमिदं कस्माज्जातमेवं शुशोच तम् ।

ज्ञानिनोऽस्य वदान्यस्य देवद्विजरतस्य च

॥६॥

धर्मशास्त्रार्थनिष्ठस्य स्वदारपरितोषिणः ।

अवस्थेयं कथं जाता मम भर्तुर्निरेनसः

॥७॥

मुनिरूवाच

एवं विलप्य बहुधा निश्वसन्ती पुनः पुनः

॥८॥

तेन बद्धं वने पुत्रं निशम्य रुदती मुहुः ।

पौरेः सह ययौ तत्र यत्र बद्धो वने सुतः

॥९॥

तत्र देवालयं देवं ददर्श गणनायकम्

॥१०॥

चतुर्भुजं त्रिनयनं सिन्दूदारुणविग्रहम् ।

बल्लालं च सुतं तत्र पूजयन्तं गजाननम्

॥११॥

मुक्तं निर्व्रणमव्यङ्गं निरीक्ष्य पुरवासिनः ।

उवाचेन्दुमती क्रुद्धा भर्त्सयन्ती पुनःपुनः

॥१२॥

कथं प्रतारिताऽतथ्यवादिभिर्भर्तृसन्निधौ ।

तादृशं तं परित्यज्य पुत्रस्नेहादिहागता

॥१३॥

पश्यन्तु देवभक्ति मे पुत्रं कुर्वन्तमीदृशीम् ।

मुनिरूवाच ।

विस्मिताः सर्व एवैते न किञ्चित् प्रोचुरण्वपि

॥१४॥

केचिदूचुर्महाभक्तेर्महिमा केन गम्यते ।

वीक्ष्य सिन्दूररक्ताङ्गं रक्तचन्दनचर्चितम्

॥१५॥

रक्ताम्बरं रक्तपुष्पमालाभिरूपशोभितम् ।

निर्ममं निरहङ्कारमशुण्डमिव विघ्नपम्

॥१६॥

निरीक्ष्य तादृशं पुत्रं त्यक्त्वा शोकं ननन्द सा ।

आलिलिङ्ग तदा तं तु स्नेहस्नुतपयोधरा

॥१७॥

आह तं स्वगृहं यावः पितुस्ते व्यसनं महत् ।

उत्थितं तत्र किञ्चित्तं कुरूपायं महामते

॥१८॥

आवां धन्यतमौ लोके ययोः पुत्रस्त्वमीदृशः ।

सर्वाङ्गक्षतवान् रक्तस्राववान् पूतिगन्धवान्

॥१९॥

श्यामास्यः कृशतायुक्तो बधिरोऽथान्ध एव च ।

एवं विधः पिता तेऽस्ति तं निवेदितुमागता

॥२०॥

पितृधर्मेण तेन त्वं ताडितोऽनर्थकृद् यदि ।

तत्रापराधो नैवास्ति श्रुतिस्मृतिपुराणतः

॥२१॥

पुत्रधर्मान्निरीक्षस्व कुर्वारोग्यविचारणम् ।

त्वया श्लाघ्यतमो लोके पिता ते पितृवत्सल

॥२२॥

मातापितृवचः कार्यं सत्पुत्रेण यशस्विना ।

पूजनं च तयोः कार्यं पोषणं पालनं तथा

॥२३॥

औषधान्मत्रततश्चापि देवताप्रार्थनादपि ।

उपायं कुरू पुत्र त्वं मयि दृष्टिं निवेशय

॥२४॥

यशस्ते भविता लोके सौभाग्यं मम बालक ।

इति तस्या वचः श्रुत्वा बल्लालो वाक्यमब्रवीत्

॥२५॥

बल्लाल उवाच

कस्य माता पिता कस्य कस्य पुत्रोऽथवा सुहृत् ।

विघ्नराजकृतं सर्वमानुषङ्ग्यखिलं स्मृतम्

॥२६॥

तस्मान्मम पिता भद्रे माता देवो विनायकः ।

