मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 52

3
उपासनाखण्डः · 52

नलव्रत निरुपणं नाम द्विपञ्चाशत्तमोऽध्यायः

पार्वत्युवाच

नलेनेदं कृतं कस्मात् को नलो वद मे पितः ।

मनोविश्रान्तिमायाति श‍ृण्वन्त्या मे कथानकम्

॥१॥

हिमवानुवाच

निषधेषु महाराजो नलो नामाऽभवत्पुरा ।

ब्रह्मण्यो वेदविच्छूरो दानी मानी धनी मुनिः

॥२॥

रथी खड्गी शरी चापी निषङ्गी कवची बली ।

कृतास्रो देवपूज्यश्च त्रिलोकीगमनः शुचिः

॥३॥

शेषोऽपि मूकतां याति वर्णितुं यद्गुणानपि ।

न सङ्ख्या विद्यतेऽश्वानां गजानां रथिनां तथा

॥४॥

धानुष्काणां शस्त्रभृतां अग्निशस्त्रभृतामपि ।

चकम्पुर्यद्भयाद्देवा इन्द्राद्याः सदिगीश्वराः

॥५॥

दमयन्तीति भार्याऽऽसीद्यस्य सौन्दर्यमन्दिरम् ।

दमयित्वाऽखिलान् ब्रह्मा सारं सारं प्रगृह्य च

॥६॥

दमयन्तीति विख्याता यतस्तेनेति निर्मिता ।

दमयन्त्यै त्रिलोकस्थ नारीणां चारुतामदात्

॥७॥

नानालङ्कार संयुक्ता नानामणिविभूषिता ।

मुक्ताहारलसत्कण्ठा सद्गुणाढ्या सुशोभना

॥८॥

यस्यामात्यो महानासीत् पद्महस्तः पराक्रमी ।

बुद्धया बृहस्पतिसमो नयेनाङ्गिरसा समः

॥९॥

तुङ्गत्वे मेरुसदृशो गाम्भीर्ये चोदधेः समः ।

कदाचिदुपविष्टोऽसौ नलो राजा महामनाः

॥१०॥

निषसाद सभागेहे नृपमण्डल मध्यगः ।

नृत्यन्त्यप्सरस्तस्य पुरतश्चारुदर्शनाः

॥११॥

स्तुवन्ति वन्दिनस्तं च ब्रह्मर्षिगणसंयुतम् ।

एतस्मिन्नेव काले तु गौतमौ नृपतिं ययौ

॥१२॥

उत्थाय सादरं राज्ञा स्वासने विनिवेशितः ।

पूजितः परया भक्त्या ततः पप्रच्छ तं नलः

॥१३॥

नल उवाच

स्वामिन्ननुगृहीतस्ते दर्शनेन महामुने ।

जन्म राज्यं पिता माता कुलं जीवितमद्य मे

॥१४॥

सफलं स्वागमे हेतुं वदतूर्णं महामुने ।

गौतम उवाच ।

ममासीन्महती वाञ्छा द्रष्टुं ते वैभवं नृप

॥१५॥

स्तुवन्ति देवाः स्वर्गस्था ब्रह्मेन्द्रहरिशूलिनः ।

धन्योऽसि मर्त्यलोकस्थो मर्त्यैर्देवैश्च शस्यसे

॥१६॥

नित्यतृप्तोऽप्यहं तृप्तः पूजां दृष्ट्वा च वैभवम् ।

इदानीमनुजानीहि गमिष्ये स्वाश्रमं प्रति

॥१७॥

नृप उवाच

वेदवेदाङ्गविद्ब्रह्मन् सर्वशास्त्रप्रवर्तक ।

दयानिधे क्षणं स्थित्वा छिन्धि मे संशयं मुने

॥१८॥

मुनिरुवाच

साधु पृष्टं महाराज स्थितोऽहं स्नेहभावतः ।

नागा नृपाश्च देवाश्च यत्ते नाज्ञाविलङ्घिनः

॥१९॥

नृप उवाच

ममैव विस्मयो ब्रह्मन् निरीक्ष्य वैभवं स्वकम् ।

इत्थं ममाभवत्केन पुण्येन तपसाऽपि वा

॥२०॥

वद तत्त्वेन कश्चाहमभवं पूर्वजन्मनि ।

मुनिरुवाच ।

गौण्डदेशात्परे देशे पुरे पिप्पलसंज्ञिके

॥२१॥

त्वमासीः क्षत्रियः पूर्वं दरिद्रो ज्ञानवान् शुचिः ।

जायापत्यैः सुहृद्भिश्च वाक्शरैस्ताडितो भृशम्

॥२२॥

