कमठासुरवधो नाम सप्ताशीतितमोऽध्यायः
क उवाच
व्योमासुरस्य भगिनी तस्य दुःखेन दुःखिता ।
निशामुखे दर्शदिने समुत्पन्ना क्षुधातुरा
॥१॥भक्षयामास महिषान् शतसङ्ख्यान्महाबलान् ।
करालकेशीलम्बोष्ठी तालनासा दरीमुखा
॥२॥हलदन्ता कूपनेत्रा श्रोतावरणसंयुता ।
दीर्घस्तनी महाघोरा भूमिस्पृक्वचका खला
॥३॥दीर्घबाहुर्निम्ननाभिर्गोधेव कर्कशा त्वचि ।
नाम चक्रुस्तदा लोकाः शतमाहिष भक्षणात्
॥४॥अन्वर्थं भावदुष्टायाः स्फुटं तु शतमाहिषा ।
सा ययौ बन्धुहन्तारं हन्तुं बन्धुप्रियङ्करी
॥५॥कमनीयतरा भूत्वा सर्वावयवसुन्दरा ।
नानालङ्कारसंयुक्ता गौरा षोडशवार्षिकी
॥६॥कृत्वा षोडशशृङ्गारान्मोहयन्ती कटाक्षतः ।
सा ययौ दुष्टभावेन गिरिजालयमुत्तमम्
॥७॥प्रणनाम शिवां चादौ प्रोवाच परमादरात् ।
धन्याऽहं कृतकृत्याऽहं प्राप्ताऽहमीप्सितं फलम्
॥८॥यतस्त्वं सर्वजननी सर्वदेवमयी शुभा ।
सर्वध्येया सर्वसिद्धिः सर्वकारणकारणम्
॥९॥जगन्मोहनदक्षा त्वं पुण्येन दृष्टिमागता ।
क उवाच ।
श्रुत्वा वाचं तदीयां सा प्रोवाच गिरिजा तु ताम्
॥१०॥उत्तिष्ठोत्तिष्ठ भद्रं ते सन्तुष्टाऽहं तवेक्षणात् ।
कस्यासि कुत आयासि किमर्थं च वराङ्गने
॥११॥कामं ते पूरयिष्यामि वद सत्यं ममाग्रतः ।
शतमाहिषा उवाच ।
अहं चिरं वियोगार्ता शरणं त्वामुपागता
॥१२॥श्रुतं स्यादमरावत्या नायकोऽसुरवर्जितः ।
स लीनः क्वापि गिरिजे सर्वे देवगणा अपि
॥१३॥त्वं तु भाग्यवती देवि न वियोगो हरस्य ते ।
सह्यं भवेत्सर्वदुःखमसह्यं तु वियोगजम्
॥१४॥पार्वत्युवाच
बालोऽयं मम सुभगे हनिष्यति खलान्बलात् ।
मोचयिष्यति देवान्स कालः कश्चित्प्रतीक्ष्यताम्
॥१५॥एतदर्थं गणेशेन धृतो देहो ममालये ।
भूभारोत्तारणार्थाय मुनीनां पालनाय च
॥१६॥क उवाच
इत्युक्त्वा पूजयामास पादक्षालनपूर्वकम् ।
सखीभिः कुङ्कुमाद्यैश्च भोजयामास सादरम्
॥१७॥सापि भुक्त्वा शिवातल्पे सुष्वापोवाच तत्सखीः ।
गिरिजाबालकं सख्य आनयन्तु ममान्तिकम्
॥१८॥विश्वस्ताः सर्वसख्यस्ता ददुर्बालं तु तत्करे ।
लालयामास सा स्नेहान्मुखचुम्बनवल्गनैः
॥१९॥तज्जिघांसां स विज्ञाय सर्वज्ञः स शिवात्मजः ।
राक्षसीमिति निश्चित्य हस्ताभ्यां श्रोत्रयोरधात्
॥२०॥नासिकां च ततो भारं महापर्वतसन्निभम् ।
तदङ्गं पातयामास सा च श्वासनिरोधतः
॥२१॥विव्हला परिचिक्षेप पादाघातान् शिशौ भृशम् ।
मुञ्च मुञ्चेति भाषन्ती कौतुकं द्रष्टुमागताम्
॥२२॥कथं हंसि स्त्रियं दुष्ट त्वनागस्कां शिवासमाम् ।
क उवाच ।
तदाक्रन्दनमाकर्ण्य सखीभिः सह पार्वती
॥२३॥आगता मोचितुं पुत्रं नाशकत् तमुवाच सा ।
न मारयाशु मुञ्चैनां शक्रस्य महिषीं प्रियाम्
॥२४॥श्रुत्वा मातृवचो बालो दूरे चिक्षेप तां तदा ।
पपातोपरि व्याजेन क्षणात्सोऽभ्युदतिष्ठत
॥२५॥तत्कर्णं नासिकाहस्तो दृष्टः सासृक्स्रवोऽपि च ।
तदङ्घ्रिघातात्सा प्राणांस्तत्याज क्षणमात्रतः
॥२६॥गतासुं तां शुशोचाऽथ पार्वती स्नेहनिर्भरा ।
उवाच चपलो बालो दुर्यशोऽर्जितवानयम्
॥२७॥श्रुत्वा शचीं हतामिन्द्रः किं वागत्य करिष्यति ।
ददर्श पुरतो गत्वा राक्षसीं तां शिवाऽशिवाम्
॥२८॥दशयोजनविस्तीर्णां क्षतभूभूरुहां तदा ।
