द्विपञ्चाशत्तमोऽध्यायः
दूतावूचतुः
प्रेतभूतपिशाचानां लोकोऽयं राजसत्तम ।
निन्दापैशून्यतास्तेयकृतो यान्त्यत्र भूपते
॥१॥ततोऽग्रे पश्यति स्मासौ लोकावसुररक्षसाम् ।
यत्र ते विविधाकारा ऊर्ध्वकेशा भयानकाः
॥२॥घोरास्याश्च ललज्जिव्हा मेघनादा धरोपमाः ।
अग्निकुण्डनिभांस्तान् स दृष्ट्वा पप्रच्छ तौ पुनः
॥३॥केषामिदं पुरं दूतौ गदतं मेऽनुपृच्छतः ।
तावुचतुरयं लोको दुष्टदानवरक्षसाम्
॥४॥श्रौतस्मार्तक्रियाहीना अत्र तिष्ठन्ति पापिनः ।
तदग्रे स ददर्शाऽथ लोकं गन्धर्वसेवितम्
॥५॥रौप्यस्वर्णगृहा यत्र रत्नकाञ्चनभूमयः ।
नरनार्यः कामरत्यो नृत्यगानविशारदाः
॥६॥अतिसौख्यकरं तं स दृष्ट्वा पप्रच्छ तौ पुनः ।
केषामिदं पुरं दूतौ गदतं मेऽनुपृच्छतः
॥७॥तावूचतुः
गन्धर्वनगरं चेदं देवस्थानेषु गायकाः ।
प्राप्नुवन्ति महापुण्यादिदं पुरमनुत्तमम्
॥८॥सिद्धचारणयक्षाणां गुह्यकानां पुरं महत् ।
नानाव्रतैस्तथा दानैर्गम्यं पुण्यसमुच्चयैः
॥९॥दूतौ च तौ नृपं पश्चाद्दर्शयेतां गरीयसीम् ।
(दर्शयामासतुस्तौ च नृपं पश्चात् गरीयसीम् ।
) इन्द्रस्य नगरीं रम्यामश्वमेधशतार्जिताम्
॥१०॥सुवर्णरत्नगोदानरथाश्वगजदानतः ।
गम्यां तीर्थाभिषेकाद्यैः पुण्यैर्नानाविधैरपि
॥११॥तत्रेन्द्रभवनं रम्यं तावदर्शयतां शुभम् ।
नृपो निरीक्ष्य तौ प्रोचे यच्छ्रुतं दृष्टमेव तत्
॥१२॥अग्निलोकं ततोऽग्रे तौ दर्शयन्तौ नृपं शुभम् ।
यत्राग्निहोत्रिणो वह्नितेजसो भान्त्यनेकशः
॥१३॥ततोऽदर्शयेतां भूपं यमलोकं शुभाशुभम् ।
यत्र पुण्यकृतो यान्ति तथा पापकृतोऽपि च
॥१४॥स धर्मः सुकृतां भाति क्रूरो दुष्कृतकर्मणाम् ।
सुकृतः सर्वभोगांस्तु दुष्कृतो नरकानपि
॥१५॥भुञ्जते प्राणिनः स्वस्वकर्मभोगाननेकशः ।
कुम्भीपाके च पच्यन्ते छिद्यन्ते चासिपत्रकैः
॥१६॥अयोघनेन ताड्यन्ते कृत्यन्ते कण्टकैरपि ।
तामिस्रे चान्धतामिस्रे कृमिकुण्डे सपूयके
॥१७॥पात्यन्ते नरके घोरे दुष्कृतः प्राणिनः स तान् ।
निरीक्ष्यामीलयन्नेत्रे यातं यातमिति ब्रुवन्
॥१८॥ततोऽग्रे दर्शयेतां तौ कौबेरं लोकमुत्तमम् ।
अत्याश्चर्यकरं शक्रलोकादतिवरं परम्
॥१९॥रत्नकाञ्चनयुक्तानि गृहाणि दीप्तिमन्ति च ।
रत्नकाञ्चनदानेन तुलादानैश्च कोटिशः
॥२०॥प्राप्नुवन्ति महाभागाः कौबेरं लोकमुत्तमम् ।
