मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 105

3
क्रीडाखण्डः · 105

विश्वदेवभेदबुद्धिनिरासो नामपञ्चाधिकशततमोऽध्यायः

क उवाच

ततो भाद्रचतुर्थ्यां तु ते सर्वे मुनिबालकाः ।

मृदमाहर्तुमायाता विमलां तामथानयन्

॥१॥

स्वस्वबुद्ध्या विधायाशु मूर्तीर्नानाविधाः शुभाः ।

सिंहारूढा मयूरस्थाः काश्चिन्मूषकसंस्थिताः

॥२॥

नानायुधधरा नानादिव्यालङ्कारसंयुताः ।

चतुर्भुजा गणेशस्य दिव्यगन्धाम्बराः शुभाः

॥३॥

भक्त्या परमयाऽपूजन्नुपचारैः पृथक्पृथक् ।

मण्डपे ताः प्रतिष्ठाप्य पुष्पादर्शप्रभायुजि

॥४॥

पद्मपुष्पयुता माला ददुस्ताः सुमनोहराः ।

वाद्यत्सु तूर्यघोषेषु नगरी हर्षमाप सा

॥५॥

गौरी तस्यां जन्मतिथौ द्वादशाब्दिकमर्भकम् ।

स्नापयामास च ददौ वायनानि सुवासिनीः

॥६॥

सम्पूज्य विधिवत् भक्त्या हरिद्राकुङ्कुमादिभिः ।

एतस्मिन्नन्तरे दैत्यो विश्वदेव इति श्रुतः

॥७॥

भगवद्रूपमास्थाय श्रीमुद्राङ्कितमाययौ ।

शङ्खचक्रगदापद्मवनमालालसत्तनुः

॥८॥

तुलसीदामरुचिरो दिव्यवस्त्रानुलेपनः ।

कमण्डलु वारिपूर्णं वेणुदण्डं दधौ करे

॥९॥

गौरी तमतिथिं द्वारि तिष्ठन्तं प्राह भक्तितः ।

कुत आगम्यते ब्रह्मँस्तुष्टाऽहं तव तेजसा

॥१०॥

इत्युक्तः प्राह तां विप्रः श्रुतवानस्मि यत्पुरा ।

तदृष्ट्वा नयनाभ्यां ते परितुष्टं मनो मम

॥११॥

क्षुधया पीडितश्चाहं भवती गृहमागतः ।

पार्वत्युवाच ।

आस्यतां भुज्यतां स्वस्थं स च तत्रासनेस्थितः

॥१२॥

आसीनस्यमयूरेशो विष्टरेऽक्षालयत्तदा ।

चरणौ तत्तीर्थजलैः सिषेच सर्वतोऽमलैः

॥१३॥

अपोशानकरस्तूष्णीमासीच्चिन्तातुरो द्विजः

॥१४॥

उमोवाच द्विजं पश्चाद् भुज्यतां भुज्यतामिति ।

यदि नान्नं मनोयोग्यं तदा दास्येऽतिवाञ्छितम् ।

वद तच्छीघ्रमान्यष्ये शङ्करस्य प्रभावतः

॥१५॥

द्विज उवाच

क्षीरार्णवस्थितं देवं दृष्ट्वा नित्यं भुजन्म्यहम् ।

जलं पिबामि तच्चाद्य विस्मृतं मोहतो मया

॥१६॥

उमोवाच

पूर्वमेव कथं नोक्तो नियमस्ते द्विजोत्तम ।

पात्रादुत्थाय गन्तासि कथं सत्त्वविलुम्पक

॥१७॥

शङ्करः क्षोभमापन्नो न जाने किं करिष्यति

॥१८॥

मयूरेशोऽब्रवीत् तत्र यदि भावो दृढो हृदि ।

तदात्रैव भवेत्पद्मनाभेर्दर्शनमाशु ते

॥१९॥

प्रायोऽभाग्यं महद्दृष्टं यत्पक्वान्नं च पायसम् ।

त्यक्त्वा व्रजसि कुत्र त्वं मूढभावेन वा द्विज

॥२०॥

बहुजन्मतपोभिर्यत्कटाक्षो भुवि लभ्यते ।

तया ते परिविष्टान्नं कथं त्यजसि सुव्रत

॥२१॥

