मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 5

3
उपासनाखण्डः · 5

सुधर्माच्यवन संवादो नाम पञ्चमोऽध्यायः

सूत उवाच

ततो मातरमभ्येत्य स्नेहकातरया धिया ।

तां जगाद कथं मातस्त्यजसेऽनपराधिनम्

॥१॥

पुत्र उवाच

सहैव यातु पुत्रोऽयमिति वाच्यस्त्वया पिता ।

तववाक्यानुरोधेन यदि मां सह नेष्यति

॥२॥

तदा वां सेवनं कुर्यां न मे राज्ये मतिस्तथा ।

किं तद्राज्यं सुखं दद्याद्भवद्भ्यां रहितस्य मे

॥३॥

सुधर्मो वाच

एतावद्दुःखशोकाभ्यां युक्तो राजा न मे वचः ।

करिष्यति महाबाहो तस्माद्गच्छ ममाज्ञया

॥४॥

पातिव्रत्येन धर्मेण परवत्यस्मि बालक ।

भर्तुरन्यो न देवोऽस्ति योषितां मान्य एव च

॥५॥

सूत उवाच

इत्याकर्ण्य नमश्चक्रे मातरं ससुहृत् सुतः ।

प्रदक्षिणीकृत्य ततोऽनुज्ञां प्राप्य पुरं ययौ

॥६॥

अलङ्कृतैर्नागरिकैः पताकाध्वजपल्लवैः ।

सिक्तमार्गं सुगन्धाढ्यं यथेन्द्रनगरं तथा

॥७॥

दत्वा ताम्बूलवासांसि विसृज्य स्वजनान् नृपः ।

प्रविवेश गृहं श्रीमद् हर्षशोकसमन्वितः

॥८॥

चकार राज्यं धर्मेण सुतवत् पालयन् प्रजाः ।

धर्मार्थकाममोक्षेषु यथाशिक्षं मनोदधे

॥९॥

ऋषय ऊचुः

कथं राजा सोमकान्तः किं वनं समुपागतः ।

किंसहायश्च किं चक्रे कर्म नो वद विस्तरात्

॥१०॥

सूत उवाच

हेतवः कथयिष्यामि सोमकान्तो यथा वनम् ।

गत्वा चकार यत्कार्यं सादरं श्रणुतानघाः

॥११॥

सुबलज्ञानगम्याममात्याभ्यां सुधर्मया ।

धर्मपत्न्या युतोऽरण्यं प्रविवेश दुरासदम्

॥१२॥

अग्रतः प्रकृतिर्याता मध्ये राजाऽथ पृष्ठतः ।

धर्मपत्नी सुधर्माऽगात् सीतेव रामपृष्ठतः

॥१३॥

एकाशनाश्च चत्वार एकचित्तासनालयाः ।

समदुःखसुखाश्चापि वनाद्वनमुपाययुः

॥१४॥

क्षुधातृषाश्रमैर्वापि निम्नोन्नतगताध्वभिः ।

अत्यन्तं कर्षिताश्छायामाश्रित्योपाविशन् क्वचित्

॥१५॥

पुनर्वनान्तरं गत्वा ददृशुस्ते सरो महत् ।

यत्र मातङ्गसदृशा नक्रा भान्ति सकच्छपाः

॥१६॥

तालास्तमालाः सरलाः प्रियाला बकुलाः शुभाः ।

सरलाः पनसा जम्बुनिम्बाश्वत्थवटादयः

॥१७॥

वृक्षा नानालताजालैर्वेष्टिताः परितो बभुः ।

यत्रास्ते तिमिरं गाढं गिरिदर्युदरे यथा

॥१८॥

यत्रवायुः सुखस्पर्शः पद्मकादम्बगन्धवान् ।

यस्मान्नयन्ति मुनयः कुसुमानि फलानिच

॥१९॥

यत्र हंसा बकाः श्येनाः शुभाः काकाश्च कोकिलाः ।

सारिकाश्चक्रवाकाश्च गाना रावान् विकुर्वते

॥२०॥

न यत्र शीतोष्णकरांशुसन्धिर्नानालतापुष्पकुजाश्रितानाम् ।

क्षुतृड्भयं यत्र न चैव मृत्युः स्वर्गे यथा पुण्यवतां द्विजेन्द्राः

॥२१॥

तत्र गत्वा जलं सर्वे पपुः शीतं श्रमापहम् ।

स्नात्वा नित्यक्रियां कृत्वा फलानि बुभुजश्च ते

॥२२॥

सुष्वाप च क्षणं राजा कच्छे कोमलवालुके ।

धर्मपत्नी सुधर्मा च पादसंवाहने स्थिता

॥२३॥

तस्यानुमतमाज्ञाय द्वावमात्यावगच्छताम् ।

आदातुं कन्दमूलानि फलानि च बिसानि च

॥२४॥