ततोऽदर्शयेतां तं तौ वारुणं लोकमुत्तमम्
॥२१॥तीर्थान्नदानतोलभ्यं कुबेरभवनातिगम् ।
अप्सु सर्वे शुष्कदेहा वसन्ति सुखभोगिनः
॥२२॥वापीकूपतडागानां दृश्यन्तेः जलदायिनः ।
ततोऽग्रे दर्शयेतां तौ वायुलोकं सुखावहम्
॥२३॥ददते व्यजनं ग्रीष्मे सौशीरं कर्पुरं जलम् ।
वसन्ति वायुलोके ते स्वेच्छायातिविहारिणः
॥२४॥ततोऽग्रेदर्शयेतां तौ सूर्यलोकं दुरासदम् ।
पञ्चाग्निसाधनरताः सूर्यभक्तिपरायणाः
॥२५॥अवाप्तकामा मुनयः सर्वे ते सूर्यवर्चसः ।
निवसन्ति निराबाधा ब्रह्मकल्पशतं नराः
॥२६॥नाक्षत्रं चन्द्रलोकं च दर्शयेतां नृपं ततः ।
मुक्ताफलसुवर्णानां दानेन सोमयागतः
॥२७॥प्राप्नुवन्ति महात्मानो लोकमेनं सुपुण्यतः ।
गोलोकं च ततोऽग्रे तौ दर्शयेतां नृपं तदा
॥२८॥गोसहस्राणि ये दद्युर्ब्राह्मणेभ्यो यथाविधि ।
रोमसङ्ख्यैस्तु कल्पैस्ते गोलोके निवसन्ति हि
॥२९॥सत्यलोकं ततोऽग्रे तौ दर्शयेतां चिरन्तनम् ।
सत्यव्रता वेदविदो वेदाध्ययनतत्पराः
॥३०॥सदाचाराः शास्त्रविदः पुराणपाठकाश्च ये ।
अन्नदानरता यज्ञकर्तारस्तीर्थसेविनः
॥३१॥अप्रतिग्राहका विप्राः परोपकृतिकारिणः ।
तपस्विनो दानपराः सत्यलोकं व्रजन्ति ते
॥३२॥गव्यूत्यष्टसहस्रेण विस्तीर्णं तावदायतम् ।
यत्र ब्रह्मा मुनिगणैर्गणै राजर्षिणां परैः
॥३३॥देवर्षीणां दानवानां गन्धर्वाप्सरसां तथा ।
स्तूयमानो दिवारात्रं सेव्यते भक्तितत्परैः
॥३४॥यत्रेन्द्र भवनामानि गृहाणि परितो लसन् ।
तं दृष्ट्वा नृपतिर्लोकं विस्मितः प्राह तौ तदा
॥३५॥नृप उवाच
धन्योऽस्म्यनुगृहीतोऽस्मि गणेशेन कृपावता ।
भवद्भ्यांच यतो दृष्टाः स्वर्गलोकाः सुदुर्लभाः
॥३६॥क उवाच
तं पुनर्दर्शयेतां तौ वैकुण्ठं विश्रुतं त्रिषु ।
लोकेषु तत्र गच्छन्ति वैष्णवा भक्तितत्पराः
॥३७॥सर्वलोकेषु श्रेष्ठं तं नोपमा यस्य विद्यते ।
शेषो न वर्णने शक्तोऽनेकवक्त्रो न चात्मभूः
॥३८॥उर्जस्नायी झषस्नायी मेषस्नायी तिलान्नदः ।
गोदो गीताध्ययनवान् प्राणिनाञ्चोपकृच्च यः
॥३९॥विष्णुलोकं व्रजत्याशु सहस्र पञ्चयोजनम् ।
सूर्यचन्द्रप्रकाशानि विश्वकर्मकृतानि च
॥४०॥मन्दिराणि प्रभासन्ति रत्नकाञ्चनराजतैः ।
येषु नो प्रविशत्येव तमो रत्नमरीचिभिः
॥४१॥परिवारयुतो लक्ष्म्या यत्र तिष्ठति दैत्यहा ।