ब्रह्मादीनां न गम्या या दृष्टा साक्षात् त्वया शिवा ।

सर्वलोकस्य जननी सर्वयोषिद्वरा हि सा

॥२२॥

सर्वेषामेव देवानां शक्तिः सा परमाद्भुता ।

तद्दर्शनेन देवस्य विष्णोर्जातं हि दर्शनम्

॥२३॥

चकोरस्येवाग्निभुजो मिष्ठान्नं नैव रोचते ।

तथा किं ते न रोचेत देवान्नममृतोपमम् ।

मम वा सर्वरूपस्य दर्शने सा दृशिर्भवेत्

॥२४॥

द्विज उवाच

रमापतेरहं दासो न नमस्यामि किञ्चन ।

यदि त्वं सर्वरूपोऽसि यदि सामर्थ्यमस्ति ते

॥२५॥

तदा दर्शय विश्वेशं नारायणमनामयम् ।

एवं बुद्ध्वा दृढं तस्य निश्चयं स मयूरराट्

॥२६॥

अन्तर्धाय प्रादुरासीन्नारायणस्वरूपवान् ।

पीताम्बरः शङ्खचक्रगदापद्मधरो विभुः

॥२७॥

नानालङ्काररुचिरः सर्वालङ्कारसुन्दरः ।

कौस्तुभेन लसद्वक्षा वनमालाविभूषितः

॥२८॥

शेषशायी महालक्ष्म्या संवाहितपदाम्बुजः ।

विश्वदेवश्च तं दृष्ट्वा ननाम परिपूज्य च

॥२९॥

यातस्तन्मयतां भक्त्या विस्मृत्य च शरीरताम् ।

उवाच च चिदानन्दपरिपूर्णो द्विजोत्तमः

॥३०॥

अद्य धन्यं जनुर्मेऽद्य जीवितं च सुजीवितम् ।

अद्येयं नगरी धन्या धन्यौ तौ पितरौ मम

॥३१॥

मयूरेशोपदेशेन भवान्या दर्शनेन च ।

परात्परस्य विष्णोस्ते चराचरस्वरूपिणः

॥३२॥

लब्धं दर्शनमत्रैव सर्वान्तर्यामिणो विभोः ।

नारायणोऽपि तं भक्तं बाहुभिः परिषस्वजे

॥३३॥

उवाच च प्रसन्नात्मा बाष्पगद्गदया गिरा ।

मदर्थं त्यक्तवान्भुक्तिं क्षीराब्धेरहमागतः

॥३४॥

दृष्ट्वा ते निश्चयं भक्तिं दृढामव्यभिचारिणीम् ।

भक्तमार्गं प्रसिञ्चामि मारुतोद्धृतकण्टकम्

॥३५॥

भक्ततृषानिवृत्त्यर्थं जातोऽहं जलरूपधृक् ।

नानारूपधरो जातो भक्तानामार्तिनाशनः

॥३६॥

यथा भक्तः प्रियो नित्यमिति ते दर्शयाम्यहम् ।

अभूद् भाद्रचतुर्थ्यां हि मयूरेशमहोत्सवः

॥३७॥

मूर्तिं महीमयीं कृत्वा बर्ह्याखुसिंहगां पृथक् ।

नानालङ्कारशोभाढ्यां नानारङ्गैः सुशोभिताम्

॥३८॥

अनेकैः पूज्य तां सम्यग्बालकैर्मुनिसञ्चयैः ।

केचिदग्रे प्रगायन्ति केचिन्नृत्यन्ति भक्तितः

॥३९॥

वाचयन्ति पुराणानि प्रदक्षिणपराः परे ।

एतस्मिन्नन्तरे पौत्रो वसिष्ठस्य महात्मनः

॥४०॥

पराशर इतिख्यात आययौ स्वेच्छया मुनिः ।

स चतुर्वार्षिको मूर्तिं विदधे भक्तितत्परः

॥४१॥

शुष्कपर्णकृतां मालां कृत्वा तस्मै न्यवेदयत् ।

गन्धबुद्धया कर्दमेन तां व्यलेपयदादरात्

॥४२॥

मिष्टान्नानि च लड्डूकान् दक्षिणां च फलानि च ।

न्यवेदयत्तदा पत्रैरनेकैः कर्दमैरपि

॥४३॥

सङ्कल्पं लीलया चक्रे जङ्घावाद्यं शनैः शनैः ।

