शिवविजयोनाम सप्तचत्वारिंशत्तमोऽध्यायः
व्यास उवाच
नाम्नां सहस्रे सम्प्राप्ते प्रसन्ने च गजानने ।
ततः किमकरोत् ब्रह्मन् हरस्तत् कथयस्व मे
॥१॥ब्रह्मोवाच
गणेशवरदानेन नाम्नां चैवोपदेशतः ।
प्रहृष्टः शङ्करोऽनृत्यद् जगर्ज च महास्वनः
॥२॥आहूय स्वगणान्देवान् युद्धावसरमादिशत् ।
ते च हर्षेण महता ययुर्देवाः शिवान्तिकम्
॥३॥ब्रह्मा कुबेरोऽथ पुरन्दरोऽग्निर्वायुश्च सोमोवरुणोऽर्यमाच ।
गन्धर्वयक्षा ग्रहकिन्नराश्च सर्वे नमस्कृत्य शिवं स्तुवन्तः
॥४॥देवा ऊचुः
महादेव जगन्नाथ जगदानन्ददायक ।
त्वया हतं महादैत्यं कदा द्रक्ष्यामहे वयम्
॥५॥स्थानभ्रष्टा वयं तेन कृता विश्व विघातिना ।
ब्रह्मोवाच ।
एवं देववचः श्रुत्वा पिनाकी निर्ययौ मुदा
॥६॥गणेशं मनसा ध्यायन् युद्धाय कृतनिश्चयः ।
वेगेन भवनं प्राप्य देवगन्धर्व संयुतः
॥७॥तावच्च दैत्यं चारैस्तु वृत्तान्तः सन्निरूपितः ।
आगतः सुरसैन्येन युद्धाय गिरिजा पतिः
॥८॥तस्यसैन्यान्यनह्यन्त शस्त्रैरस्त्रैश्च कञ्चुकैः ।
स च दैत्यो महानादो युद्धभूषणभूषितः
॥९॥वीरानानन्दयामास वासः स्रग्भूषणैर्घनैः ।
अनेकयानसंस्थेषु योद्धृषु त्रिपुरं स्वयम्
॥१०॥आरुरोह महादैत्यो नादयन् विदिशो दिशः ।
ततो युद्धं समभवत् सेनयोरुभयोर्महत्
॥११॥शस्त्रैर्नानाविधैर्बाणैः मर्मभेदिभिरायसैः ।
असृङ्नदीप्रवाहोऽभून् मार्गरोधनकारकः
॥१२॥शस्त्राहता बभुर्योधाः पुष्पिताः किंशुका इव ।
केचिच्च दृढवैरेण जीवग्राहममारयन्
॥१३॥केचित्कचेषु धृत्वैव शिरांसि चिच्छिदुर्बलात् ।
धावतां रथिवीराणामश्वानां करिणामपि
॥१४॥अङ्घ्रिपातभवो रेणुर्व्यानशे रोदसी क्षणात् ।
अन्धकारे घोरतरे न प्राज्ञायत किञ्चन
॥१५॥चक्रुरेवं तदा युद्धं वीरा नानाविधा भृशम् ।
जीविताशां परित्यज्य मर्तव्ये कृत निश्चयाः
॥१६॥अदृश्यन्त मृता देवा गते रजसि वायुना ।
विद्रुते सुरसैन्ये च दैत्यसैन्ये च हर्षिते
॥१७॥आययौ समरश्लाघी वज्रहस्तः पुरन्दरः ।
शतकोटिं निरीक्ष्यैव दुद्रुवुर्दैत्यदानवाः
॥१८॥स वज्रपातैरसुरांश्चूर्णयामास वज्रभृत ।
तत्यजुर्जीवितं ते तु चण्डवज्रप्रहारतः
॥१९॥केचिच्च भग्नचरणाः केचिद् भग्नशिरोधराः ।
केचिद्विदीर्ण जठराश्छिन्नस्कन्धभुजाः परे
॥२०॥छिन्नाश्वानां च वीराणां वाजिनां रथिनां तथा ।
केषाञ्चिदुरवो भिन्ना जङ्घासु च हताः परे
॥२१॥छिन्नगुल्फाः परेपेतुर्मिषात् पेतुरथापरे ।
निहतानामसृक्पातैर्जज्ञिरे निम्नगा बहु
॥२२॥उत्साहवर्धनास्तेषां वीराणां जयकाङ्क्षिणाम् ।
ततः शनैर्गर्जमानो ददर्श त्रिपुरासुरः
॥२३॥निहतं बहुधा सैन्यं शक्रं योद्धुमथाययौ ।
बभाण शक्रं दृष्ट्वैव किमर्थं मर्तुमिच्छसि
॥२४॥अपैहि युद्धाज्जीवंस्त्वं न पृष्ठं हन्मि वासव ।
का ते शक्तिर्मया युद्धं कर्तुं तव शचीपते
॥२५॥अजः सिंहेन किं युद्धं करिष्यति वदस्व मे ।
एहि युद्धस्व शक्तिश्चेन्नो चेद् गच्छ यथासुखम्
॥२६॥एवमुक्ते स्थिते शक्रे ववर्षे सायकान्बहून् ।
सज्यङ्कृत्वा धनुर्दैत्यो देवसेनामताडयत्
॥२७॥एकस्मान्मन्त्रिताद्बाणादसङ्ख्याता ययुः शराः ।
मृद्गन्तो देवगन्धर्वान् रोदसी समपूरयन्
