हेमकण्ठदर्शनं नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः
सूत उवाच
उपरिष्टाद् ददर्शाऽथ नृपो दैवपुरं निजम् ।
जहर्ष गोपुराट्टालशोभां दृष्ट्वाथ काञ्चनीम्
॥१॥ततः सुधर्मा सस्मार सभां रम्यां समीक्ष्य ह ।
निजं पुत्रं स्नेहवशात् प्राह गद्गदभाषिणी
॥२॥हेमकण्ठो मम सुतो भद्रासनगतो भवेत् ।
पित्रोर्मार्गं प्रतीक्षन्स जाते संवत्सरेऽधुना
॥३॥स्वामिन् कृपानिधे तस्य दर्शनं दातुमर्हसि ।
स्त्रियो वाक्यं निशम्यैवं शुशोच नृपतिस्तदा
॥४॥नृप उवाच
हेमकण्ठो मम सुतो जीवन् स्याद् वा मृतो भवेत् ।
उक्तमासीन्मया चास्मै वत्सराद् दर्शनं भवेत्
॥५॥अनृतात् कुत्र गच्छेयं नोक्तमासीत् कदाचन ।
न तत्र गन्तुं नो हातुं शक्तोऽहं परमं पदम्
॥६॥विरुद्धं कथमेतद्धि घटेतेत्यरुदद् भृशम् ॥
दृष्ट्वा दूतास्तयोः शोकमब्रुवन् राजसत्तमम्
॥७॥युवयो रोदनं श्रुत्वा कृपा नः समुपागता ॥
क्षणमुत्तारयामोऽत्र दृष्ट्वा तं यात सत्वरम्
॥८॥जाते भवत्समाधाने सन्तोषो नः परो भवेत् ।
तत उत्तारयामासुर्दूता देवपुरादुदक्
॥९॥विमानं तद्गणेशस्य पुराणश्रवणागतम् ।
नगरं प्रभया व्याप्तं वाद्यघोषैश्च नादितम्
॥१०॥सुबलो ज्ञानगम्यश्च नमस्कृत्य नृपं गणान् ।
ईयतुर्हेमकण्ठं तं सर्ववृत्तान्तमीरितुम
॥११॥क्षणाद् भद्रासनगतं हेमकण्ठमपश्यताम् ।
सन्नद्धैर्वीरमुख्यैश्च परिवीतं महाबलैः
॥१२॥अमात्यनागरैर्युक्तमीक्षन्तं नृत्यमुत्तमम् ।
तदमात्यौ ज्ञानगम्यं सुबलं समपश्यताम्
॥१३॥उत्तस्थुः सर्ववीराश्व सामात्यो हेमकण्ठकः ।
आलिङ्गनाय ते सर्वे तयोः प्रापुः सुसम्भ्रमम्
॥१४॥तेषामालिङ्गने जाते ततो नृपसुतो ययौ ।
हर्षेण महता युक्तः सरोमाञ्चोऽब्रवीच्च तौ
॥१५॥मम माता पिताऽमात्यौ क्षेमयुक्तौ न वा क्वचित् ।
त्यक्त्वा तौ पितरौ यातो युवामेकाकिनौ कथम्
॥१६॥एवमुक्त्वा स्वासने तावुपवेश्य प्रपूज्य च ।
वस्त्रचन्दनभूषादिफलताम्बूलकाञ्चनैः
॥१७॥तयोर्विना मम प्राणाः कण्ठमात्रावलम्बिनः ।
अहर्निशं तयोर्ध्यानं नान्यस्य मम मानसे
॥१८॥पिता मे प्रावदत् पूर्वमेकदा दर्शनं पुनः ।
दास्यामीति कथं तच्चानृतं वाक्यं करिष्यति
॥१९॥तावूचतुः
मा कुरुष्व वृथा चिन्तां पित्रोस्ते कुशलं नृप ।
तयोः पुण्यप्रभावं को जानाति भुवनत्रये
॥२०॥अनुज्ञां भवतो गृह्य निर्गता नगराद् वयम् ।
चत्वारोऽपि पितुस्तेऽभूत् सौकुमार्यादिकं महत्
॥२१॥क्षुधया पीडितोऽत्यन्तं रक्तस्रावि पदाम्बुजम् ।
कन्दमूलैः फलैस्तृप्तिर्न चासीत् तस्य भूपतेः
॥२२॥मातुस्तेऽपि यथावस्था चेलतुर्न पदं तदा ।
भ्रमद्भिर्बहुधा पश्चाद् दृष्टं चारु सरो महत्
॥२३॥शीतलं वृक्षवल्लीभिस्तत्र सुष्वाप भूमिपः ।
सुधर्मा पादसंवाहं चकार श्रमकर्षिता
॥२४॥आवां तु कन्दमूलार्थे यातस्तत्राययौ मुनिः ॥
च्यवनो मुनिशार्दूलो जलार्थे तौ ददर्शह
