मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 8

3
उपासनाखण्डः · 8

नाना पक्षिनिवारणं नामाष्टमौऽध्यायः

भृगुरुवाच

इति तेनोदितं वाक्यं मुहुर्ग्लानिं प्रकुर्वतः ।

करुणायुतमाकर्ण्य नोद्भिन्नं हृदयं तव

॥१॥

वज्रात् सारतरं किंन्नु ब्रह्मणा त्वयि निर्मितम् ।

हिंसनाद् बहुजन्तूनां मनुष्याणां सहस्रशः

॥२॥

अतिनिष्ठुरतां प्राप्तं कृतघ्नस्येव मानसम् ।

अवोचस्त्वं ततस्तन्तु कृतान्त इव निष्ठुरः

॥३॥

चोर उवाच

किं ते वाक्यचयैर्विप्रः ! वृथा मयि नियोजितैः ।

अश्रोतरि च पाण्डित्यं न्युब्जकुम्भे यथा जलम्

॥४॥

क्वेयं मम मतिर्मूढ ! क्वोपदेशस्तवाप्ययम् ।

तत्त्वचिन्तेव मधुपे साम्प्रतं मे न रोचते

॥५॥

अर्थासक्तय न क्वापि पितृबन्धुविचारणा ।

यथाकामातुरस्यापि न भीतिर्हींश्च विद्यते

॥६॥

शुद्धिः काकै द्यूतकारे सत्यं धैर्यं नपुंसके ।

कामशान्तिः स्त्रियां सर्पे क्षमो दृष्ट्वा त्वया नु किम्

॥७॥

अन्तिके त्वं निसृष्टोऽसि व्यापाररहितस्य मे ।

विधात्रा दैवयोगेन न त्वां मुञ्चामि कर्हिचित्

॥८॥

भृगुरूवाच

इत्युक्त्वा निशितं खड्गं हस्त आदाय दक्षिणे ।

चकर्ताऽथ शिरस्तस्य बिडाल इव मौषकम्

॥९॥

एवं ते ब्रह्महत्यानां सङ्ख्यां कर्तुं न शक्यते ।

स्रीबालवृद्धजन्तूनां हत्यानां च विशेषतः

॥१०॥

सङ्ख्याता परपापानां विभागी जायते यतः ।

ततो बहुतिथे काले गते कामन्द ! ते जरा

॥११॥

अगताऽथ कफो ग्लानिः स्वेदोहिक्काऽथवेपथुः ।

अभूत् तन्द्री चोपविष्टे प्रसुप्ते न च साऽभवत्

॥१२॥

अनादरं च चक्रुस्ते पुत्रां दास्योऽथ सेवकाः ।

सुहृदश्व सुताश्वापि नप्तारोऽथापि मित्रकाः

॥१३॥

एक एवाऽभवत्तत्र दृष्ट आप्तो रहस्यकृत् ।

अनिवार्यगतिर्विप्रः स चापि प्रेषितस्त्वया

॥१४॥

आकारयितुं सर्वांस्तान मुनीन् काननवासिनः ।

ते चापि त्वद्भयादेव द्विजवाक्यात् समागताः

॥१५॥

अब्रवीस्तान् नमस्कृत्य मत्तो दानानि गृह्यताम् ।

तेऽब्रुवन् न च गृह्णीमो दानानि पतितस्य ते

॥१६॥

याजनाध्यापनाद् यौनात् सम्बन्धात् भाषणादपि ।

परं सञ्चरते पापं सहयानासनाशनात्

॥१७॥

इति ते भाषमाणास्त्वां गत्वा च निजमाश्रमम् ।

सस्नुः सचैलं सर्वेऽपि पावमानीस्ततोऽजपन्

॥१८॥

ततोऽनुतापो मनसि जातः कामन्द ते भृशम् ।

आमयात् स्वजनैस्त्यागाद् ब्राह्मणैः परिवर्जनात्

॥१९॥

जीर्णदेवालयोद्धारेऽभवत्ते मतिरूर्जिता ।

धनं स्वं विपुलं वीक्ष्य कुप्यरत्नादिसंयुतम्