यो यथा कुरुते कर्म स तथा फलमश्नुते ।

मया समर्पितो जीवो देवदेवे गजानने

॥२७॥

तेन जीवस्तथा ज्ञानं मम दत्तं सुभक्तितः ।

प्रासादभञ्जनाद् देवक्षेपणात् ताडयान्मम ।

विनायकातिभक्तस्य तथा प्राप्तं फलं शुभे

॥२८॥

विचार्यमाणे न त्वं मे माता वा स पिताऽपि च ।

सर्वस्य हि पिता देवो माता देवो गजाननः

॥२९॥

स एव ज्ञानदस्त्राता संहर्ता कालरूपवान् ।

सर्वस्वरूपो देवेन्द्रोब्रह्मविष्णुशिवात्मकः

॥३०॥

वृथा मे येन दुष्टेन ताडनं निर्घृणेन च ।

कृतं देवस्य विक्षेपः प्रासादस्यापि भञ्जनम्

॥३१॥

तस्यास्य दर्शने दोषः पतितस्य महान्भवेत् ।

स्नेहं त्यक्वा मदीयं त्वं पतिं स्वं परिषेवय

॥३२॥

विश्वामित्र उवाच

इति पुत्रवचः श्रुत्वा सा तं पुनरथाब्रवीत् ।

मातोवाच ।

कृपयाऽनुग्रहात्स्नेहादुच्छापं वक्तुमर्हसि

॥३३॥

पुत्र उवाच

भवान्तरेऽस्य जननी भवितासि वरार्थिनी ।

अयमेतादृशः पुत्रो भविता तव सुव्रते

॥३४॥

कल्याणनामा भविता वल्लभः क्षत्रियर्षभः ।

कमलेति च विख्याता नाम्ना त्वं च भविष्यसि

॥३५॥

दक्ष इत्येव पुत्रस्य नाम ख्यातं भविष्यति ।

ततो द्वादशवर्षाणि वल्लभस्तप्स्यते तपः

॥३६॥

अन्धतां बधिरत्वं च क्षतानि मूकतां तथा ।

व्यपनेतुं तु दक्षस्य परं नियममास्थितः

॥३७॥

अलब्ध्वा स फलं तस्मात्सुपुत्रां त्वां शुभानने ।

निराकरिष्यते गेहाद् विदेशस्था भविष्यसि

॥३८॥

कस्यचिद् द्विजवर्यस्य द्विरदाननचेतसः ।

दैवात् स्पर्शेन भद्रे ते सम्यक्पुत्रो भविष्यति

॥३९॥

तत्रैव गणनाथस्य दर्शनं च भविष्यति ।

तदा स दिव्यदेहत्वं प्राप्स्यते द्विरदाननात्

॥४०॥

इति सर्वं समाख्यातमुच्छापकारणं शुभे ।

भविष्यं कथितं तेऽद्य यथेष्टं गम्यता त्वया

॥४१॥

विश्वामित्र उवाच

एवं निराकृता तेन जननी निरगात्ततः ।

दुःखशो समायुक्ता किञ्चिद्धर्षयुताऽपि च

॥४२॥

स चारुरोह तद्दिव्यं विमानं भक्तिभावितम् ।

गजाननेन विहितं बल्लालोऽथाऽगमद्दिवम्

॥४३॥

इति ते सर्वमाख्यातं यत् पृष्टोऽहमिह त्वया ।

या गतिस्तेन वैश्येन सम्प्राप्ता जन्मनोर्द्वयोः

॥४४॥

यथा जगाद बल्लालः सर्वं तदभवत्तदा ।

सा जज्ञे कमला भूत्वा सोऽभवत् क्षत्रियर्षभः

॥४५॥

इति श्रीगणेशपुराणे उपासनाखण्डे भविष्यकथनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