षड्विंशत्युत्तरशततमोऽध्यायः अथ गजाननचरितं द्वापरयुग ।
क उवाच
सिद्धे विवाहे च ततो मयूरेशः शिखण्डिनम् ।
आरुह्य सहसा गन्तुं नगरीं स्वामियेष सः
॥१॥स्वं स्वं वाहनमारुढा गीर्वाणास्तत्क्षणेन च ।
यान्ति स्म पुरतस्तस्य मुनयः पृष्ठतो ययुः
॥२॥अन्वयुर्नागराः सर्वे स्रियश्च बालकानि च ।
आनन्दयुक्ता नगरात् सहसा चक्रपाणिना
॥३॥वाद्यत्सु सर्ववाद्येषु ननृतुश्चाप्सरोगणाः ।
रणभूमिं गतो यावन्मयूरेशोऽखिलैर्वृतः
॥४॥तावत्स्कन्दादयो वीराः प्रार्थयां चक्रिरे विभुम् ।
वीरा ऊचुः ।
सेनाचरा दैत्यगणैर्निहता युद्धसम्भ्रमात्
॥५॥उत्तस्थुः सर्व एवैते त्वत्कटाक्षामृतोक्षिताः ।
तान्दृष्ट्वा जीवितांस्तेन सर्वे देवाश्च नागराः
॥६॥विस्मयं परमं प्राप्ताः साधु साध्वब्रुवंस्तदा ।
ततो योजनमात्रं च दत्वा मार्गमवस्थितः
॥७॥देवोऽब्रवीच्चक्रपाणिं मूर्ध्निं दत्त्वा करं शुभम् ।
आलिङ्ग्य दशदोर्दण्डैः शत्रुपक्षभयङ्करैः
॥८॥देव उवाच
त्वं याहि गण्डकी शीघ्रं नागरैर्मम वाक्यतः ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं मुमोचाश्रूणि सत्वरम्
॥९॥नागराश्च प्रणम्योच्चैरुचुर्वाक्यं शुचान्विताः ।
यत्र यासि नयास्मांस्त्वमत्र त्यक्तुं न चार्हसि
॥१०॥नागतः स्यात् पूर्वमेव तदा दुःखं न नो भवेत् ।
एवमुक्त्वा नमस्कृत्य ययुः सर्वे तदाज्ञया
॥११॥चक्रपाणिरपि तदा नमस्कृत्य ययौ पुरः ।
वर्णयन्तो गुणगणांस्तदीयानद्भुतान् बहून्
॥१२॥क्षणेन नगरीं प्राप्य चक्रपाण्यनुमोदिताः ।
नागराः स्वगृहं प्राप्ताश्चक्रपाणिर्निजालयम्
॥१३॥पञ्चानामपि देवानां प्रासादानप्यकारयत् ।
पञ्चायतनमूर्तिं च स्थापयामास तेषु च
॥१४॥प्रत्यहं पूजयामास भक्तिभावसमन्वितः ।
मयूरेशपुरीं प्राप्तो मयूरेशोऽपि तत्क्षणात्
॥१५॥आश्चर्यं परमं प्राप्ता गणाः सर्वे निरीक्ष्यतम् ।
यस्यां रत्नमया स्तम्भा भित्तयोऽष्टापदान्विताः
॥१६॥एको ना दृश्यते तत्रा सङ्ख्यातजनसंयुतः ।
प्रविश्य स सभां रम्या ब्रह्मादीनुपवेश्य च
॥१७॥मध्ये विवेश च ततो लोकयन् सर्वतः स्वयम् ।
ददर्श पूर्वभागे से मन्मथं रति संयुतम्
॥१८॥देवीं मार्जारनाम्नीं तां लोके ख्यातां सुखप्रदाम् ।
दक्षिणस्यां दिशि तदा लोकयत् पार्वतीशिवौ
॥१९॥तत्पुरो विरजां देवीं भक्तकामप्रपूरिकाम् ।
पश्चिमायां दिशिततो वाराहं धरणीयुतम्
॥२०॥आश्रयां नाम देवीं च सर्वविघ्नहरां शुभाम् ।
उत्तरस्यां दिशि तदा श्रीहरिं समलोकयत्
॥२१॥मुक्तादेवीं च विख्यातां सर्वमुक्तिप्रदां ततः ।
त्रयस्त्रिंशत्कोटिसुराः स्थितास्तद्दर्शनेच्छया
॥२२॥भाद्रशुद्धप्रतिपदि स्नात्वाऽभ्यर्च्य गजाननम् ।
