बल्लालविनायक कथनं नाम द्वाविंशोऽध्यायः
राजोवाच
आश्चर्यभूतं कथितं दक्षपुत्रस्य चेष्टितम् ।
विस्मयो मे महाँस्तत्र सञ्जातो मुनिसत्तम
॥१॥अन्धः कुब्जः स्रवद्रक्तः पूतिगन्धसमन्वितः ।
वाचा विहीनोऽमेध्यश्च श्वासमात्रावशेषितः
॥२॥कथं मुद्गलदेहोत्थवायुना दिव्यदेहभाक् ।
सञ्जातः केन पुण्येन मुक्तो वा पातकात् कुतः
॥३॥दिव्यवर्षसहस्रं यस्तताप परमन्तपः ।
कथं तस्याभवन्नैव दर्शनं देव काङ्क्षितम्
॥४॥कथं वल्लभपुत्राय देवदेव इभाननः ।
प्रत्यक्षोऽभूद् विनाक्लेशैः स च कः पूर्वजन्मनि
॥५॥एतत् संशयजातं मे नुद सर्वज्ञ ते नमः ।
न तृप्यामि पिबन्नित्यं गजाननकथामृतम्
॥६॥विश्वामित्र उवाच
सम्यक् पृष्टं त्वया राजन् संशयच्छेदनाय ते ।
वदामि निखिल सम्यक् शृणुष्वैकमना नृप
॥७॥सिन्धुदेशेऽतिविख्याता पल्ली नाम्नाऽभवत्पुरी ।
तस्यामासीद् धनी वैश्यः श्रेष्ठः कल्याणसंज्ञकः
॥८॥वदान्यः कुशलो धीमान् द्विजदेवपरायणः ।
इन्दुमतीति विख्याता पत्नी तस्य शुभानना
॥९॥पतिव्रता पतिप्राणा पतिवाक्यपरायणा ।
तयोः कालेन सञ्जातो गुणवान् पुत्र उत्तमः
॥१०॥कल्याणः प्रददौ धेनूर्वस्त्रालङ्कारणानि च ।
ब्राह्मणेभ्योऽथ रत्नानिं काञ्चनं भूरिदक्षिणाम्
॥११॥ज्योतिर्विद्भिर्निगदितं नाम चक्रे सुतस्य सः ।
बल्लाल इति विख्यातं बलत्त्वाच्छुभं तदा
॥१२॥स च कालेन महता वयस्यैश्च समन्वितः ।
देवपूजारतो नित्यं ग्रामाद् बहिरयान्मुदा
॥१३॥एकदा ते वनं याता बल्लालप्रमुखाः सुताः ।
नानाक्रीडारताः स्नाता उपलं स्थाप्य सुन्दरम्
॥१४॥गणेशबुद्ध्या सम्पूज्य दुर्वाङ्कुरसुपल्लवैः ।
केचिद् ध्यानरतास्तस्य नामजाप्यं प्रचक्रिरे
॥१५॥केचिच्च ननृतुस्तत्र यथेष्टं देवभक्तितः ।
केचिच्च गानकुशला जगुर्देवस्य तुष्टये
॥१६॥केचिच्च काष्ठैः पल्लवैश्च मण्डपं चक्रुरोजसा ।
केचिद् भित्तिपरीवेषं केचिद् प्रासादमुत्तमम्
॥१७॥केचिन्मानसपूजाभिः केचित्पुष्पलतादिभिः ।
धूपं दीपं च नैवेद्यं फलताम्बूलदक्षिणाः
॥१८॥निवेद्य पुपुजुस्तस्मै मुदापरमयायुताः ।
केचिच्च पण्डिता भूत्वा पुराणान्यब्रुवँस्तथा
॥१९॥व्याचक्रुर्धर्मशास्त्राणि ग्रन्थानन्याँश्च केचन ।
एवं देवरताः सर्वे निन्युर्वै दिवसान्बहून्
॥२०॥न क्षुधा न तृषां कोऽपि जानाद् देवस्य भक्तितः ।
एकदा जनकास्तेषां कल्याणवैश्यमन्वयुः
॥२१॥अब्रुवन् रोषिताः सर्वे स्वबल्लालं निवारय ।
शिशून सर्वान् समाहूय वनं याति दिने दिने
॥२२॥नायान्ति प्रातराशाय न मध्यान्हे निशामुखे ।
कृशा नो बालका जाताः स्वसुतं शिक्षयाधुना
॥२३॥नो चेद् वयं निबद्धवैनं ताड्याम इतः परम् ।
पुराधिपमथाभ्येत्यं त्वां बहिः करवामहे
॥२४॥इति तेषां वचः श्रुत्वाऽश्रुतपूर्वं कदाचन ।
रोषावेशात् स कल्याणो जपाकुसुमलोचनः
॥२५॥महान्तं दण्डमादाय ताडनार्थं सुतं ययौ ।
दण्डाघातेन गत्वैव मण्डपं प्रबभञ्ज ह
॥२६॥बालकाश्च ततः सर्वे जग्मुर्दशदिशो नृप ।
एक एव स बल्लालो दृढभक्त्या स्थिरोऽभवत्
॥२७॥दृढमुष्ट्या स तं धृत्वा दण्डेनाऽताडयत् भृशम् ।
यथा सर्वशरीरात्तु धाराः शोणितसम्भवाः
॥२८॥प्रादुरासन् वारिधारा वर्षाकाले यथा गिरे ।
चिक्षेप दूरतः पश्चाद् देवं सिन्दूरसुन्दरम्
॥२९॥बबन्ध तं सुतं वृक्षे वल्लीपाशशतैर्दृढम् ।
पुत्रस्नेहं परित्यज्य यमदूत इवापरः