॥२०॥

ततोऽनादिः परामूर्तिर्गणेशस्य वने शुभा ।

जीर्णदेवालये क्षुद्रे स्थिता ते कथिता द्विजैः

॥२१॥

ततोऽतिविस्तृतं दीर्घं चतुस्तोरणसंयुतम् ।

चतुर्द्वारं सुरूचिरं चतुःशिखरशोभितम्

॥२२॥

नानास्तम्भचितं नानावेदिभिः परिवारितम् ।

मुक्ताप्रवालरत्नाद्यैः खचितं रूचिराङ्गणम्

॥२३॥

नानापुष्पद्रुमयुतं नानाफलद्रुमैश्चितम् ।

चतुर्दिक्षु चारुवारिमयवापिविराजितम्

॥२४॥

प्रासादं निर्मितवतस्तद्द्रव्यं ते व्ययं गतम् ।

किञ्चित् स्त्रिया च पुत्रश्च सुहृद्भिर्बन्धुभिर्हृतम्

॥२५॥

ततो नातिचिरे काले पञ्चत्वं च गतो भवान् ।

याम्यदूतैः कशाघातैर्बद्धः सन्ताडितो भृशम्

॥२६॥

कण्टकैर्विद्धसर्वाङ्गः शिलायां पोथितोऽपिच ।

मज्जितो नरके घोरे पूयशोणितकर्दमे

॥२७॥

एवं नीतस्तु तैर्दूतैश्चित्रगुप्तयमान्तिके ।

यमेन पृष्टः किं पुण्यमुत भोक्ष्यसि पातकम्

॥२८॥

त्वमवोचः पुण्यमहं पूर्वं भोक्ष्यामि सूर्यज ।

ततः सौराष्ट्र देशेत्वं राजत्वेन विनिर्मितः

॥२९॥

इति ते कथितं पूर्वजन्म पापकरं मया ।

शरणागतकारुण्यात् तपोबलसमाश्रयात्

॥३०॥

कान्तप्रासादकरणात् सोमकान्तोऽभवो नृपः ।

कान्तया कान्ततरया भासि कान्त्या शशी यथा

॥३१॥

सूत उवाच

भृगुणाऽभिहितं श्रुत्वा सोमकान्तो नृपाधमः ।

तद्वाक्ये संशयापन्न आसीदश्मेव निष्क्रियः

॥३२॥

वेदशास्त्रार्थ विदुषो भूतभाविभवद्विदः ।

तपस्विनो भृगोर्वाक्ये यतः स संशयं दधौ

॥३३॥

निरगन् क्षणमात्रेण तस्याङ्गात् पक्षिणो भृशम् ।

नानावर्णाकृतिधरा बभक्षुर्नृपतिं तदा

॥३४॥

उड्डीयोड्डीयचञ्चच्वग्रैर्ददंशुर्नृपशुं दृढैः ।

उत्कृत्योत्कृत्य मांसानि जक्षुस्ते मुनिसन्निधौ

॥३५॥

ततोऽतिदुःखिततनुः शरणं पुनरागतः ।

अवदद्दीनया वाचा भृगुं ज्ञानतपोनिधिम्

॥३६॥

राजोवाच

त्वद्वने जातिवैराणां परस्पर भयं न हि ।

त्वत्समक्षं कथमिमे मृतं मां मारयन्ति च

॥३७॥

त्वत्पादप्रवणं दीनं सकुष्ठं शरणागतम् ।

इदानीं मोचय मुने सर्वंसत्त्वाभयङ्कर

॥३८॥

सूत उवाच

इत्युक्तः पुनरप्याह भृगुस्तं दीनवत्सलः ।

मद्वाक्यसंशयादित्थमनुभूतं नृप ! त्वया

॥३९॥

प्रतीकारं वदिष्यामि स्वस्थो भव क्षणं नृप ।

मम हुङ्कारमात्रेण गमिष्यन्ति द्विजा इमे

॥४०॥

सूत उवाच

द्विजस्य हुङ्कृतिं श्रुत्वा द्विजाश्चान्तर्हितास्तदा ।

तुतोष नृपतिश्चापि पत्न्यमात्यसमन्वितः

॥४१॥

इति श्रीगणेशपुराणे उपासनाखण्डे नाना पक्षिनिवारणं नामाष्टमौऽध्यायः ॥ ८ ॥