जहर्ष नृपवर्योऽसौ दृष्ट्वा तत्पुण्यसञ्चयात्
॥४२॥ततोऽग्रे दर्शयेतां तौ कैलासं गिरिशालयम् ।
मेरोस्तु शिखरे रम्येऽयुतयोजनविस्तृते
॥४३॥रविचन्द्रप्रकाशानि हर्म्याणि यत्र भान्ति च ।
यत्र पञ्चाक्षरजपा रुद्राध्यायजपाश्च ये
॥४४॥अनेकसाधनरताः पुण्यवन्तो व्रजन्ति ह ।
तं दृष्ट्वा प्राह नृपतिर्विनायकप्रसादतः
॥४५॥दृष्टवा सर्वे देवलोकाः पुण्यदा दर्शनान्नृणाम् ।
ततोऽग्रे न रविश्चन्द्रः सहस्रयोजनावधि
॥४६॥विमानप्रभया याति न च पश्यन्ति किञ्चन ।
मेघनादनिभं शब्दं शुश्राव दुःसहं नृपः
॥४७॥गिरिवर्यप्रकाशानां भ्रमराणां समन्ततः ।
कस्य शब्दः श्रूयतेऽयमिति पप्रच्छ तौ नृपः
॥४८॥कदा द्रक्ष्यामि देवस्य पादपद्ममिति स्फुटम् ।
ददर्श पुरतो राजा शक्तिं भ्रामरिकां दृढाम्
॥४९॥अनेकादित्यसङकाशां ब्रह्माण्डग्राससाहसाम् ।
प्रसारितमुखां भीमां दृष्ट्वा मूर्च्छामियान्नृपः
॥५०॥आश्वास्य निन्यतुस्तं तु दूतावग्रे नृपं तदा ।
तत आधारशक्तिं स ततोऽप्यतिभयङकराम्
॥५१॥दृष्टवा चकम्पे नृपतिर्भ्रामरीं मस्तके स्थिताम् ।
करालकेशां लम्बोष्ठी दीर्घजिव्हां प्रभायुताम्
॥५२॥आश्वासितो व्रजन्नग्रे सोऽपश्यत् कामदायिनीम् ।
आधारशक्तिं संविष्टां योजनायुतविस्तृताम्
॥५३॥भ्रमन्ति पर्वता यस्याः श्वासवायुविवर्तनात् ।
वज्रातिनिष्ठुरैर्देहैर्यस्यास्तिष्ठति सा पुरी
॥५४॥वदतः स्म नृपं दूतौ पश्य स्वानन्दपत्तनम् ।
यद्ध्यानपरितृप्तोऽसि कोटिसूर्यनिभं शुभम्
॥५५॥रत्नकाञ्चनसम्भिन्ना भाति यत्र गृहाः परे ।
मुक्तारजतसूर्याश्मनिर्मिताश्चसहस्रशः
॥५६॥नीलाश्मकुट्टिमा यत्र पुमांसो यत्र वह्निभाः ।
यत्र वापीकूपतडागाश्च यत्र भान्ति सरांसि च
॥५७॥स्वच्छशीताम्बुनीलानि पीतरत्नतटानि च ।
यदम्बुपानान्न जरा न क्षुद् रोगो नृणां भवेत्
॥५८॥आक्रीडा विमला नानावृक्षवल्लीविराजिताः ।
दिव्यौषध्यो दिवा सूर्यकोटिभा भान्ति यत्र च
॥५९॥चन्द्रपृष्ठे प्रपश्यन्ति कलङ्करहिते मुखम् ।
विलासिनीजना यत्र सर्वदाऽधोगते निशि
॥६०॥यत्रपुष्पवनामोदः श्रमं हन्ति विहारिणाम् ।
इक्षुसागरतीरं तत्प्राप्योत्तरुर्मुदा युताः
॥६१॥इति श्रीगणेशपुराणे क्रीडाखण्डे स्वानन्दभुवनप्राप्तिवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