मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 134

3
क्रीडाखण्डः · 134

चतुस्त्रिंशाधिकशततमोऽध्यायः

क उवाच

बालः स ववृधे तत्र दिवसे दिवसे शशी ।

आनन्दं जनयन् मातुः पितुश्च चरितैः स्वकैः

॥१॥

व्यास उवाच

वद ब्रह्मन् गुणेशस्य चरितं द्वापरोद्भवम् ।

श्रुत्वा पूर्वचरित्राणि न तृप्तिर्मेऽभवत्प्रभो

॥२॥

गजाननेति नामास्य वाहनं मूषकः कथम् ।

एतत्सर्वं सविस्तारं वद मे चतुरानन

॥३॥

क उवाच

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।

प्रल्हादस्य च संवादं भार्गवस्य कवेरपि

॥४॥

एवमेव पुरा पृष्टः प्रल्हादेन महामुनिः ।

तस्मै प्रोवाच भगवान् कविस्तच्छृणु साम्प्रतम्

॥५॥

श‍ृणु प्रल्हाद येनास्य वाहनं मूषकोऽभवत् ।

तदहं सम्प्रवक्ष्यामि श्रवणात्सर्वकामदम्

॥६॥

पुरा शक्रसभामध्ये क्रौञ्चौ गन्धर्वसत्तमः ।

वामदेवमुनिं सोऽथ त्वरावान्प्रपदाऽहनत्

॥७॥

स शशाप च गन्धर्वं मूषकस्त्वं भविष्यसि ।

कल्पयिष्यति वाहत्वे त्वामाक्रम्य गुणेश्वरः

॥८॥

स एव करुणायुक्तो मोक्षं नेष्यति विश्वकृत् ।

पराशराश्रमे सोऽथ पपात मूषकाकृतिः

॥९॥

गिरिश‍ृङ्गनिभो घोरो महारोमा महारवः ।

महावीर्यो महादंष्ट्रो महास्वनविराजितः

॥१०॥

तस्याश्रमे महाघोरमुपद्रवमथाकरोत् ।

भक्षयामास धान्यानि भङक्त्वा मृत्पात्रसञ्चयान्

॥११॥

पुस्तकानि च वस्त्राणि वल्कलानि महान्त्यपि ।

स सारभूतं यत्सर्वं भक्षयामास मूषकः

॥१२॥

पुच्छाघातेन वृक्षान् स पातयामास भूतले ।

चुञ्चुकारेण शब्देन गर्जयामास विष्टपम्

॥१३॥

ज्ञात्वा तथाविधं तं तु चिन्तामास मुनीश्वरः ।

दुर्जनस्य बलात्कारैः स्थानं त्याज्यं न संशयः

॥१४॥

अधुना क्वा नु गन्तव्यं कस्मिन्स्थाने सुखं भवेत् ।

प्राणत्यागे महद्दोषं वदन्ति शास्त्रचिन्तकाः

॥१५॥

कथं सुखाश्रमे दुःखं प्राप्तं कर्मप्रसङ्गतः ।

कस्य वा स्मरणं कार्यं को वा दुःखात्प्रमोक्ष्यति

॥१६॥

क एनं नाशयेदत्र कः समर्थो भवेद् वधे ।

कमद्य शरणं यायां को नस्राता भविष्यति

॥१७॥

एवं पितृवचः श्रुत्वा बालकोऽनन्तविक्रमः ।

उवाच मधुरं वाक्यं चिन्तां मा कुरु सर्वथा

॥१८॥

मयि तिष्ठति दुष्टानां संहारिणि महाप्रभौ ।

पुत्रतां ते प्रयातोऽस्मि विधास्ये ते प्रियं तु यत्

॥१९॥

यस्य मे क्रन्दितेनेयं पृथिवी शीर्णतामियात् ।

पर्वताश्चूर्णतामापुः पादाघातेन मे मुने

॥२०॥

पश्य मे कौतुकं तात नयाम्येनं तु वाहताम् ।

एवमुक्त्वाऽसृजत्पाशं कोटिसूर्यनिभं शिशुः

॥२१॥

मेघेष्विव तडित्पुञ्जः शुशुभे सोऽन्तरिक्षगः ।

तत्यजुर्भयतो देवा स्वानि धिष्ण्यानि तत्क्षणात्