॥३०॥मुक्तो दन्तैर्न हस्ताभ्यां पादाभ्यां म यथा भवेत् ।
उवाच पश्चात् तं पुत्रं देवस्त्वां मोचयिष्यति
॥३१॥स दाता भोजनं पानं गोपनं च करिष्यति ।
यदि चेद् गृहमायासि तदा सत्यं मरिष्यसि
॥३२॥मुनिरुवाच
विभज्य देवालयमाशु यातः कल्याणवैश्योऽतिरूषा निविष्टः ।
स्वमन्दिरं बध्य वन स्वपुत्रं दैवस्य योगादभवत्सुदुष्टः
॥३३॥तस्मिन्प्रयाते स च वैश्यपुत्रः शुशोच देवं मनसा विचिन्त्य ।
विघ्नारिरित्येव कथं नु देवनामाऽभवत् सर्वजनेषु गीतम्
॥३४॥दुष्टांश्च विघ्नानि न नाशयेस्त्वं दुष्टान्तकत्वेन कशं प्रसिद्धः ।
शेषोऽवनिं वा सविताऽथ दीप्तिं चन्द्रोऽमृतं वह्निरथोष्णतां च
॥३५॥त्यजेत्स्वभक्तान्न च सन्त्यजेथा वेदेषु शास्त्रेषु कथं प्रसिद्धिः ।
एवं विलप्याऽथ निजं शशाप कल्याणसंज्ञं पितरं सुदुष्टम्
॥३६॥येनेदं मम विध्वस्तं देवालयमनुत्तमम् ।
गणेशमूर्तिविक्षेपं ताडनं च ममाऽकरोत्
॥३७॥स चान्धो बधिरः कुब्जो मूको भवति निश्चितम् ।
यदि मे सुदृढा भक्तिर्द्विरदानन उत्तमा
॥३८॥तदोक्तं मम सत्यं स्यात्तस्य सर्वं मयोदितम् ।
न बद्धे भक्तिमनसी शक्तोऽसौ देहबन्धने
॥३९॥अनन्य बुद्ध्या परिचिन्त्य देवं त्यजामि देहं विजने वनेऽस्मिन् ।
पलायनं नैव कृतं यदैव तदैव देहोऽर्पित एष देवे
॥४०॥तस्यैवं निश्चयं बुद्ध्वा प्रादुरासीद् गजाननः ।
ब्राह्मणस्य स्वरूपेण बल्लालस्य प्रभावतः
॥४१॥यथा निशातमोऽपाये श्रीसूर्य उदयाचले ।
तथैव बन्धनान्यस्य तेजसा शिथिलानि च
॥४२॥जातानि तत एनं स नमश्चक्रेऽथ दण्डवत् ।
देहस्य चारुता जाता न क्षतं न च शोणितम्
॥४३॥ज्ञानं च निर्मलं जातं देवदेवस्य दर्शनात् ।
तुष्टाव विविधैर्वाक्यैर्यथामति गजाननम्
॥४४॥बल्लाल उवाच
त्वमेव माताऽसि पिताऽसि बन्धुस्त्वमेव कर्ताऽसि चराचरस्य ।
निर्मासि दुष्टाँश्च खलाँश्च साधून् योनौ वियोनौ विनियुङ्क्ष्यथापि
॥४५॥त्वमेव दिक्चक्रनभोधराब्धिगिरीन्द्रकालानलवायुरूपः ।
रवीन्दुताराग्रहलोकपालवर्णेन्द्रियार्थौषधिधातुरूपः
॥४६॥मुनिरुवाच
इति स्तुतिं समाकर्ण्य सुप्रसन्नो गजाननः ।
आलिङ्ग्य निजभक्तं तमुवाच घननिस्वनः
॥४७॥गजानन उवाच
प्रासादो येन भग्नो मे नरके स पतिष्यति ।
तव शापोऽपि तस्यैवं भविष्यति ममाज्ञया
॥४८॥अन्धोऽथ बधिरः कुब्जो मूकोऽसृक्स्रावसंयुतः ।
मम शापं समासाद्य भविष्यति न संशयः
॥४९॥पिता समातृकं चैनं करिष्यति गहात् बहिः ।
अन्यत् ते वाञ्छितं ब्रूहि दुष्प्रापमपि ते ददे
॥५०॥मुनिरुवाच
बल्लालोऽथाऽब्रवीद्देवं त्वयि भक्तिर्दृढाऽस्तु मे ।
अस्मिन्क्षेत्रे स्थिरो भूत्वा लोकान् रक्षस्व विघ्नतः
॥५१॥गणेश उवाच
त्वन्नामपूर्वं मन्नाम भविष्यति जने शुभम् ।
बल्लालविनायकेति नगरे सुप्रतिष्ठितम्
॥५२॥मयि चित्तं स्थिरं ते स्याद् भक्तिरव्यभिचारिणी ।
यात्रा मम करिष्यन्ति नगरे पल्लिसंज्ञिके
॥५३॥भाद्रपदशुक्लचतुर्थ्यां ये तेषां कामान् ददाम्यहम्
॥५४॥भृगुरुवाच
इति दत्वा वरं देवस्तत्रैवाऽन्तरधीयत ।
ततो विनायकं स्थाप्य बल्लालो ब्राह्मणैः सह
॥५५॥प्रासादं कारयामास नाना शोभासमन्वितम् ।
विश्वामित्र उवाच ।
बल्लालवैनायकेति कथितं ते कथानकम्
॥५६॥यच्छ्रुत्वा सर्वपापेभ्यो मुक्तः कामानवाप्नुयात्
॥५७॥इति श्रीगणेशपुराणे उपासनाखण्डे बल्लालविनायककथनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