षट्पञ्चाशद्विनायकवर्णनं नाम चतुःपञ्चाशदुत्तरशततमोऽध्यायः
ऋषय ऊचुः
किं पृष्टं सोमकान्तेन विमानवर्तिनाऽनघ ।
तद्वयं श्रोतुमिच्छामो वद सर्वमशेषतः
॥१॥सूत उवाच
गच्छता व्योममार्गेण पृष्टा दूता महात्मना ।
वाराणसीस्थितानां तु गणेशानां महात्मनाम्
॥२॥नामानि परिवाराणां तानि नः शृणुतानघाः ।
राजोवाच ।
दूता वदन्तु कृपया विश्वेशपरिवारगान्
॥३॥गणेशान्मम कार्त्स्न्येन स्मरणात्सर्वसिद्धिदान् ।
दूता ऊचुः ।
कथयामः समासेन विश्वेशावरणे गतान्
॥४॥गणेशान् क्रमशो राजन् शृणु सर्वभयापहान् ।
दुर्गा विनायकोऽथार्क भीमचण्डी विनायकः
॥५॥देहलीगणपश्चाथ तथोद्दण्डविनायकः ।
पाशपाणिः सर्वविघ्नहरणोऽथ विनायकः
॥६॥प्रथमावरणे सिद्धसिद्धिरूपो विनायकः ।
लम्बोदरः कूटदन्तः शूलटङ्क विनायकः
॥७॥कूष्माण्डाख्यश्चतुर्थश्च पञ्चमो मुण्डसंज्ञकः ।
विकटद्विजसंज्ञस्तु राजपुत्रविनायकः
॥८॥प्रणवाख्योऽथापरश्च द्वितीयावरणे स्थिताः ।
वक्रतुण्ड एकदन्तस्त्रिमुखश्च विनायकः
॥९॥विघ्नराजश्चतुर्थोऽथ वरदश्च विनायकः ।
पञ्चास्यश्चापरश्चात्र हेरम्बश्च विनायकः
॥१०॥मोदकप्रिय इत्येव तृतीयावरणे स्थिताः ।
विनायकोऽभयप्रदः सिंहतुण्डविनायकः
॥११॥कुणिताक्षश्चापरश्च क्षिप्रप्रसादसंज्ञकः ।
चिन्तामणिरिति ख्यातो दन्तहस्तविनायकः
॥१२॥प्रचण्डश्चाप्यपरश्चोद्दण्डमुण्डविनायकः ।
चतुर्थावरणे ज्ञेया अष्टावेते विनायकाः
॥१३॥स्थूलदन्तो द्वितीयस्तु कलिप्रियविनायकः ।
चतुर्दन्तो द्वितुण्डश्च ज्येष्ठो गजविनायकः
॥१४॥कालाख्यश्च तथा ज्ञेयो नागेशाख्योपरोऽपि च ।
पञ्चमावरणे ज्ञेया अष्टावेते विनायकः
॥१५॥मणिकर्णविनायक आशासृष्टिविनायकः ।
यक्षाख्यो गजकर्णाख्यश्चित्रघण्टविनायकः
॥१६॥सुमङ्गलश्च मित्राख्य एते षष्ठे विनायकः ।
मोदः प्रमोदः सुमुखो दुर्मुखश्च विनायकः
॥१७॥गणपाख्योऽथापरश्च तथा ज्ञान विनायकः ।
सप्तमावरणे ज्ञेयास्तथा द्वारविनायकः
॥१८॥अविमुक्तोऽष्टमो यत्र मोक्षदोऽथ विनायकः ।
अन्यो भगीरथाख्यो हि हरिश्चन्द्रविनायकः
॥१९॥कपर्दीति परो ज्ञेयस्तथा बिन्दुविनायकः ।
एतेषां स्मरणं नित्यं सर्वकामफलप्रदम्
॥२०॥प्रातरुत्थाय यश्चैतान् पठते शुद्धमानसः ।
न तस्य विघ्ना विघ्नं हि कुर्वन्ति सर्वकर्मसु
॥२१॥एकैकनाम्ना राजेन्द्र दूर्वाभिस्तण्डुलैरपि ।
तिलैः शमीदलैश्चैतान् पूजयेद् भक्तिमान्नरः
॥२२॥असाध्यं साधयेत्कार्यं सर्वत्र विजयी भवेत् ।
आयुष्यं पुष्टिमारोग्यं प्राप्नुयाद्धनमुत्तमम्
॥२३॥इदं ते कथितं सर्वं यद्धि पृष्टं त्वया नृप ।
तूष्णीं ययुर्देवदूतास्ततो धाम निजं मुदा
॥२४॥सूत उवाच
इदं तत्कथितं विप्रा विश्वेशावरणं मया ।
इदानीं कथयिष्यामि पुराणस्य फलश्रुतिम्
॥२५॥इति श्रीगणेशपुराणे क्रीडाखण्डे षट्पञ्चाशद्विनायकवर्णनं नाम चतुःपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५४ ॥