मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 18

3
क्रीडाखण्डः · 18

बालचरिते कपटि दैत्यवधो नामाष्टादशोऽध्यायः

व्यास उवाच

अपरेऽहनि सम्प्राप्ते का कथा समपद्यत ।

तां मे कथय लोकेश श‍ृण्वन् तृप्यामि न क्वचित्

॥१॥

क उवाच

श‍ृणुष्वावहितो ब्रह्मन् कथयामि समासतः ।

विनायककृतां दिव्यां कथां पापापनोदिनीम्

॥२॥

उदिते तु दिवानाथे नित्यकर्म समाप्य तौ ।

क्रीडार्थमगमद् बालो राजा भद्रासनं तथा

॥३॥

दैत्योऽथ ब्राह्मणो भूत्वा ज्योतिःशास्त्रविशारदः ।

तालीयं पुस्तकं वामे मालां दक्षे करे दधत्

॥४॥

पाटलं परिधानं च शिरोवस्त्रं महत्तरम् ।

गोपीचन्दन सम्भूतांस्तिलकान् द्वादशापि च

॥५॥

अतिदीर्घतमश्श्मश्रुराजगाम नृपान्तिकम् ।

समीपमागतं यावत् तावद् राजा ननाम तम्

॥६॥

उत्थाय तं समीपे स स्वासने सन्यवेशयत् ।

प्रपच्छ कुशलं तस्मै कार्यं चागमनं कुतः

॥७॥

किं च ते नाम विप्रेन्द्र किं ज्ञानं किं च ते तपः ।

वद सत्यं मुने कृत्वा कृपां मयि कृपानिधे

॥८॥

क उवाच

एवं पृष्टः स तेनाशु दत्त्वाशीर्वचनं पुरा ।

अनुक्रमेण सकलं निजगाद महामुने

॥९॥

हेमज्ज्योतिर्विदित्येवं नाम मे नृपनन्दन ।

गन्धर्वलोकादायातो वस्तुं तव समाश्रये

॥१०॥

भूतं भवद् भविष्यं च शान्तिकानि च वेद्म्यहम् ।

प्रश्नांश्च कथयिष्यामि यान् यान् त्वं पृच्छसेऽनघ

॥११॥

अरिष्टान्यत्र जातानि ज्ञातानि तानि मे नृप ।

भावि ते दुष्टचिन्हं च विज्ञायाऽहं समागतः

॥१२॥

त्वदाश्रयेण वस्तुं मे वाञ्च्छाऽस्ति नृपसत्तम ।

नृप उवाच ।

किं निमित्तमरिष्टानि जायन्तेऽत्र महामुने

॥१३॥

अग्रेऽपि कानि भावीनि सत्यमेव वदस्व मे ।

तव प्रतीतौ जातायां स्थापयिष्ये निजे गृहे

॥१४॥

वृत्तिं च कल्पयिष्यामि योगक्षेमकरीं तव ।

गणक उवाच ।

यावद्विनायकस्तेऽस्ति गृहे कश्यपनन्दनः

॥१५॥

तावद् विघ्नानि जायन्ते यतो विघ्नाधिपस्तु सः ।

असञ्चारे वनै चैनं त्यक्त्वा याहि नृपात्मज

॥१६॥

न भविष्यति विघ्नं ते नगरे वा गृहेऽपि च ।

अस्मिन् स्थिते जलं सर्व नगरं प्लावयिष्यति

॥१७॥

तस्मिन्कथञ्चिन्नष्टे तु पर्वता वायुनोदिताः ।

चूर्णयिष्यन्ति नगरं नृप नास्त्यत्र संशयः

॥१८॥

एतत्कथं न जानीषे पूर्वं नासन्नुपद्रवाः ।

राज्ञा विश्वसितव्यं नो कपटे लुब्धकेऽशुचौ

॥१९॥

अतिशूरे स्वोकटे च स्वात्मपातं प्रपश्यता ।

एते घ्नन्ति च राजानं राज्यकामा महाशयाः

॥२०॥

एतत् कथयितुं यातो ज्ञात्वा राज्यच्युतिं तव ।

हिताहितमवश्यं हि वक्तव्यं जानता नृपे

॥२१॥

विविच्य नृप मे वाक्यं यथेच्छसि तथा कुरू ।

क उवाच ।

एवमाकर्ण्य तद्वाक्यं राजा तं पर्यभाषत

॥२२॥

राजोवाच

अतीतानागतज्ञानादुक्तं सर्वं त्वया मुने ।

मिथ्यैव भासते मह्यं तत्त्वज्ञाने प्रपञ्चवत्

॥२३॥

त्वदुक्तप्रत्यये जाते दास्यामि वेतनं तव ।

न ज्ञातो बालकश्चायं त्वया गणकसत्तम

॥२४॥

ब्रह्माणं कमलाकान्तम् अपरं शूलिनं हरम् ।

जनयिष्यति वाञ्छा चेद्ब्रह्माण्डानि बहूनि सः

