बालचरिते चतुःपञ्चाशत्तमोऽध्यायः
क उवाच
भुक्त्वा शुक्लगृहे देवो यावत्क्रीडति चत्वरे ।
क्षणं सुष्वाप मध्ये स ततो नागरिका जनाः
॥१॥भोजनाय समारम्भं कृत्वा मुनिसुतस्य ह ।
काशिराजगृहं तावदाकारयितुमागताः
॥२॥तानूचे काशिराजस्तु क्रीडन्क्रीडन्नितो गतः ।
पश्यन्ति स्म ततो लोका गृहेगृहे विनायकम्
॥३॥शुक्लस्य स गृहं यात इति केचित् समूचिरे ।
ततो जना निनिन्दुस्तं देवं शुक्लमकिञ्चनम्
॥४॥जना ऊचुः
उष्ट्रस्तु कण्टकान्भुङ्क्ते हित्वा कोमलपल्लवान् ।
अस्मानाढ्यान्विहायासौ दरिद्रस्य गृहं गतः
॥५॥वृथैवेश्वरतां नीतो राज्ञा बालो यदीश्वरः ।
स्यादयं चेत्तदा कुर्यात्सन्तुष्टिं सर्वचेतसाम्
॥६॥कदन्नं तदपि स्वल्पं कथं भोक्ष्यति बालकः ।
केचित्सत्पुरुषास्तेषु तमानयितुमुत्सुकाः
॥७॥इतस्ततः प्रधावन्ति विज्ञातुं विनायकम् ।
पप्रच्छुर्मार्गगांल्लोङ्कान्क्वचिदृष्टो विनायकः
॥८॥पृष्टा पृष्ट्वा व्रजन्ति स्म जनास्तद्भक्तितत्पराः ।
केचिदुचुः शुक्लगृहं गतः स्यादिति तान्प्रति
॥९॥ते शीघ्रं तद्गृहं याता ज्ञात्वा सुप्तं विनायकम् ।
अतिष्ठन् सात्त्विकास्तूष्णीं प्रबुद्धः स्याद् यदा विभुः
॥१०॥तदैनं प्रार्थयामेति राजसास्तु तमब्रुवन् ।
उत्तिष्ठ याहि रे भोक्तुमन्नं पर्युषितं भवेत्
॥११॥त्वदर्थं नगरे लोकाः कोलाहलं प्रकुर्वते ।
दरिद्रस्यास्य शुक्लस्य शुक्लभिक्षारतस्य ह
॥१२॥पर्याप्तिश्चास्य भिक्षाया जायते न कदाचन ।
न जलं कोऽपि पिबति तस्य गेहे कथं भवान् ।
भुक्तवान् कुत्सितं चान्नं कश्यपस्यात्मजोऽपि सन्
॥१३॥केचित्तं विविधैर्वाक्यैर्निनिन्दुस्तुष्टुवुः परे ।
मुनिरुवाच ।
एवं श्रुत्वा सर्ववाक्यमुवाच कश्यपात्मजः
॥१४॥देव उवाच
भक्त्योपपादितं चान्नं भुक्तमद्य यथेच्छतः ।
पदमात्रं हि गन्तुं मे शक्तिस्तृप्तस्य नास्ति च
॥१५॥ग्रासमात्रं हि भोक्तुं मे वाञ्छानास्त्यधुना जनाः ।
क उवाच ।
एवं निष्ठुरतां ज्ञात्वां जनास्ते विरसास्तदा
॥१६॥ऊचुः परस्परं केचित्कर्तव्यं किं हि बालके ।
सोऽपि विव्हलतां ज्ञात्वा पुरवासिजनस्य ह
॥१७॥एकोऽनन्तत्वमापेदे घटाकाश इव क्षणात् ।
जलकुम्भगतो यद्वत् सविताऽनेकरूपवान्
॥१८॥प्रतिगृहं गतो नानाक्रीडासक्तोऽभवद्विभुः ।
क्वचित् सोपानमार्गेषु क्वचिद् दोलागतोऽपि च
॥१९॥क्वचिच्च पर्यङ्कगत क्वचित्सौधगतोऽपि च ।
क्रीडते हसते क्वापि गृहबालैर्भुनक्ति च
॥२०॥अध्येति क्वापि शास्त्राणि पाठयत्यपि कुत्रचित् ।
