चन्द्रशापानुग्रहवर्णनं नामैकषष्ठितमोऽध्यायः
ब्रह्मोवाच
एकदाऽहं गतो राजन् कैलासं गिरिशालयम् ।
उपविष्टः सभामध्येऽपश्यन्नारदमागतम्
॥१॥तनाऽपूर्वं फलं चैक शङ्कराय निवेदितम् ।
ययाचे गणपस्तत्तु कुमारोऽपि च शम्भवे
॥२॥कस्मै देयं फलमिदं अपृच्छच्छं करोऽपि माम् ।
अहं प्रोवाच बालाय कुमारायेति तं तदा
॥३॥दत्तं शिवेन तस्मै तच्चुक्रोध च गजाननः ।
ततो ब्रह्मा स्वभवनं गत्वा स्रष्टुमियेष सः
॥४॥तत्रो विघ्नकरो विघ्नं चकार परमाद्भुतम् ।
उग्ररूपं समास्थाय भीषयामास मां तदा
॥५॥मयि भ्रान्तेऽथ स विधुर्दृष्ट्वा क्रूरतरं तु तम् ।
अहसत् परमं चन्द्र स्वगणैर्द्विरदानमम्
॥६॥ततः परमक्रुद्धोसाऽवशपत्तं विधुं तदा ।
अदर्शनीयस्त्रैलोक्ये मद्वाक्यात्वं भविष्यसि
॥७॥कदाचित्केन दृष्टः स महापातकवान् भवेत् ।
एवं शप्त्वा गतो देवो निजधाम गणैर्वृतः
॥८॥चन्द्रस्तु मलिनो दीनो लीनश्चिन्तामये हृदे ।
अणिमादिगुणोपेते जगत्कारणकारणे
॥९॥कथमाचरितं दौष्ट्यमज्ञानाद् बालवन्मया ।
अदर्शनीयः सर्वेषां विवर्णो मलिनोऽभवम्
॥१०॥कथं सुरूपो वन्द्यश्च कलाभिः सुरतोषकः ।
एतस्मिन्नन्तरे देवैः श्रुतः शापो महान् विधोः
॥११॥तत्रेयुर्वह्निशक्राद्या यत्रास्तेऽसौ गजाननः ।
विजिज्ञपुः सुरोघास्ते विघ्नकारणकारिणे
॥१२॥देवा ऊचः ।
त्वं देवदेव जगतामसि वन्दनीयस्त्वं पासि हंसि विदधासि यथेष्टमीश ।
त्वं निर्गुणोऽपि गुणकृद् गुणिनां त्र्यधीश ! त्वामेव देव ! शरणं वयमद्य याताः
॥१३॥पाहीश ! नोऽखिलजगत् तव शापभीतं चन्द्रेऽपराधिनि कथं पतितं सुकष्टम् ।
तस्माद् वयं च जगदीश जगच्च चन्द्रः शर्माप्नुयाम भुवनेश ! तथा विधेहि
॥१४॥कष्टे निपतितं विश्वमदृश्ये शशिनि प्रभो ।
अनुग्रहं च चन्द्रेऽस्मिँस्त्रैलोक्ये कर्तुमर्हसि
॥१५॥नाज्ञासीद् यस्य ते रूपं महिमानं श्रुतित्रयम् ।
स कस्य स्तवनीयः स्यात् तथापि स्तूयसेऽखिलैः
॥१६॥कृतकृत्या वयं तेऽद्य दर्शनाद् भाषणादपि ।
शरणं ते प्रपन्नाः स्मः प्रपन्नार्तिहराव्यय
॥१७॥इति तद्वचनं श्रुत्वा जगाद द्विरदाननः ।
सुप्रसन्नः स्तवैस्तेषां धर्मकामार्थ मोक्षदः
॥१८॥विकट उवाच
प्रसन्नोऽहं सुराःस्तुत्या वृणुध्वं वाञ्छितं महत् ।
असाध्यमपि वो दद्यां त्रिषु लोकेषु यद् भवेत्
॥१९॥देवा ऊचुः
सुधाकरेऽनुग्रहं ते सर्व ईहामहे वयम् ।
अनुगृहीते तस्मिंस्तु निखिलानुग्रहो भवेत्
॥२०॥गणेश उवाच
एकाब्दं वा तदर्द्ध वा तदर्द्धार्द्ध मथापि वा ।
अदर्शनीयोऽस्तु शशी ब्रूतान्यं वा वरं सुराः
॥२१॥ततस्ते दण्डवत् सर्वे प्रणेमुर्द्विरदाननम् ।
उवाच प्रणताँस्ताँस्तु विकटो भावपूर्वकम्
॥२२॥अप्रमाणं कथमहो वचनं कर्त्तुमुद्यताः ।
शरणं च प्रपन्नानां न त्यागं कर्तुमुत्सहे
॥२३॥मेरूश्चलेत् पतेत् सूर्यो वह्निः शीतो भवेत् यदि ।
मर्यादामुत्सृजेत् सिन्धुर्वचो मे नानृतं भवेत्
॥२४॥अथापि गदतो वाक्यं शृणुध्वं सुरसत्तमाः ।
भाद्रशुक्लचतुर्थ्यां यो ज्ञानतोऽज्ञानतोऽपि वा
॥२५॥अभिशापी भवेच्चन्द्रदर्शनाद् भृशदुःखभाक् ।
इति तद्वचनं श्रुत्वा देवा मुमुदिरेऽखिलाः
॥२६॥ओमिति प्रणिपत्योचुः पुष्पवृष्टिं च चिक्षिपुः ।
तदनुज्ञां गृहीत्वेयुर्देवाश्चन्द्रमसं प्रति
॥२७॥तमूचुस्त्वं मूढतरो योऽहसद् द्विरदाननम् ।