रात्रावपृष्ट्वा सर्वांस्त्वं निर्वेदाद्गहनं वनम् ।

गतवान्वृक्षवल्लीभिः सिंहव्याघ्रगजैर्मृगैः

॥२३॥

सेवितं शीतलजलैः सरोभिर्जलजादिभिः ।

आश्रमोऽथ त्वयाऽदर्शि भ्रमता भ्रमता वने

॥२५॥

तपोनिधेः कौशिकस्य वेदघोषनिनादितः ।

तत्र गत्वा मुनिं तं त्वं प्रणतो भक्तिभावतः

॥२५॥

उत्थापितः कौशिकेन दीनानाथदयावता ।

दुःखितं त्वां विदित्वा स आशीर्वादमवीवदत्

॥२६॥

गजाननो मे देवेशो भविता ते शुभङ्करः ।

श्रुत्वा तदाशिषं सौम्यां प्राप्तोऽसि परमां मुदम्

॥२७॥

पुष्टवानसि तं विप्रमुपायं सर्वकामदम् ।

दारिद्रयनाशकं राजन् भुक्तिमुक्तिप्रदं शिवम्

॥२८॥

गणेशाराधनं तुभ्यं कथयामास कौशिकः ।

कौशिक उवाच ।

व्रतं कुरु गणेशस्य मासमात्रं नराधिप

॥२९॥

कुरु मूर्तिं गणेशस्य मृन्मयीं चारुदर्शनाम् ।

पूर्वोक्त विधिना पूजां कुरु श‍ृणु कथानकम्

॥३०॥

दिने दिने मासमात्रं ततः सिद्धिमवाप्स्यसि ।

मुनिरुवाच ।

इति श्रुत्वा कौशिकं तं पप्रच्छ भूमिपः पुनः

॥३१॥

नृप उवाच

गजाननं न जानामि तत्स्वरूपं वदस्व मे ।

ज्ञात्वा तं देवदेवेशं करिष्ये व्रतमुत्तमम्

॥३२॥

मुनिरुवाच

इति तेन कृते प्रश्ने जगाद मुनिसत्तमः ।

अनिर्वाच्यस्वरूपस्य परब्रह्मस्वरुपिणः

॥३३॥

वैकारिकस्वरुपाणि गजाननकृतानि तम्

॥३४॥

कौशिक उवाच

यः कर्ता सर्वलोकानां पिता माता जगद्गुरुः ।

ब्रह्मेन्द्रशिवविष्णूनां ध्येयो यः स गजाननः

॥३५॥

मुनिरुवाच

इति श्रुत्वा तु तद्वाक्यं प्रणिपत्य मुनीश्वरम् ।

अनुज्ञातस्ततस्तेन गतोऽसि निजमन्दिरम्

॥३६॥

आरभ्य श्रावणे शुद्ध चतुर्थ्यां व्रतमुत्तमम् ।

कृतवान् मृन्मयीं मूर्तिं गणेशस्य यथोदिताम्

॥३७॥

स्थाने च वचने मौने गमने शयने भुजि ।

ध्यायन्गजाननं देवं प्रायाः सिद्धिमनुत्तमाम्

॥३८॥

नानागजरथाश्वाद्यैर्गोधनैर्धनसञ्चितैः ।

दासीदासयुतः श्रीमान् जातो व्रतप्रभावतः

॥३९॥

दत्तवानसि दानानि सर्वाणि देवतुष्टये ।

गणेशस्य महामौल्यं प्रासादं कृतवान्मुदा

॥४०॥

भुक्त्वा भोगान् यथाकामं कालेन निधनं गतः ।

जातोऽसि निषधे देशे नृपस्त्वं नलनामकः

॥४१॥

अतस्त्वय्यचला लक्ष्मीस्त्रिलोकीजनवन्दिते ।

इदानीमनुजानीहि यत्पृष्टं तन्निरूपितम्

॥४२॥

हिमवानुवाच

एवं गते गौतमे तु व्रतं चक्रे नलो नृपः ।

तद्वाक्याज्जातविश्वासो मूर्तिं कृत्वा सुशोभनाम्

॥४३॥

श्रुत्वा कथां गणेशस्य प्रत्यहं पूज्य भक्तितः ।

अलभत् सर्वकामान् स व्रतस्यास्य प्रभावतः

॥४४॥

इति ते कथितं कन्ये नलेनेत्थं कृतं व्रतम ।

उपदिष्टं गौतमेन पूर्वजन्मकृतं व्रतम

॥४५॥

यस्य प्रभावः सम्पूर्णों वक्तुं केनापि नेष्यते

॥४६॥

इति श्रीगणेशपुराणे उपासनाखण्डे नलव्रतनिरुपणं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