गत्वा तु पूर्वदिग्भागे मार्जारीं पूजयेत् ततः
॥२३॥दत्वा दानानि विप्रेभ्यः स्मृत्वा ध्यात्वा गजाननम् ।
मौनं व्रतं समास्थाय न श्रुत्वा पादजध्वनिम्
॥२४॥कृमिकीटपतङ्गादीन् न हिंसेत प्रयतः शुचिः ।
पुनः स्नात्वा समभ्यर्चेद् देवदेवं गजाननम्
॥२५॥पूर्ववत्तु द्वितीयेऽन्हि तृतीये च ततः क्रमात् ।
तथैव दक्षिणद्वारि विरजां द्वितयेऽहनि
॥२६॥तृतीये पश्चिमद्वारि तथैवाश्रमसंज्ञिताम् ।
नत्वाऽर्चयेच्चतुर्थ्यां तु तद्वदुत्तरतो नरः
॥२७॥मुक्तां देवी समभ्यर्च्य मयूरेशं च तद्दिने ।
पूजामहोत्सवं कुर्याद् रात्रौ जागरणं चरेत्
॥२८॥एवं यः कुरुते भक्त्या द्वाराणि चोपवासतः ।
स सर्वाल्लँभते कामान् मयूरेशप्रसादतः
॥२९॥चतुर्थ्यामेव चत्वारि शक्तो द्वाराणि पूर्ववत् ।
आद्यन्तमज्जनादेवदर्शनं च करोति यः
॥३०॥(नद्यन्तर्मज्जनं देवदर्शनं) तस्य सद्यः फलं दद्यात् परितुष्टो गजाननः ।
तस्माच्छुद्धप्रतिपदमारभ्य ब्रह्मचर्यवान्
॥३१॥ततश्चतुर्थ्यामुषसि स्नानं कृत्वा विधानतः ।
नित्यं सम्पाद्य विधिवन्मयूरेशं समर्चयेत्
॥३२॥प्रदक्षिणा नमस्कारान् कुर्यादेवैकविंशतिम् ।
पूर्वद्वारे नमस्कृत्य मार्जारीं त्वरयान्वितः
॥३३॥एवं शिवावाश्रयां च मुक्तादेवीं नमेत्पराम् ।
प्रारभेद् दिनशेषे तु मयूरेश्वरपूजनम्
॥३४॥षोडशैरुपचारैस्तु पूजयेत्सुसमाहितः ।
रात्रौ जागरणं कुर्याद् गीतवादीत्रनिस्वनैः
॥३५॥प्रभाते विमले स्नात्वा पुनर्देवं समर्चयेत् ।
ब्राह्मणैः सह कुर्वीत पारणं स्वस्य शक्तितः
॥३६॥तेभ्यो दद्याद् हिरण्यं च वासो धान्यं गवादिकम् ।
एवं यः कुरुते मर्त्यो दुःसाध्यमपि साधयेत्
॥३७॥पुत्रपौत्रयुतो भोगान् भुक्त्वा चान्ते व्रजेद्दिवम् ।
इन्द्रादयो लोकपालाः पूजयिष्यन्ति तं नरम्
॥३८॥सेवन्ते पादकमलं तस्य या अष्टनायिकाः ।
अन्धस्तु लभते दष्टिं मूको वाचं लभेद्ध्रुवम्
॥३९॥बधिरः श्रुतिमाप्नोति पङ्गुश्च चरणावपि ।
भार्यार्थी लभते भार्या विद्यार्थी लभते मतिम्
॥४०॥एतदेव फलं प्रोक्तं द्वारेषु चोपवासतः ।
ततः कदाचिद् देवेशो मयूरेशोऽखिलान् सुरान्
॥४१॥उवाच श्लक्ष्णया वाचा हरिब्रह्मशिवादिकान् ।
मयूरेश उवाच ।
यदर्थमवतीर्णोहं तत्कार्यं नः कुतं सुराः
॥४२॥निहता बहवो दैत्या भूभारश्च कृतो लघुः ।
सिन्धोः कारागृहात्सर्वे मोचिता अमृतान्धसः
॥४३॥स्वाहास्वधावषट्कारा भविष्यन्ति यथापुरा ।
भवतामाज्ञया देवा यास्ये स्वं धाम साम्प्रतम्
॥४४॥एवमाकर्ण्य तद्वाक्यं देवाः सर्वे शुचान्विताः ।
त्यजन्तोऽश्रूणि सम्प्रोचुः परस्परमुखेक्षणाः
॥४५॥अस्मांस्त्यक्त्वा मयूरेश क्व वा गन्तुं समीहसे ।
कथं स्नेहं परित्यज्य नैष्ठुर्यं परमं गतः
