मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 62

3
उपासनाखण्डः · 62

दूर्वोपाख्यानं नाम द्विषष्टितमोऽध्यायः

कृतवीर्य पितोवाच

चतुर्थ्यां कृष्णपक्षे तु भुक्तिश्चन्द्रोदये यतः ।

क्रियते तन्निमित्तं यत्पृष्टं तन्मे निरूपितम्

॥१॥

दुर्वाङ्कुरार्पणस्यापि श्रोतुमिच्छामि कारणम् ।

किमर्थं गणानाथस्य प्रिया दूर्वाङ्कुरा वद

॥२॥

ब्रह्मोवाच

हन्त ते कथयिष्यामि दूर्वाङ्कुरसमर्पपणे ।

यत् फलं गणानाथस्य श्रूयतां तन्नृपोत्तम

॥३॥

जाम्बेति नगरी ख्याता देशे दक्षिणतोऽभवत् ।

क्षत्रियः सुलभोऽस्यां तु गणी दानी धनी बली

॥४॥

विवेक्यासीन् मान्यमानी शमी दमपरायणः ।

सर्वशास्त्रार्थतत्त्वज्ञः सर्ववेदार्थतत्त्ववित्

॥५॥

विकटे भक्तिमान् नित्यं स्तुतिस्तोत्र परायणः ।

तस्य भार्या सुमुद्राऽऽसीन्नाम्ना परमविश्रुता

॥६॥

अत्यन्तसुन्दरी साध्वी स्वरुपाद्धिक्कृताप्सराः ।

देवविप्राऽतिथिपरा पत्युश्चितानुवर्तिनी

॥७॥

पतिव्रतानां सर्वासां मान्या श्रेष्ठतमा नृप ।

एकस्मिन् दिवसे तौ तु दम्पती स्नाननिर्मलौ

॥८॥

उपविष्टौ पुराणार्थं परस्परमनोनुगौ ।

यावत्तावत् समायातो ब्राह्मणो मधुसूदनः ।

भिक्षाभिलाषी सततं परमेश्वरचिन्तकः

॥९॥

कुचैलश्च दरिद्रत्वात् साम्बरोऽपि दिगम्बरः ।

सुलभस्तं तु दृष्ट्वैव प्रणनाममुदा युतः

॥१०॥

जहास चैनं सहसा मोहाविष्टो द्विजोत्तमम् ।

स उवाच ततः शापं प्रतिक्षुब्धों महामुनिः

॥११॥

क्रोधसंरक्तनयनस्त्रैलोक्यं प्रदहन्निव ।

हलकर्षणको नित्यं नित्यं दुःखसमन्वितः

॥१२॥

वृषो भव कुबुद्धे त्वं योऽहसद् विवृतैर्द्विजैः ।

भर्तुः शापं परिश्रुत्य सुमुद्रा क्रोधमूर्छिता

॥१३॥

अशपत् तं द्विजं रुष्टा सर्पिणीव पदाहता ।

यतस्त्वयाऽविवेकेन शापो दत्तः पतेर्मम

॥१४॥

अतस्त्वं चक्रिवान् भूत्वा विष्ठाशी भव कुद्विज ।

सोऽपि तामशपत् क्रूरं श्रुत्वा शापं तदीरितम्

॥५५॥

स्त्रीत्वात् त्वमशपो यस्मात्त्वं चाण्डाली भविष्यसि ।

दरिद्रा दोषबहुला विण्मूत्रादाऽशुभङ्करी

॥१६॥

एवं परस्परं शप्त्वा त्यक्त्वा देहान् सुदुर्लभान ।

सुलभो वृषभो जातो हलकर्षणवान् भवन्

॥१७॥

न विश्रान्तिः क्षणं तस्य विप्रशापात् तदाऽभवत् ।

द्विजोऽपि रासभेर्योनौ जातोऽसौ मधुसूदनः

॥१८॥

जाता सुमुद्रा चाण्डाली दुष्टा प्राणिविहिंसिका ।

दरिद्रा पैशाचवती विण्मूत्राशनतत्परा

॥१९॥

अति शुष्कशरीरा सा दन्तुरा विकटानना ।

कदाचिदटमाना सा दक्षिणे नगरस्य तु

॥२०॥

प्रासादं गणनाथसस्य ददर्श परमाद्भुतम् ।

नानावृक्षलताजालैर्नाना पक्षिगणैर्युतम्

॥२१॥

यत्र योगीश्वराः केचिदनुष्ठानरताः सदा ।

उपासका गणेशस्य नियमस्था वसन्ति हि

॥२२॥

केचित् कामार्थिनः केचित् पुत्रमोक्षधनार्थिनः ।

कदाचिद् भाद्रमासस्य चतुर्थ्यां तु गृहे गृहे

॥२३॥

तस्मिन्पुरे सम्प्रवृत्तो गणनाथमहोत्सवः ।

अतिवृष्टिः प्रवृत्ता च महाप्रलयसूचिका

॥२४॥