॥२८॥(मृद्नन्तो?) अन्धकारं पुनरभूत् बाणजालैर्निरन्तरम् ।
तद्बाणैरपि ते देवा व्यङ्गाः पेतुर्धरातले
॥२९॥बलहान्यपतत् भूमौ प्रहारवपीडितः ।
सर्वेषु देववर्येषु मूर्च्छितेषु महेश्वरः
॥३०॥श्लाघन्तं बहुगर्जन्तं युध्यन्तं नाऽभ्यरोचयत् ।
मनसाऽपूजयच्छम्भुस्तस्य दैत्यस्य पौरुषम्
॥३१॥एतस्मिन्नन्तरे तत्र नारदो द्रष्टुमाययौ ।
पूजितः प्रावदच्छम्भुं शृणुष्व नीललोहित
॥३२॥नारद उवाच
त्वया चिन्ता न कर्तव्या त्रिपुरस्य वधं प्रति ।
वक्ष्ये तस्य वधोपायं तं कुरष्व महेश्वर
॥३३॥तेन पूर्वं तपोऽकारि दुष्करं ब्रह्मणोऽपि हि ।
आराधितो गणपतिः स तस्मै सर्ववाञ्छितम्
॥३४॥यद्यत्तेन वृतं देवो दत्तवानविचारितम् ।
पुरत्रयं कामगममेकबाणाश्रितं महत्
॥३५॥मरुद्गतिविहीनं तदभेद्यं सर्वनिर्जरैः ।
स एवमुक्तवान् गुह्यं शरणैकेन यस्तव
॥३६॥पुरत्रयं भेत्स्यते ते तस्मान्मृत्युमवाप्स्यति ।
एवमुक्त्वा गते तस्मिन्नारदे मुनिसत्तमे
॥३७॥मूर्छितान्विबुधान् शर्वः सावधानमथाकरोत् ।
संस्मारेभमुखं वाक्यं स्मारितो नारदेन तु
॥३८॥महाप्रयत्नमारेभे दैत्यराजवधाय सः ।
तेजसा सर्वनाशाय शक्तो देवो निजेच्छया
॥३९॥रथं कुरूपं शशिसूर्यचक्रं यं तारमिन्दीवरजं चकार ।
धनुर्गिरीन्द्रं शरमच्युतं स धुर्याश्विनेयावयुजद् गिरीशः
॥४०॥आचम्य देवं मनसा विचिन्त्य तेनोपदिष्टं च जजाप नाम्नाम् ।
सहस्रमेकाक्षरमन्त्रयुक्तममन्त्रयत्तेन पिनाकमुग्रम्
॥४१॥अमन्त्रयन्महाबाणं विष्णुरूपं यदा शिवः ।
चकम्पे धरणी शेषो वनानि गिरयोऽपि च
॥४२॥बभ्रमुः खगणाः सर्वे चुकूजुश्च महारवान् ।
शब्देना जगवस्यापि विभ्रान्ताः सुरमानुषाः
॥४३॥अमुञ्चत्तं यदा बाणं तदा दग्धं नभस्तलम् ।
भूमण्डलं सपातालं ज्वालामालाभिरञ्जसा
॥४४॥दृष्ट्वा पपाल दैत्येन्द्रः ससैन्यः पुरसंश्रयः ।
जवेनागाच्छरः सोऽप्य दहद्दैत्यं पुरत्रयम्
॥४५॥दैत्यदेहगतं तेजो भर्गदेहे लयं ययौ ।
पश्यतां सर्व सैन्यानां दैत्यदानवरक्षसाम्
॥४६॥ततोऽन्तरिक्षे वागासीन् मुक्तो दैत्यः शिवाहतः ।
ततस्ते तुष्टुवुर्देवा मुनयोऽपि त्रिलोचनम्
॥४७॥जगुर्गन्धर्वनिचयाश्चारणाः श्रुतितत्पराः ।
नतृतुश्चाप्सरः सङ्घाः किन्नरा वाद्यवादकाः
॥४८॥मुमुचुः पुष्पवर्षाणि नारदाद्याः सुरर्षयः ।
ययुः शिवाज्ञया देवाः स्वं स्वं स्थान निराधयः
॥४९॥नमस्कृत्य महेशानं त्रिपुरासुरघातिनम् ।
मुनयोऽपि निरुद्वेगाः स्वस्वानुष्ठानतत्पराः
॥५०॥आसंस्तस्मिन्हते दैत्ये वेदवेदाङ्गशालिनः ।
अग्निहोत्राणि यज्ञांश्च दानानि च व्रतानि च
॥५१॥चक्रुः सर्वजना भूमौ पुनरुत्साहसंयुताः ।
शैलादिगणपस्कन्द्रैः सर्वैः पारिषदैरपि
॥५२॥कृतावनामस्र्यक्ष्योऽपि विभज्य तं महारथम् ।
जयशब्दैस्तूर्यशब्दैर्देवदुन्दुभिनिस्वनैः
॥५३॥अलङ्कृतं शैलराजं कैलासं मुदितो ययौ ।
त्रिपुरारिरिति स्पष्टं ततो नामास्य पप्रथे
॥५४॥एवं महागणपतेर्मन्त्र सामर्थ्यमीरितम् ।
सहस्रनाम्नामपि च प्रभावोऽयं निरूपितः
॥५५॥ब्रह्मोवाच
न विज्ञातो मदन्येन कस्यापि न निवेदितः ।
पठनाच्छ्रवणादस्य सर्वकाम फलं लभेत्
॥५६॥इति श्रीगणेशपुराणे उपासनाखण्डे शिवविजयोनाम सप्तचत्वारिंशत्तमोऽध्यायः ॥ ४७ ॥