॥४६॥ततस्तत् पार्वती श्रुत्वा सहसा शोककर्षिता ।
पपात मूर्छिता भूमौ मुहूर्तादवदच्च सा
॥४७॥पार्वत्युवाच
दीननाथ दयासिन्धो सिन्धुदैत्यविमर्दन ।
क्व यास्यसि जगन्नाथ हित्वा मा जननीं तव
॥४८॥न स्थास्यन्ति मम प्राणास्त्वयि याते सुरेश्वर ।
देव उवाच ।
द्वापरे पुनरेवाहं यास्ये त्वत्पुत्रतां शुभे
॥४९॥न मिथ्या वचनं मे स्यान्न चिन्तां कर्तुमर्हसि ।
ममापि दुःखमतुलं वियोगात्तव जायते
॥५०॥नैकत्र सर्वदा मातः सुहृदां वसतिर्भवेत् ॥
सिन्दूरोनाम दैत्योऽपि भविष्यति सुदारुणः
॥५१॥अवध्यः सर्वदेवानां तदाऽहं स्यान्तवार्भकः ॥
स्मृतमात्रस्तवाग्रेऽहं स्थास्यामि शिवनन्दिनि
॥५२॥ततः षडाननः प्राह नय मां यत्र यास्यसि ।
बालके कृपणे दीने नौदासिन्यं हि युज्यते
॥५३॥देव उवाच
न चिन्तां कुरु बन्धो त्वमत्रायास्याम्यहं पुनः ।
भवतो न वियोगो मे सर्वान्तर्यामिणः खलु
॥५४॥तस्मै ददौ मयूरं तं मयूरेशः स्वबन्धवे ।
मयूरध्वज इत्येव नामचक्रेऽस्य तत्क्षणात्
॥५५॥आरुरोह मयूरं तं स्कन्दो बन्धोरथाज्ञया ।
तस्मिन्नेव क्षणे देवोऽन्तर्दधे स मयूरराट्
॥५६॥तस्मिन्नन्तर्हिते केशा अपश्यन्न्हृदि तं सदा ।
ततो ब्रह्मा वालुकाभिः कृत्वा मूर्तिं गजाननीम्
॥५७॥स्थापयामास विधिवत्प्रासादे सुमनोहरे ।
पुपूजुः सर्वलोकास्तमुपचारैर्यथाविधि
॥५८॥वसिष्ठाद्या मुनिगणाः सस्नुर्ब्रह्मकमण्डलौ ।
सर्वं नित्यविधिं कृत्वा ययुर्मूर्तिं सुशोभनीम्
॥५९॥उपोष्य केचिद् पिदधुर्द्वाराणि धामलब्धये ।
स्नात्वा नत्वा मयूरेशं धावमानास्तथाऽपरे
॥६०॥ऊचुः परस्परं देवा मुनयोऽपि मुदा तदा ।
नैतादृशं पुण्यक्षेत्रं यत्र देवः स्थितः स्वयम्
॥६१॥मयूरेशो विघ्नहरो भक्तानां कामपूरकः ।
पूजायित्वैवमुक्त्वा तु जग्मुस्ते स्वं स्वमाश्रमम्
॥६२॥ब्रह्मादयः सुराः स्वं स्वं पदमभ्यागमंस्तदा ।
शङ्करः सपरीवारः कैलासमगमन्मुदा
॥६३॥स्वधास्वाहावषट्कारैरिन्द्राद्या मुमुदुस्तदा ।
क उवाच ।
एवं ते सर्वमाख्यातं त्रेतायुगकृतं मुने
॥६४॥मयूरेशस्य चरितं श्रवणात्सर्वकामदम् ।
धन्यं यशस्यमायुष्यं सर्वपापहरं नृणाम्
॥६५॥पुत्रदं धनदं विद्याप्रदं दुःखनिवारणम् ।
आधिव्याधिहरं कुष्ठ दुष्टरोगादिनाशनम्
॥६६॥पठतां शृण्वतां पुंसां भुक्तिमुक्तिप्रदं शुभम् ।
विजयश्रीपदं नॄणां क्षत्रियाणां विशामपि
॥६७॥शूद्राणामपि सर्वेषां श्रीप्रदं पुष्टिवर्धनम् ।
यद् यत् ते परिपृष्ठं मे ततत्ते कथितं मुने
॥६८॥गजाननस्य चरितं पुनः श्रोष्यसि मन्मुखात्
॥६९॥इति श्रीगणेशपुराणे क्रीडाखण्डे मयूरेशान्तर्न्धानवर्णनं नाम षड्विंशत्युत्तरशततमोऽध्यायः ॥ १२६ ॥
अथ गजाननचरितं द्वापरयुग ।