ददर्श तत्राद्भुतरूपमुग्रं बालं सुधर्मा प्रभया ज्वलन्तम् ।

उत्कृष्टरूपस्य कृते स्मरं तं जातं पुरा बालमिति स्म मेने

॥२५॥

दृष्ट्वैव तं सा जहृषे सुधर्मा मेने च तं साहितकारिणं च ।

क्षुब्धं प्रसन्नं हृदयं समीक्ष्याप्रकारिणं चोपकारं हि वक्ति

॥२६॥

पप्रच्छ तं कश्च कुतः प्रयातः कस्यापि पुत्रौ जननी च का ते ।

वदस्व शब्दामृतधारया मे सखेव कर्णौ परितोषयाशु

॥२७॥

सूत उवाच

इति स्म पृष्टः स जगाद बालस्तां राजपुत्रीं सुधया गिरा मे ।

पिता भृगुर्भामिनि ! मे पुलोमा माता जलार्थी स्वगृहादिहागाम्

॥२८॥

च्यवनः खलु नाम्नाहं पितुराज्ञाकरः शुभे ।

त्वं च का कतमोऽयं ते कथं वनमिदं गतः

॥२९॥

स्त्रवन्ति कथमङ्गानि वर्षाकाले गिरेरिव ।

अति दुर्गन्धता चास्य केन वा वद कर्मणा

॥३०॥

कृमिभार समाकीर्णममुं वा सेवसे कथम् ।

स्वयं चारूतरा भूत्वा सुकुमारी सुलोचना

॥३१॥

चारू प्रसन्नवदना चारूसर्वाङ्गशोभिनी ।

कच्चित्पूर्वं न पित्रा ते सुहृद्भिर्भ्रातृभिर्द्विजैः

॥३२॥

विज्ञातोऽयं वरः कुष्ठीकृमिभाराकुलोऽपि च ।

कथमेनं वृत्तवती दुर्गमं चागता वनम्

॥३३॥

सुत उवाच

इति पृष्टा सुधर्मा सा मुनिपुत्रेण धीमता ।

व्याचष्टे सकलं तस्मै शोकहर्ष समन्विता

॥३४॥

सुधर्मो वाच

सौराष्ट्रदेशे विख्यातं देवताख्यं पुरं महत् ।

तत्राऽयं सोमकान्तो मे भर्ता राज्यं चकार ह

॥३५॥

अतिमानी वदान्यश्च शूरो दृढपराक्रमः ।

असङ्ख्यातबलोपेतो रिपुराष्ट्रविमर्दनः

॥३६॥

यज्वाऽति सुन्दरः श्रीमान् सुहृदानन्दकारकः ।

विवेक्ता सर्वकार्याणां नीतिशास्त्रविशारदः

॥३७॥

राज्यं स्वं बुभुजे राजा बहुकालं द्विजोत्तम ।

इमामवस्थां सम्प्राप्तः पूर्वकर्मविपाकतः

॥३८॥

अमात्यद्वय संयुक्तो वनमेतत् समागतः ।

भ्रमन्तिपृष्ठलग्नाऽस्य पुत्रे राज्यं प्रयच्छतः

॥३९॥

सुबलज्ञानगम्याभ्यां प्रकृतिभ्यामिहागता ।

राज्ञोऽनुज्ञां समादाय फलार्थं तौ गतौ वने

॥४०॥

इहास्मान् राक्षसाः प्रेता भूतानि मृगपक्षिणः ।

नानाविधा भीषयन्ति कथं नो भक्षयन्ति न

॥४१॥

न जाने दुःखभोगाय स्थापयन्त्यग्रतोऽपि च ।

दुःखस्यान्तं न पश्यामि कर्मणो दुष्कृतस्य च

॥४२॥

कटुतिक्ताम्ललवणमधुरस्निग्धभोजने ।

न तथा रूचिरस्याऽभूत् परीतस्य द्विजातिभिः

॥४३॥

यथेदानीं कन्दमूल कषायाम्ल फलादिषु ।

दरिद्राणां महाहारः पाकोऽपि भक्षितस्य च

॥४४॥

न तथां श्रीमतां शक्तिरशने पाक एव च ।

यः शेत कोमले दिव्ये शयने स्म मनोरमे

॥४५॥

इदानीं यत्र कुत्रापि पश्य कालविपर्ययम् ।

यस्य दिग्व्यापिनश्चासन् नाना परिमलाः शुभाः

॥४६॥

पूयशोणितदिग्धस्य पूतिगन्धोऽपि साम्प्रतम् ।

य आनन्दमये सिन्धौ मग्नोभूत्पण्डितैर्वृतः

॥४७॥

स इदानीं दुःखमये कृमिभिः परिवारितः ।

कथं तरेम दुःखाब्धिं न जाने भृगुनन्दन

॥४८॥

भव पोत इवागाधे मज्जन्तं नौरिवार्णवे

॥४९॥

इति श्रीगणेशपुराणे उपासनाखण्डे सुधर्माच्यवन संवादो नाम पञ्चमोऽध्यायः ॥ ५ ॥