॥२२॥

स ययौ वह्निवदनो दशदिग्भ्रमणे रतः ।

पाताले मूषकं कण्ठे बध्वा बहिरकाशयत्

॥२३॥

मूर्छामवाप महतीमाखुः पाशबलार्दितः ।

शुशोच परमक्रुद्धो निरुद्धश्वासमारुतः

॥२४॥

कथं कालस्य मरणमागतं दैवनिर्मितम् ।

भवितव्यं भवत्येव पुरुषार्थो निरर्थकः

॥२५॥

येन दंष्ट्राग्रमात्रेण दारिताः पर्वता बहु ।

न मया गणिता देवा नासुरा राक्षसा नराः

॥२६॥

तस्य मे केन पाशेन कण्ठोऽक्रामि गतायुषः ।

क उवाच ।

मूषके प्रब्रुवत्येवं यावत् तावद् गजाननः

॥२७॥

चकर्ष मनसा तं स सोऽगान् मूषकसंयुतः ।

यथा गारूडशास्त्रज्ञः सर्पं कर्षति तत्क्षणात्

॥२८॥

स तं दृष्ट्वा पाशकण्ठो मूषको लब्धधीः क्षणात् ।

नमस्कृत्य विभुं देवं गजाननमनामयम्

॥२९॥

तुष्टाव परया भक्त्या चिदानन्दघनं प्रभुम् ।

त्वमेव जगतां नाथः कर्ता हर्त्ता प्रपालकः

॥३०॥

गुणत्रयविहीनश्च गुणत्रयसहायकृत् ।

मायातीतोऽपि मायावी मायिनामपि मोहकृत्

॥३१॥

ब्रह्मादीनामगम्यस्त्वं मुनिहृत्पद्मसंस्थितः ।

कारणं करणं कर्त्ता कारणानां च कारणम्

॥३२॥

सोऽद्य दृष्टः स्वचक्षुर्भ्यामतो धन्यं जनुर्मम ।

धन्या मे पितरौ नेत्रे तपो विद्या व्रतं जपः

॥३३॥

क उवाच

एवमाकर्ण्य तद्वाक्यं प्रीतोऽसौ द्विरदाननः ।

प्राह भक्तिं दृढां ज्ञात्वा भक्तं तं मूषकं विभुः

॥३४॥

तवैव पुरुषार्थेन देवद्विजद्रुहोऽनघ ।

निर्गुणोऽहं गुणी जातो दुष्टनाशनहेतवे

॥३५॥

साधूनां रक्षणार्थाय यतस्त्वं शरणं गतः ।

अतस्ते दत्तमभयं वरं वृणुयमिच्छसि

॥३६॥

मूषक उवाच

नाहं वृणे गजास्य त्वां त्वमेव वृणु वाञ्छितम् ।

क उवाच ।

इत्युक्तो मूषकेनासौ गर्वितेन गजाननः

॥३७॥

वाहतां मम याहि त्वं यदि सत्यं वचस्तव ।

तथेत्युक्ते स पिङ्गाक्षो रुरोहाक्रम्य तत्क्षणात्

॥३८॥

भारेण चूर्णयंस्तं तु पुनर्देवं स याचत ।

अहं ते वाहनं जातो लघुभूतो भव प्रभो

॥३९॥

याचतस्तस्य वचसा लघुभारोऽभवद्विभुः ।

एतदृष्ट्वा महाश्चर्यं प्रणम्य मुनिरब्रवीत्

॥४०॥

ना बाले पौरुषं क्वापि मया दृष्टं जगत्त्रये ।

यच्छब्दात्पर्वताः शीर्णा लोकपालाश्च्युतस्थलाः

॥४१॥

स त्वया क्षणमात्रेण नीतो वाहनतां बलात् ।

तत आगत्य माताऽस्य वत्सला गृह्य तं शिशुम्

॥४२॥

प्रस्नुतौ पाययामास स्तनौ माता मुदा युता ।

उवाच न च जाने ते स्वरूपं च पराक्रमम्

॥४३॥

जन्मजन्मान्तरीयेण पुण्येन नौ गृहं गतः ।

ततः स मूषकं बद्धवा चिक्रीडे प्राकृतो यथा

॥४४॥

एवं ते कथिता चास्य यथा मूषकवाहता

॥४५॥

इति श्रीगणेशपुराणे क्रीडाखण्डे मूषकवाहनरूपधारणं नाम चतुस्त्रिंशाधिकशततमोऽध्यायः ॥ १३४ ॥