मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 124

3
क्रीडाखण्डः · 124

चतुर्विंशत्युत्तरशततमोऽध्यायः

क उवाच

पतिते सिन्धुदैत्ये तु हतशेषा रणे स्थिताः ।

आययुर्गण्डकीं यावत्तावत्ते चिन्तयायुताः

॥१॥

उग्रा दुर्गा चक्रपाणिरतिष्ठन् विह्वला भृशम् ।

तावत् तेषां दुष्टचिन्हं बभूव विविधं तदा

॥२॥

उदक्शिराः प्रसुष्वाप काश्चित्तत्राशुभावहः ।

जानुनोर्मस्तकं न्यस्य तस्थौ तूष्णीं चलन्निव

॥३॥

हनौ पाणितलं न्यस्य तस्थौ काचिन्मुदं विना ।

एतस्मिन्नन्तरे दूता यमदूता इवाययुः

॥४॥

अतिम्लानमुखा दीना नाब्रुवन्मूकतां गताः ।

पृष्टास्ते प्राहुरपरे वृत्तान्तं रणभूगतम्

॥५॥

दूता ऊचुः

असङ्ख्यातान् महावीरान् हत्वा सिन्धुर्दिवं गतः ।

बालानस्मान् परित्यज्य तेन हीना रुदामहे

॥६॥

निरीक्ष्य देवान् निहतान् क्रुद्धोऽगाद् गिरिजासुतः ।

अस्त्रैरस्त्राणि संवार्य मुमोच परशुं शितम्

॥७॥

तेन सिन्धुर्मृतस्तत्र पतितो धरणीतले ।

मुमूर्छस्तत्र सर्वेऽपि तदीया नागराश्च ह

॥८॥

श्रुत्वा वार्तां दूतमुखाद् रुरुदुः सर्व एव ते ।

विललापाथ दुर्गा सा जघान शिर उत्कटम्

॥९॥

मुक्तकेशा मुहुर्वक्त्रं निघ्नती गतभूषणा ।

उग्रा च जननी चास्य चक्रपाणिः पिता तदा

॥१०॥

पौराश्च रुरुदुस्तत्र निघ्नन्तः पाणिना मुखम् ।

अवनौ शिर आस्फाल्य लुलुण्ठर्घोरनिस्वनाः

॥११॥

कश्चिद्धूलिं निचिक्षेप मुखे शिरसि दुःखितः ।

हस्तपृष्ठं ददंशान्यास्ताभ्यां भूमिमथाहनत्

॥१२॥

अशपन् निगरिजापुत्रं स्त्रियो भङ्क्त्वा कराङ्गुलीः ।

उग्रोवाच ।

नानायत्नैस्तपसा सूर्यतुष्ट्या नत्या स्तुत्या लङ्घनैः सर्वदानैः ।

प्रातःकालान् मा हतस्त्वं कथञ्चिच्छूरो मानी केन नीतोऽसि रें त्वम्

॥१३॥

त्रिलोकनायकेनाऽहं श्लाघ्या त्रैलोक्यमण्डले ।

शपिष्यन्ति च मां लोका हतभाग्यासि साम्प्रतम्

॥१४॥

जितः कृतान्तः पूर्वं ते कथं तेन समागमः ।

प्राप्तस्त्वया कथं पुत्र न जितः पुनरेव सः

॥१५॥

सकामो गिरिजापुत्रस्त्वयि याते दिवं सुत ।

मामपृष्ट्वा कथं यातः स्वर्ग लोकं सुखावहम्

॥१६॥

दुःखितायां मयि सुत कथं सन्तोषमेष्यसि ।

गर्जन्ति नैव जीमूतत्स्त्वयि गर्जति पुत्रक

॥१७॥

निःशब्दः स कथं पुत्र पतितस्त्वं रणागणे ।

दुर्गोवाच ।

देहैक्यं कृतवान् धाता दम्पत्योर्वेददर्शनात्

॥१८॥

प्राणैक्यं न कृतं कस्माद्ब्रह्मणा मूढबुद्धिना ।

नाहं शचीं च सावित्रीं सौभाग्यमदगर्विता

॥१९॥

गणयामि न चान्याश्च सा कथं विधवाऽभवम् ।

स्वहस्तेन च कस्तूरीं चन्दनं च यदा भवान्

॥२०॥

चर्चति स्म तदाङ्गानि शीतलानि ममाऽभवन् ।

इदानीं दह्यमानानि शोकेन तानि निर्वप

॥२१॥

न भक्षयसि पूर्वं त्वं मद्विना विषमण्वपि ।

स कथं मां विना स्वर्गसुखं भोक्ष्यसि तादृशम्

॥२२॥

अपराधं विना भृत्ये नोदासीना भवन्ति हि ।

साधवः समशीलाश्च तत्कथं मामुपेक्षसे

॥२३॥

उपाधिरहितं प्रेम कृतं नानाविधं पुरा ।

अनिर्वाच्यं कथं त्यक्त्वा तद्गतोऽसि सुरान्तक

॥२४॥

क उवाच

तपोवृद्धा ज्ञानवृद्धाः प्राब्रुवन्निष्ठुरं वचः ।

न रोदनं प्रशंसन्ति धर्मशास्त्रविदो जनाः

॥२५॥

यदश्रु सुहृदामास्ये प्रेतस्य तत्पतेद् धृवम् ।

तस्मात्तस्य हितं यत् स्यात् तत् कर्तव्यं दयावता

॥२६॥

विचार्यमाणे तस्यापि मोक्षोऽदायि कृपावता ।