मुहूर्तं नर्तनं कृत्वा रुरोद भक्षयेति च

॥४४॥

सम्प्रार्थ्य मूर्तिं बहुधा ततः सा चेतनां ययौ ।

यद्यत्तेन यदुद्देशात्स्थापितं पुरतोऽभवत्

॥४५॥

तत्तथैव च सञ्जातं ततः साऽभक्षयत् तदा ।

लड्डूकान् मोदकान् नाना पक्वान्नं पायसान्वितम्

॥४६॥

विश्वदेवश्च तद् दृष्ट्वा मिथ्याभूतं यथार्थवत् ।

मृत्तिकान्नानि सत्यानि सर्वं पुष्पफलादिकम्

॥४७॥

सचेतनां च तां मूर्तिं षड्भुजां च पुनः पुनः ।

व्यलोकयद् विष्णुरूपां चतुर्बाहुविराजिताम्

॥४८॥

उवाच सततं देव किमिदं मृत्तिकाशनम् ।

मूर्तिरुवाच ।

भक्त्या यदर्पितं मह्यं सुधारससमं भवेत्

॥४९॥

अभक्तार्पितममृतं विषमेव भवेन्मम ।

क उवाच ।

एवं तद्वचनं श्रुत्वा विश्वदेवोऽब्रवीत्पुनः

॥५०॥

कस्ते भक्तो मम च तं दर्शयस्व सुरेश्वर ।

ततस्तस्य करं धृत्वा बहिरायान्मयूरराट्

॥५१॥

गृहे गृहे पूज्यमानं देवं तस्मै व्यदर्शयत् ।

शिखिनं स समारूढं मयूरेशमलोकयत्

॥५२॥

तत्रापि पर्यपश्यत् स विश्वदेवयुतं च तम् ।

नायं मम भवेत् स्वामीत्येवं बुद्धिं विसृज्यताम्

॥५३॥

गृहे गृहे विश्वदेवो नारायणमलोकयत् ।

सर्वत्र स ददर्शाऽथ पूज्यमानं गुणेश्वरम्

॥५४॥

क्वापि क्वापि मयूरेशं ददर्श विष्णुरूपिणम् ।

पुनरालोकयन् तत् तन्मयूरेशमलोकायत्

॥५५॥

भुजं स्वं परिगृह्यैव बहिर्यातं स्वलीलया ।

आक्षिप्य हस्तं स प्रायान्नायं स्वामी ममेति च

॥५६॥

अटन् गृहे गृहे सोऽथ पूज्यमानं ददर्श ह ।

मयूरेशं वाद्यघोषैर्नृत्यगीतैरनेकधा

॥५७॥

क्वापि दृष्ट्वा विष्णुरूपं नमस्कर्तुं यथावध ।

पुनर्मयूरेशरूपं ददर्श स शिखिस्थितम्

॥५८॥

गरुडारूढमन्यत्र शेषारूढं तथा क्वचित ।

नमस्कर्तुं यदा याति विश्वदेवो मुदा यतः

॥५९॥

तावद् सिंहमारूढं पश्यति स्म पुनः पुनः ।

भुञ्जन्तं च रमन्तं च स्वपन्तं च ददर्श सः

॥६०॥

ततः खिन्नो विश्वदेवो वसिष्ठद्वारमागमत् ।

ततोऽब्रवीमयूरेशः पश्य मे भक्तमुत्तमम्

॥६१॥

ततः पराशरं सोऽथ ददर्श पुरतः स्थितम् ।

मृन्मयैरुपचारैस्तं पूजयन्तं गुणेश्वरम्

॥६२॥

भक्षयन्तं च लड्डूकान् मृन्मयान् देवमेव च ।

पश्यति स्म पुनर्व्योम्नि जले भूमौ तमेव सः

॥६३॥

क्षणं नारायणं देवं मयूरेशं क्षणादपि ।

ततः स्वभेदबुद्धिं स्वां तत्याज भ्रान्तिमेव च

॥६४॥

सर्वभावेन तं नत्वा स्तुत्वाऽभेदधिया पुनः ।

अनुज्ञातो मुदा प्रायाद्विश्वदेवः स्वमाश्रमम्

॥६५॥

इति श्रीगणेशपुराणे क्रीडाखण्डे विश्वदेवभेदबुद्धिनिरासो नामपञ्चाधिकशततमोऽध्यायः ॥ १०५ ॥