तं दृष्ट्वा स्वगृहं यातं काशिराजेन संयुतम्
॥२१॥जहृषे स गृहस्वामी धन्योऽहमिति चाब्रवीत् ।
एवं सर्वगृहे राजसहितोऽसौ विनायकः
॥२२॥क्वचिदभ्यज्यते तैलैः स्नाति क्वापि शुभैर्जलैः ।
पादप्रक्षालनं क्वापि क्रियते परमादरात्
॥२३॥उपचारैः षोडशभिः पूज्यते क्वापि भक्तितः ।
भुज्यते परमान्नेन बालभावाद् यथा तथा
॥२४॥क्वचिन्नानापरिमलैः कस्तूरीचन्दनादिभिः ।
अर्च्यते सुमनोभिश्च नैवेद्यैर्विविधैरपि ।
सेव्यते गृहपत्नीभिः शिशुभिः सेवकैरपि
॥२५॥भुक्त्वा यथेष्टं सुष्वाप पादसंवाहनादिभिः ।
वेदापरायणरतः क्वापि गानरतस्तु सः
॥२६॥शृणोति सत्कथां क्वापि हरेरपि कथां क्वचित् ।
क्वचिच्च प्रमदानृत्यं पश्यति स्म नृपेण सः
॥२७॥आरार्तिक्यैश्च विविधैः क्वापि नीराज्यते विभुः ।
क्वचिच्च पाशहस्तोऽसौ क्रीडते क्षुद्रबालकैः
॥२८॥पुराणं वाच्यते क्वापि धर्मशास्त्रं स्मृतिस्तथा ।
एवं सर्वगृहे भुक्त्वा सर्वेषां कामपूरकः
॥२९॥यस्य यस्य यथा वाञ्च्छा तथा तां व्यदधाद् विभुः ।
सुप्रसन्नो महादेवो यथाकल्पद्रुमोऽपि च
॥३०॥यथा चिन्तामणिः कामधेनुर्वाऽखिलकामदा ।
दीननाथेति यन्नाम कृतं तत् सार्थकं तदा
॥३१॥देवदुन्दुभयो नेदुः पुष्पवृष्टिर्गृहे गृहे ।
दृष्ट्वेत्थं काशिराजाऽसौ भ्रान्त ऊचे निजान्प्रति
॥३२॥अयं विनायको बालः सन्निधौ मम तिष्ठति ।
स कथं सर्वगृहगः पूज्यते सर्वमानवैः
॥३३॥गृहे गृहे तु स कथं तिष्ठत्यत्रापि साम्प्रतम् ।
यो मामाकारयति तं वदामि च पुनः पुनः
॥३४॥विना विनायकं यामि कथं भोक्तुं भवद्गृहे ।
गृहमध्यस्थितं चान्नं भुञ्जे काश्यपसंयुतः
॥३५॥तं भुक्तवन्तं त्यक्त्वैव बहिस्थमथ दृष्टवान् ।
इतस्ततोऽब्रुवँल्लोका दृढविस्मितमानसाः
॥३६॥नानागृहगतो भुङ्क्ते काशिराजयुतो विभुः ।
आकर्ण्य वचनं तेषां हसन्नूचे नृपः स तान्
॥३७॥विना मां स कथं यातो भोक्तुं नानागृहानिति ।
ततो गृहाणि द्वित्रीणि गत्वा राजा हि दृष्टवान्
॥३८॥स्वं च कश्यपपुत्रं च भुक्तवन्तं गृहे गृहे ।
एतस्मिन्नन्तरे प्राप्तौ स्नात्वा तौ मुनिसत्तमौ
॥३९॥भुक्त्यर्थं भ्रममाणौ तौ सनकश्च सनन्दनः ।
पुरीं महोत्सवयुतां विनायकमयीं शुभाम्
॥४०॥यद् यद् गृहं प्रविशतस्तत्र तत्र विनायकम् ।
पश्यतः स्मरतस्तौ तु यातः स्म बहिरेव च
॥४१॥भुक्तं च भुक्तवन्तं च सुप्तं क्रीडन्तमेव च ।
जपन्तं च पठन्तं च पाठयन्तं च पश्यतः
॥४२॥एवं सर्वत्र तं दृष्ट्वा परस्परमथोचतुः ।
न स्थलं भोजनार्थाय दृश्यतेऽथात्र निर्मलम्