चाण्डाली वृष्टि भीता सा याति यद् यन्निवेशनम् ।

ततस्ततोऽखिलजनैर्निरस्ता ताडनादिभिः

॥२५॥

ततो देवालयं याता पाणावग्निं प्रगृहय सा ।

तत्राप्यताडयन् केचित् योगिभिस्ते निराकृताः

॥२६॥

प्रज्वाल्य सा तृणैरग्निमुष्णान्यङ्गानि कुर्वती ।

अकस्माद् वायुना प्रागादेको दूर्वाङ्कुरस्तदा

॥२७॥

पतितो गणनाथस्य मस्तके दैवयोगतः ।

स रासभः शीतभीतो यातो देवालयं तदा

॥२८॥

तदा वृषो लाङ्गलात् तु मुक्तो दैवात् समाययौ ।

प्रासादं गणनाथस्य भाविनोऽर्थस्य गौरवात्

॥२९॥

उभावपि तृणं तस्याश्चाण्डाल्यास्तौ बभक्षतुः ।

परिसुप्ते जने तत्र तयोर्युद्धमवर्तत

॥३०॥

लत्ताभ्यां चैव श‍ृङ्गाभ्यां गजानन समीपतः ।

तयोरास्यान्निपतितौ शुण्डायां च पदे तदा

॥३१॥

दूर्वाङ्कुरौ गणेशस्य तुतोष च गजाननः ।

ततः सा यष्टिमादाय देवान्तिकमुपागमत्

॥३२॥

अहनन् तौ खरवृषौ स्वयं पूजां बभक्ष च ।

खुरशब्दं तयोः श्रुत्वा बुबुधे निद्रितो जनः

॥३३॥

बहिश्चकार दण्डेन मुष्टिकूर्परघाततः ।

पलायनपरा साऽपि ताडिता शर्करादिभिः

॥३४॥

चाण्डाल्या रासभस्यापि स्पर्शशङ्काकुलैर्जनैः ।

स्नापितस्तीर्थतोयेन मन्त्रितेन गजाननः ।

पूजितः परया भक्त्या नानाद्रव्यैरनेकशः

॥३५॥

वृषरासभचाण्डालीरतिदुष्टा जनाः पुनः ।

ताडयामासुरव्यग्रा लगुडैर्जानुभिस्तलैः ।

देवद्वारे च पिहिते गतिस्तेषां न विद्यते

॥३६॥

भ्रमतां क्रन्दतां तेषां त्रयाणां दारूणैः स्वरैः ।

मनस्तु देवदेवस्य विकटस्य तदा हृतम्

॥३७॥

एतेषां तु प्रसङ्गेन पुनः पूजा ममाऽभवत् ।

एतैश्च पूजितश्चाहमेकदूर्वाङ्कुरादिभिः

॥३८॥

प्रदक्षिणा बहुतरा कृता दुष्टेषु सत्स्वपि ।

भाद्रशुक्लचतुर्थ्यां मे दूर्वामेकां समर्पयेत्

॥३९॥

स मे मान्यश्च पूज्यश्च यश्च कुर्यात् प्रदक्षिणाम् ।

तस्मादेतान् विमानेन स्वधाम प्रापयाम्यहम्

॥४०॥

एवं विमानमप्रेषीत् स्वगणैरूपलक्षितम् ।

स्वरूपधारिभिर्देवो गन्धर्वाप्सरसां गणैः

॥४१॥

युतं वादित्रनिचयैः पुष्पैः परिमलैरपि ।

दिव्यभोगसमायुक्तं पताकाध्वजमण्डितम्

॥४२॥

तानादाय गणास्ते तु गजाननस्वरूपिणः ।

तस्मिन् विमाने निक्षिप्य दिव्यदेहान् मुदायुतान्

॥४३॥

गजाननाज्ञया तस्य धाम सम्प्रापयन् जवात् ।

पश्यतां सर्व लोकानामाश्चर्यमभवद्हृदिः

॥४४॥

एतेषां पूर्वपुण्येन गतिरेषेति चाब्रुवन् ।

ततो योगीश्वराः केचित् त्यक्त्वा ध्यानं गता गणान्

॥४५॥

पप्रच्छु कथमेतेषां ब्रूत पुण्या गतिर्ध्रुवा ।

अतिपातकिनामेषां पुण्यलेशो न विद्यते

॥४६॥

गतिः सुदुर्लभा कस्मात् प्राप्ता नो वदताऽनघाः ।

तदेवाशु चरिष्यामस्त्यक्त्वाऽनुष्ठानमात्मनः

॥४७॥

असङ्ख्यातो गतः कालो न देवो दृक्पथं गतः ।

विरक्तानां वायुभुजामनुष्ठानवतां सदा

॥४८॥

धामप्राप्तिः कदा नः स्याद् गणेशस्य वदन्तु नः

॥४९॥

इति श्रीगणेशपुराणे उपासनाखण्डे दूर्वोपाख्यानं नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