तत्याज शोकं जहृषे प्रशशंस निजं सुतम्
॥२९॥आदाय सुतमव्यङ्गं पार्वती मन्दिरं ययौ ।
विस्मापयत्यसौ बाला शङ्किता बालपौरुषम्
॥३०॥विस्मयं पौरुषे तस्य समपद्यत पार्वती ।
तत्सख्यच्छिन्नकर्णां तां छिन्ननासां व्यलोकयन्
॥३१॥कथमस्या लाघवं च कथमस्य बलं शिशोः ।
अहसन्प्रावदन्नित्थं दत्त्वा तालं परस्परम्
॥३२॥ततस्तां राक्षसीं दूराच्चिक्षिपुः प्रमथास्तदा ।
अरिष्टे विहते गौरी ददौ दानानि भक्तितः
॥३३॥ततस्तु सप्तमे मासे प्रवृत्ते निद्रिते जने ।
तमसा सर्वतो व्याप्ते दशदिङ्मण्डलेऽखिले
॥३४॥निशीथेऽरण्यपशुषु रुवत्सु दर्दुरेषु च ।
पर्यङ्के परिसुप्तायां पार्वत्यां दिव्यसंस्तरे
॥३५॥सखीजने निद्रिते च सेवकान्ना गणेतथा ।
एतस्मिन्नन्तरे दुष्टो नाम्ना यः कमठासुरः
॥३६॥आच्छादयत्स्वदेहेन शिवाप्राङ्गणमद्भुतम् ।
यस्य स्पर्शेन सहसा शीर्यते वज्रसंहतिः
॥३७॥अतिशीतलगात्रः स पार्वणश्चन्द्रमा इव ।
उदिते तु दिवानाथे तत्पृष्ठे विचरञ्जनाः
॥३८॥केचित्स्नात्वा स्थिता जप्तुं केचिन्निद्रां प्रचक्रिरे ।
स्खलित्वा पतिताः केचिदतिकोमलदेहतः
॥३९॥सिषिचुर्बालिका वारि गोमयैरङ्गमालिकाः ।
चक्रुस्ततो बहिर्याता सबाला गिरिजा तदा
॥४०॥आस्वापयत्सुतं गौरी महार्हास्तरणेऽत्र सा ।
सखीस्तत्र च संस्थाप्य ययौ सा सेवितुं शिवम्
॥४१॥एवं ज्ञात्वाऽसौ कमठः स्वस्य पृष्ठमचालयत् ।
भूमिकम्पः कथमिह किं वारिष्टं भविष्यति
॥४२॥इत्यब्रुवंस्थितास्तत्र गणाश्चकितमानसाः ।
निद्रिताः प्रतिबुद्धास्ते किं जातमिति चाब्रुवन्
॥४३॥तदैव तेन बालेन सर्वज्ञेन विवर्तता ।
उदरं तस्य पृष्ठे तु न्यधायि धर्षता भृशम्
॥४४॥चतुर्दशभुवनजं भारं निदधताऽत्र च ।
निरुद्धश्वासवायुः सोंऽगानि स्वानि व्यचालयत्
॥४५॥अस्रवद् रक्तमतुलमस्य देहात् तथाविधात् ।
उड्डानं कर्तुमारेभे नाशकत्कमठस्ततः
॥४६॥ततो गणा ययुः सर्वे ये तत्रासन्सुखोषिताः ।
किमरिष्टं समुत्पन्नं मुहूर्भूश्चलते नु किम्
॥४७॥सख्यश्च बालिकाः सर्वाः पार्वतीं सेवितुं ययुः ।
उत्तिष्ठ मातर्बालस्ते नीतः स्याद्वा मृतोऽपि वा
॥४८॥त्वरया पार्वती याता धावमाना बहिः सुतम् ।
ददर्श निश्चलं गौरी सोत्थापयितुमुद्यता
॥४९॥भूगोलभारसदृशं मत्वा तस्थौ विमानसा ।
ततो ममर्द सहसा बालस्तं स ममार च
॥५०॥ततः सा ददृशे दैत्यं दशयोजनमायतम् ।
प्रसारितमुखं कूर्मं वमन्तं रुधिरं बहु
॥५१॥चूर्णयामास सहसाऽऽश्रमान् नानाविधान्द्रुमान् ।
ततः सा बालमादाय स्तनपानं ददौ मुदा
॥५२॥न ज्ञायतेऽसुराणां हि नानामायां प्रकुर्वताम् ।
त्रिलोचनप्रसादेन पुनर्लब्धः सुतो मया
॥५३॥यतः कृतान्ताद्बलवान् निहतः कमठासुरः ।
सख्यश्च तद्गणाः प्रापुः पप्रच्छुः क्षेममर्भके
॥५४॥क्षेममित्येवतान्गौरी निजगाद मुदान्विता ।
ततो गणाः खण्डशस्तं कृत्वा दूरतरं जहुः
॥५५॥ववर्षुः पुष्पवर्षाणि तस्मिन्देवगणास्तदा ।
य इदं परमाख्यानं शृणुयाच्छ्रावयेत्तथा
॥५६॥सर्वारिष्टविनिर्मुक्तः सर्वान्कामानवाप्नुयात्
॥५७॥इति श्रीगणेशपुराणे क्रीडाखण्डे शतमाहिषा-कमठासुरवधो नाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