निर्गुणेन चिदानन्दघनेन ब्रह्मरूपिणा

॥२७॥

दयापरवशाज्जन्म बिभ्रता लोकशङ्कृता ।

मयूरेशेन सङ्ग्रामे निघ्नता सम्मुखं च तम्

॥२८॥

आत्मनो नैव मरणं नोत्पत्तिः क्वापि विद्यते ।

अनादित्वान्निर्गुणत्वान्नित्यत्वाद् वेदनिश्चयात्

॥२९॥

स्वार्थं हि रोदते जन्तुर्हितं प्रेतस्य नेहते ।

असङ्ख्य भारवाड्देवी न भारं सहते धरा

॥३०॥

प्रेतस्य शेषः कमठो वराहोऽसौ धराधरः ।

इत्युक्त्वा ते तदा शोकं विजहुर्बुद्धवाक्यतः

॥३१॥

उग्रा च चक्रपाणिश्च दुर्गा च सखिभिः सह ।

नागराश्चापि शोचन्तो ययुः सङ्ग्राममण्डलम्

॥३२॥

ददृशुः सेवकैः सिन्धुं वीज्यमानं रणाङ्गणे ।

पतितं वक्त्रकमलं व्यादाय सितलोचनम्

॥३३॥

असृक्स्रवन्तं दुर्गन्धं पक्षिश्वापदसङकुलम् ।

उपविष्टास्तु परितः शोचन्तो भृशदुःखिताः

॥३४॥

अङ्के कृत्वा शिरस्तस्य दुर्गाऽशोचत् खरस्वना ।

पादसंवाहनं नाथ हस्ताभ्याम् पूर्वमाचरम्

॥३५॥

जनमध्ये न तच्छक्यमुत्तिष्ठ प्राणनायक ।

शत्रौ जीवति निद्रां त्वं कथं विराधिगच्छसि

॥३६॥

तन्मुखे स्थापयित्वास्यं हाहाकारं च साऽकरोत् ।

न्यषेधन् वृद्धविज्ञास्तां तत उग्राऽब्रवीद् वचः

॥३७॥

चक्रपाणिः पिता चास्यं क्षालयन्तौ शुशोच तम् ।

उत्तिष्ठ वत्स किं शेषे शेषे रिपुगणे सति

॥३८॥

वज्री वज्राहत इव पतितो धरणीतले ।

इदानीं बाल युद्धे त्वं कथं निपतितो भुवि

॥३९॥

जितः कृतान्तो भूक्षेपात् तद्वशं कथमागतः ।

किञ्चिद्वाक्यं वद विभो हृदयानन्दकारकम्

॥४०॥

यस्य शब्देन त्रैलोक्यं कम्पते स्म पुराऽनघ ।

कथं स्ववचनं नाद्य वदसे मन्दविक्रम

॥४१॥

नावाभ्यामपराद्धं ते येन मौनं त्वमाश्रितः ।

न भाषसे रोषवशात् सेनाशेषसमन्वितः

॥४२॥

कथं विव्हलतां यातः कामं यो जितवान् रुचा ।

ततो विज्ञाश्च वृद्धाश्च नानादृष्टान्तदर्शनैः

॥४३॥

समादध्युः प्ररुदतो मृतानुमरणं न हि ।

रामो दाशरथिः किं नु लोकान्तरगतो न हि

॥४४॥

विक्रमेण रिपूं जित्वा गतः किं न रघूत्तमः ।

अन्येऽपि शतशो भूपास्त्वत्कृते मरणं गताः ।

कीर्तिं नानाविधां कृत्वा स्वर्गस्थाः सुखमश्नुते

॥४५॥

क उवाच

ततस्ते संस्कृतिं चक्रुर्बिल्वचन्दनदारुभिः ।

दुर्गा सहैव संयाता पातिव्रत्यगुणान्विता

॥४६॥

ततो ययौ मयूरेशं चक्रपाणिः सनागरः ।

नमस्कृत्य प्रतुष्टाव बद्धाञ्जलिपुटः शनैः

॥४७॥

राजोवाच

निर्गुणस्त्वं परात्मासि चराचरगतिर्विभो ।

त्रयीगम्यो गुणाध्यक्षो विरजो विश्वनायकः

॥४८॥

तवैव मायया देवा मोहितस्त्वां न ते विदुः ।

अहं धन्यो नागरिका धन्यास्त्वद्दर्शनाद्विभो

॥४९॥

क उवाच

एवं तेन स्तुतो देवः करुणाब्धिर्मयूरराट् ।

उवाच परमप्रीतः सर्वशास्त्रार्थतत्त्ववित्

॥५०॥

देव उवाच

वरं वरय मत्तस्त्वं चक्रपाणे हतार्भक ।

राजोवाच ।

यदि तुष्टोऽसि देवेश यदि देयो वरो मम

॥५१॥

तदा गृहानुपागच्छ पुनीहि नगरीमिमाम् ।

क उवाच ।

एवमाकर्ण्य तद्वाक्यं बर्हिणं स समारुहत्

॥५२॥

ययौ स नगरं पश्चात् त्र्यम्बको गिरिजायुतः ।

अग्रतस्ते गणाः सर्वे मुनयो हर्षनिर्भराः

॥५३॥

वाद्यत्सु सर्ववाद्येषु युयुस्ते गण्डकीं पुरीम् ।

नानाध्वजपताकाभिर्युतां संसिक्तपद्धतिम्

॥५४॥

इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धुनिरुद्धदेवगणमोचनं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ॥ १२४ ॥