त्रैलोक्यं सङ्कटे क्षिप्तं त्वया श्रेष्ठापराधिना
॥२८॥त्रैलोक्यनायके देवे जगत्त्रयविधायिनि ।
अव्यये निर्गुणे नित्ये परब्रह्मस्वरूपिणि
॥२९॥गजाननेऽखिलगुरावपराधं यतोऽचरः ।
एवं नियमितं तेन सर्वलोकहितेप्सुना
॥३०॥अस्माभिः परमक्लेशात् प्रसन्नोऽसौ कृतो विभुः ।
भाद्रपदचतुर्थ्यां त्वं न द्रष्टव्यः कदाचन
॥३१॥त्वं चापि शरणं याहि देवदेवं गजाननम् ।
तत्प्रसादाच्छुद्धतनुः परां ख्यातिमवाप्स्यसि
॥३२॥इति चन्द्रो वचःश्रुत्वा देवानां हितमात्मनः ।
जगाम शरणं देवं शरणागतवत्सलम्
॥३३॥गजाननं सुरेशानं महेशानादिवन्दितम् ।
जजाप परमं मन्त्रमेकाक्षरमघापहम्
॥३४॥विधुरिन्द्रोपदिष्टं स परमेण समाधिना ।
दशद्वादशवर्षाणि तपस्तेपे सुदारूणम्
॥३५॥गङ्गाया दक्षिणे तीरे सर्वसिद्धिप्रदायिनि ।
ततः प्रसन्नो भगवान् पुरो यातो गजाननः
॥३६॥रक्तमाल्याम्बरधरो रक्तचन्दनचर्चितः ।
चतुर्भजो महाकायः सिन्दूरारूणविग्रहः
॥३७॥प्रभया भासयँल्लोकान् कोटिसूर्याधिकप्रभः ।
तेजः समूहं दृष्ट्वा तं प्रचकम्पे भृशं शशी
॥३८॥परमं धैर्यमास्थाय कृताञ्जलिपुटः पुरः ।
तर्कयामास मनसा प्रायोऽयं द्विरदाननः
॥३९॥वरं दातुमिहायात इति मत्वा ननाम तम् ।
तुष्टाव परया भक्त्या देवदेवं गजाननम्
॥४०॥चन्द्र उवाच
नमामि देवं द्विरदाननं तं यः सर्वविघ्नं हरते जनानाम् ।
धर्मार्थकामाँस्तनुतेऽखिलानां तस्मै नमो विघ्नविनाशनाय
॥४१॥कृपानिधे ब्रह्ममयाय देव विश्वात्मने विश्वविधानदक्ष ।
विश्वस्य बीजाय जगन्मयाय त्रैलोक्यसंहारकृते नमस्ते
॥४२॥त्रयीमयाऽखिलबुद्धिदात्रे बुद्धिप्रदीपाय सुराधिपाय ।
नित्याय सत्याय च नित्यबुद्धे नित्यं निरीहाय नमोऽस्तु नित्यम्
॥४३॥अज्ञानदोषेण कृतोऽपराधस्तं क्षन्तुमर्होऽसि दयाकर त्वम् ।
तवापि दोषः शरणागतस्य त्यागे महात्मन् कुरु मेनुकम्पाम्
॥४४॥ब्रह्मोवाच
इति तद्वचनं श्रुत्वा सुप्रसन्नो गजाननः ।
तस्मै वरान् ददौ देवः स्तुत्या नत्या सुतोषितः
॥४५॥यथापूर्वं स्थित रूपं तथा तत् ते भविष्यति ।
भाद्रशुक्लचतुर्थां त्वां यो नरः सम्प्रपश्यति
॥४६॥तस्याभिशापो नूनं स्यात् पापं हानिश्चं मूर्खता ।
तस्यामदर्शनीयोऽसि यदुक्तं मे सुरैः सह
॥४७॥कृष्णपक्षे चतुर्थ्यां तु व्रतं यत् क्रियते नरैः ।
तवोदयेऽहं पूज्यस्त्वं पूजनीयः प्रयत्नतः
॥४८॥दर्शनीयः प्रयत्नेन विपरिते व्रतं वृथा ।
ललाटे कलया तिष्ठ मम प्रीतिकरः शशिन्
॥४९॥प्रतिमासं द्वितीयायां नभस्यश्च भविष्यसि ।
एवं लब्धवरश्चन्द्रो यथापूर्वोऽभवत् तदा
॥५०॥स्थापयामास वरदमूर्तिं देवर्षिभिः सह ।
भालचन्द्रेति नामाऽस्य चक्रुस्ते मुनयः सुराः
॥५१॥प्रासादं कारयामास काञ्चनं रत्नसंयुतम् ।
उपचारैः षोडशभिः पूजयायास सादरम्
॥५२॥पूजयित्वा सुराः सर्वै मुनयश्च वरान् ददुः ।
सिद्धिक्षेत्रमिदं लोके विख्यातं तु भविष्यति
॥५३॥अनुष्ठानवतामत्र सर्वसिद्धिकरं भवेत् ।
ततस्ते देव मुनयो नत्वा तं द्विरदाननम्
॥५४॥ययुः प्रसन्नमनसः स्वं स्वं स्थानं मुदा युताः ।
यातेषु देवमुनिषु देवोऽपि पिधदे वपुः
॥५५॥अन्तर्हिते भालचन्द्रे चन्द्रौ हृष्टमना इव ।
स्वं धाम प्रतिपद्यैव स्वं धाम प्रययौ तदा
॥५६॥इति श्रीगणेशपुराणे उपासनाखण्डे चन्द्रशापानुग्रहवर्णनं नामैकषष्ठितमोऽध्यायः ॥ ६१ ॥