मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 14

3
उपासनाखण्डः · 14

ब्रह्मचिन्तावर्णनं नाम चतुर्दशोऽध्यायः

राजोवाच

ततः किमकरोद् ब्रह्मा वीक्ष्याण्डानि सहस्रशः ।

कथञ्च सृष्टिमकरोदाज्ञां प्राप्य गजाननात्

॥१॥

भृगुरुवाच

अभवद् गर्वसम्पन्नः स्वात्मन्येवं विचारयत् ।

वेद्मि शास्त्राणि वेदाँश्च पुराणान्यागमानपि

॥२॥

ज्ञानविज्ञानसम्पन्नः शापानुग्रहशक्तिमान् ।

ब्रह्माण्डानि च दृष्टानि सष्टीनां रचनास्तथा

॥३॥

इदानीं सृष्टिकरणेऽशक्यं मे नैव किञ्चन ।

इत्येवं सर्वसम्पन्ने सृष्टयर्थं कमलोद्भवे

॥४॥

विघ्ना नानाविधा भूप प्रादुरासन् सहस्रशः ।

तं वेष्टयित्वा ब्रह्माणं स्थिताः परमदारुणाः

॥५॥

यथा मत्ताः पुष्परसैः सरघा मधुजालकम् ।

त्रिनेत्राः पञ्चहस्ताश्च कूपास्याः तप्तपाणयः

॥६॥

त्र्यङ्घ्रयः पञ्चतुण्डाश्च सप्ततुण्डाः षडङ्घ्रयः ।

दशास्याः पञ्चपादाश्च तालदन्ता वृकोदराः

॥७॥

नानारूपा महासत्त्वाः सङ्ख्यातुं न च ते क्षमाः ।

चकम्पे द्रुहिणस्तेषां नानारावान् निशम्य तान्

॥८॥

केचित् तं मुष्टिभिर्जघ्नुर्नेमुश्च नुनुवुः परे ।

चतुःशिखासु सङ्गृह्य दोलयामासुरादरात्

॥९॥

चत्वार्यपि मुखान्यस्य जहसुस्तं तथा परे ।

निनिन्दुश्च प्रशंसाञ्च चक्रुः केचित् सिषेविरे

॥१०॥

मोचमायामासुरपरे बबन्धुरपरे पुनः ।

मोचितुं पुनरप्यन्ये विचकर्षुरितस्ततः

॥११॥

आलिलिङ्गुश्च तं केचिच्चुचुम्बुः शिशुवत् परे ।

अष्टश्मश्रुषु तं धृत्वा ननर्ते कोष्ठहस्तवान्

॥१२॥

एवं स परवान्ब्रह्मा चिन्ताशोकसमन्वितः ।

अखर्वं सृष्टिगर्वं तं तत्याज हृदि सङ्गतम्

॥१३॥

जगाम महतीं मूर्छां निराशः स्वस्य जीवने ।

मुहूर्तमात्रे तु गते सस्मार मनसा विभुम् ।

प्रार्थयामास कारुण्याद् रुदन्निव गजाननम्

॥१४॥

ब्रह्मोवाच

न चायुष्यं स्वल्पं विविधजनने सक्तमनसो न मे तत्त्वज्ञानं भवजलधितारं सुविमलम् ।

जनुर्भूमौ लब्ध्वा तव भजनतो यामि परमां कदा भुक्तिं मुक्तिं निरुपमसुखां वाऽखिलगुरो

॥१५॥

त्वत्कटाक्षामृतेनाक्तो भक्तः सीदति ते विभो ।

इयं लज्जा तवैवास्तां न मे मृत्युश्चिरायुषः

॥१६॥

भृगुरुवाच

इत्यसौ प्रार्थयन्नेव शुश्राव गगनेरिताम् ।

गिरं तपस्वेति ततः प्रार्थयामास तां पुनः

॥१७॥

अन्तर्हिताश्च ते विघ्नाः श्रुतायां नभसो गिरि ।

नानारूपा महावीर्या मुक्त्वा तं कमलासनम्

॥१८॥

स मुक्तश्चिन्तयामास पद्मयोनिर्महायशाः ।

विना मन्त्रं विना स्थानं कथं तप्स्ये तपो महत्

॥१९॥

इति व्याकुल चित्तोऽसौ बभ्राम जलमध्यतः ।

अनन्यमनसा ध्यायन् गजाननमनामयम्

॥२०॥

मुकुटेन विराजन्तं मुक्तारत्नयुजा शुभम् ।

रक्तचन्दनलिप्ताङ्गं सिन्दूरारुणमस्तकम्

॥२१॥

मुक्तादामलसत्कण्ठं सर्पयज्ञोपवीतिनम् ।

अनर्घ्यरत्नघटितबाहुभूषणभूषितम्

॥२२॥

स्फुरन्मरकतभ्राजदङ्गुलीयकशोभितम् ।

महाहिवेष्टित बृहन्नाभिशोभिमहोदरम्

॥२३॥

विचित्ररत्नखचितकटिसूत्रविराजितम् ।

सुवर्णसूत्रविलसद्रक्तवस्त्रसमावृतम्

॥२४॥

भालचन्द्रं लसद्दन्त शोभाराजत्करं परम् ।

एवं ध्यायति तस्मिँस्तु पुनरेव नभोवचः

॥२५॥

उदियाय वटं पश्य वटं पश्येति सुन्दरम् ।

श्रुत्वेति वचनं ब्रह्मा पुनश्चिन्तामवाप सः

॥२६॥

इति श्रीगणेशपुराणे उपासनाखण्डे ब्रह्मचिन्तावर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