॥४३॥यावः शुक्लगृहं कर्ता स नानातिथ्यमादरात् ।
इत्युक्त्वा तद्गृहं यातो दृष्टस्तत्रापि काश्यपः
॥४४॥अधोमुखौ क्षुधार्तौ तौ यातः स्म नगराद् बहिः ।
पश्यतः स्म परां मूर्ति स्फुटां वैनायकीं शुभाम्
॥४५॥अन्तर्हृदि च नेत्रे स्वे निमील्योन्मील्य वा पुनः ।
अधश्चोर्ध्वं चान्तराले दिक्षु चैव विदिक्षु च
॥४६॥तस्थतुस्तौ ततः पश्चाद् ध्यानस्तिमितवीक्षणौ ।
क्षणमुद्घाट्य नयने विनायकस्वरूपिणम्
॥४७॥परस्परं पश्यति स्म सनकस्तं परोऽपि तम् ।
यं देवं तौ ध्यायतः स्म पश्यतस्तं विनायकम्
॥४८॥सर्वव्यापी सर्वरूप आविरासित्तयोः पुरः ।
दशबाहुः सिंहगतः सिद्धिबुद्धि विराजितः
॥४९॥सुप्रकाशं किरीटं च कुण्डले चाङ्गदे दधत् ।
दिव्यगन्धं च माल्यं च नागं चन्द्रार्द्धमेव च
॥५०॥कस्तूरीतिलकं दिव्ये वसने दशनप्रभे ।
सौम्यतेजाः सुमनसां दुष्टानां दुर्निरीक्षणः
॥५१॥त्यक्त्वा भ्रमं तु तत्त्वज्ञौ प्रणमेतां विनायकम् ।
बद्ध्वा करपुटं तौ तं तुष्टुवाते महामती
॥५२॥तौ ऊचतुः
नित्यमद्वैतमपरं परं ब्रह्मं सनातनम् ।
तमेव परया भक्त्या पञ्चभूतात्मकं विभुम्
॥५३॥चराचरगतं सर्वरूपिणं परमेश्वरम् ।
भ्रमन्ति यस्य रोमान्चगता ब्रह्माण्डकोटयः
॥५४॥स कथं स्तवनीयोऽसौ वेदान्तानामगोचरः ।
आवयोर्वाञ्छितं देव त्वया ज्ञात्वा प्रपूरितम्
॥५५॥न विद्मो महिमानं ते बालरूपधरस्य ह ।
भूभारहरणार्थाय काश्यपं रूपमुत्तमम्
॥५६॥क उवाच
अन्तर्दधे तु तद्रुपमुभयोः स्तुवतोः पुरः ।
न पश्यतो यदा रूपं तदा तौ श्रमवर्जितौ
॥५७॥प्रासादं परमं कृत्वा मूर्तिं वैनायकीं शुभाम् ।
ब्रह्मवादित्रघोषैश्च यथा दृष्टं शुभे दिने
॥५८॥स्थापयामासतुर्नाम वररदोऽयं विनायकः ।
गणेशतीर्थमिति च तत्र यत् सर उत्तमम्
॥५९॥स्थापितं नाम तस्यापि तत्र तत् ख्यातिमागमत् ।
अत्र स्नानेन दानेन गणेश पूजनेन च
॥६०॥सर्वान् कामानवाप्नोति हित्वा पापं पुरातनम् ।
तत्रेयुर्मुनयः सर्वे देवाश्च सदिगीश्वराः
॥६१॥दृष्ट्वा सम्पूजितं देवं स्तुत्वा नत्वा ययुः पुनः ।
मुनिरुवाच ।
एवं तौ बालरूपस्य प्रभावं द्रष्टुमागतौ
॥६२॥दृष्टप्रभावौ सन्तुष्टौ स्वस्थानमापतुः परम् ।
य इदं शृणुयाद्भक्त्या बालस्य चरितं शुभम्
॥६३॥सर्वान्कामानवाप्नोति प्रेत्यं ब्रह्ममयो भवेत् ।
न बालग्रहपीडा स्यात् सर्वत्र विजयी भवेत्
॥६४॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते सनकसनन्दनस्तुतिवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ ५४ ॥