॥२५॥तयोर्हार्दं स गृह्यैव निजमाश्रममाययौ ॥
तत आवां समायातौ गृह्य मूलफलं बहु
॥२६॥सर्वे तदाश्रमे याता मुनिना पूजिता भृशम् ।
भोजिताः षड्रसैश्चान्नैर्विश्रान्तिं परमां गताः
॥२७॥ततःकथाप्रसङ्गोऽभून्मुनिना च नृपेण च ।
सर्वं चाकथयद्राजा वृत्तान्तं मुनये तदा
॥२८॥ततो मुनिर्ध्यानबलात् पूर्वं जन्मास्य सञ्जगौ ।
दुरितं तच्छमोपायमब्रवीत् करुणायुतः
॥२९॥दुरितश्रवणेचास्य सन्त्रासो नौ नृपाभवत् ।
स सन्दिग्धमना यावत् तावद् देहाद् विनिर्गताः
॥३०॥पक्षिणः श्वेतवर्णास्तमारब्धा भक्षितुं नृपम् ।
तेषां चञ्चुप्रहारेण विव्हलः पतितो नृपः
॥३१॥रक्ष रक्षेति कारुण्यात्प्रोक्तः प्रार्थनया मुनिः ।
तस्य प्रेक्षणमात्रेण पक्षिणोऽन्तर्दधुः क्षणात्
॥३२॥स तु हस्तयुगं बद्धवा तस्थौ मुनिमुखो नृपः ।
महज्ज्ञात्वा नृपैनः स भावयामास भक्तितः
॥३३॥गणेशस्य पुराणं यद् वर्षमात्रं कृपानिधिः ।
अष्टोत्तरशतेनादौ देवनाम्ना प्रसिच्य च
॥३४॥तदङ्गात् पुरुषं घोरं निष्कास्य तपसो बलात् ।
व्योमकेशो ललज्जिव्हो व्याकुलः क्षुधया भृशम्
॥३५॥भक्ष्यं ययाचे स भृगुं सोऽवदत् तं पुरस्थितम् ।
भक्षयस्वाम्रवृक्षं त्वं महान्तं शुष्कमेव च
॥३६॥तेन स्पृष्ट आम्रवृक्षो भस्मसादभवत् क्षणात् ।
ततस्तं धीवरं प्राह भक्षयस्वेत्यसौ मुनिः
॥३७॥ततो नृपं मुनिः प्राह पुराणश्रवणं महत् ।
श्रेयो निक्षिप नित्यं त्वमस्मिन् भस्मनि भूमिप
॥३८॥यावच्चूतस्य वक्षोऽत्र भवेदन्यो यथा पुरा ।
ततस्त्वमपि राजेन्द्र दिव्यदेहो भविष्यसि
॥३९॥तथैव स नृपश्चक्रे स्नात्वा श्रुत्वा कथां बहु ।
न्यक्षिपत् प्रत्त्यहं श्रेयस्तस्मिन् भस्मनि भक्तितः
॥४०॥संवत्सरान्ते वृक्षोऽसौ भवन्नृप यथा पुरा ।
गणेशस्य पुराणे तु समाप्ते फलपुष्पवान्
॥४१॥नपोऽपि दिव्यकान्तिः स शशिसूर्यनिभोऽभवत् ।
यावन्नृपो मुनिं स्तौति विमानं तावदागतम्
॥४२॥नृत्यगीतसमायुक्तं वाद्यघोषनिनादितम् ।
गणेशदूतसंयुक्तमाश्रमान्तिकमास्थितम्
॥४३॥यच्छोभां पश्यतोर्नाथ दृशो नौ सफलाः किल ।
अतिपुण्यात् पितुस्ते ते दूता देवाज्ञया नृपम्
॥४४॥न्यक्षिपन् यानमध्ये नौ नृपेक्षणप्रणोदिताः ।
सुधर्मा च मुनेराज्ञां गृह्य याता विमानगा
॥४५॥दृष्टं देवपुरं यावत् तावत् त्वत्स्मृतिरागता ।
अत उत्तारितं यानं उत्तरे नगरान्नृप
॥४६॥दिदृक्षया पितृभ्यां ते तौ यातौ त्वां निवेदितुम् ।
तयोः शीघ्रं दर्शनाय याहि नो चेद् गमिष्यति
॥४७॥तयोर्वाक्यं निशम्यत्थं हेमकण्ठस्त्वरान्वितः ।
रोमाञ्चाश्रुसमायुक्तो धावमानः श्रुताखिलः
॥४८॥ययौ तद्दर्शनौत्सुक्यात् पुरस्कृत्य तदा तु तौ ।
विशीर्णभूषणगणो नागरैः सेवकैर्वृतः
॥४९॥गलदश्रुः क्षणात् प्राप विमानं गणसङ्कुलम्
॥५०॥इति श्रीगणेशपुराणे क्रीडाखण्डे हेमकण्ठदर्शनं नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५२ ॥