॥२५॥

यदि ते निश्चयो वाक्ये स्वकीये ब्राह्मणोत्तम ।

नयैनं गहनं घोरं त्यक्त्वैनं पुनरेहि च

॥२६॥

लोकद्वेषकृतोऽनेन निहता बलवत्तराः ।

स्वद्वेष्टारं कथमयं न जाने स्थापयिष्यति

॥२७॥

अनिष्टमस्य मनसि न वयं चिन्तितुं क्षमाः ।

अनेन नगरीराज्यं त्रातमुत्पाततो बहुः

॥२८॥

करोतीन्द्रमनिन्द्रं वाऽशक्तं शक्तं लघुं गुरुम् ।

उच्चं नीचं तथा नीचमुच्चमीशमनीश्वरम्

॥२९॥

संश्रुत्य वाणीं नृपतेर्गणकोऽभूद्र रुषाऽरुणः ।

राजानं पुनरारेभे वक्तुं किञ्चिदवाड्ंउखः

॥३०॥

मया तवहितं प्रोक्तमनिष्टं तव भासते ।

न जातु लङ्घयेत् कोऽपि भाविसृष्टु तथेतरत्

॥३१॥

नृपते दर्शयैनं मे बालकं लक्षणानि ते ।

कथयिष्ये ततो बालान् सर्वानाकारयन्नृपः

॥३२॥

अग्रे विनायकः प्राप्तो धावमानास्ततोऽखिलाः ।

गणकं स नमस्कृत्य पप्रच्छ कुत आगतः

॥३३॥

सामुद्रलक्षणज्ञोऽसि ज्योतिःशास्त्रविशारदः ।

भूतभाविभविष्यज्ञ वद मे भाग्यजं फलम्

॥३४॥

क उवाच

सधैर्यं बालवाक्यं तदाकर्ण्य कपटी द्विजः ।

तर्कयामास मनसि कथं स्वस्तिगतिर्भवेत्

॥३५॥

अनेन निहता दुष्टा बलिनोऽनेकरूपिणः ।

शिशोर्हस्तं गृहित्वा स वदति स्म शुभाशुभम्

॥३६॥

चतुरर्षु दिवसेषु त्वं कूपमध्ये पतिष्यसि ।

चेन्निर्गतः कथञ्चित् त्वं सिन्धौ मज्जनमेष्यसि

॥३७॥

ततोऽपि जीवितश्चेत् तु ध्वान्तमग्नो भविष्यसि ।

ततोऽपिजीविते शैलस्त्वयि कोऽपि पतिष्यति

॥३८॥

महान्तौ कालपुरुषौ जीवन्तं भक्षयिष्यतः ।

एतान्यरिष्टानि तव भविष्यन्ति न संशयः

॥३९॥

प्रतीकारं बवीम्यत्र निर्भयार्थं कुरूष्व तम् ।

ततोऽन्यत्र मया सार्द्धं याहि दिनचतुष्टयम्

॥४०॥

पुनरत्रानयिष्यामि शपथो मे तथाङ्घ्रिजः ।

निशम्य वाचं बालोऽसौ जगामान्तर्गृहं शनैः

॥४१॥

राज्ञो हस्तात् प्रगृहयाशु मुद्रिकां रत्ननिर्मिताम् ।

कृत्वा तां स्वकरे बालो वदति स्म द्विजं प्रति

॥४२॥

गणकाशु वद त्वन्नो गतं वस्तु महत्तरम् ।

केन नीतं कदा प्राप्तं भूयात् ते प्रत्ययो भवेत्

॥४३॥

इत्युक्तः स तु बालेन विचार्य जनसंसदि ।

बभाण हास्यवदनो मुद्रिका यदि लभ्यते

॥४४॥

ममैव यदि देया सा तदेदानीं ब्रवीम्यहम् ।

तथेति बालकेनोक्ते तवैव करगेति सा

॥४५॥

इत्थमुक्तो जिह्मवेषधारिणा वाडवेन सः ।

तया मन्त्रितया बालो न्यवधीत्तं हृदि क्षणात्

॥४६॥

स तया भिन्नहृदयो वज्राहत इवाचलः ।

निपपात धरापृष्ठे चालयन् वसुधां भृशम्

॥४७॥

पतता तस्य देहेन चूर्णितं नगरं कियत् ।

काशिराजो जनाः सर्वे आश्चर्यं मेनिरे तदा

॥४८॥

जहर्षुर्देवता सर्वाः पुष्पवृष्टिं सुचक्रिरे ।

स्वर्गभूवाद्यघोषैर्द्यौर्व्याप्ताऽभूद् भूतलं तदा

॥४९॥

जना ऊचुः

कथं ज्ञातोऽनेन दुष्टो ब्राह्मणो ब्रह्मवेषभृत् ।

राज्ञाऽपि न कृतं दैवाद् वाक्यं तस्य दुरात्मनः

॥५०॥

अयं बालो न मन्तव्यो भूभारहरणेऽमरः ।

अवतीर्णः कश्यपस्य गृहेऽसौ करूणानिधिः

॥५१॥

मुद्रिकाघातमात्रेण कथं प्राणान् जहौ बलि ।

इत्युक्त्वा पुपूजुः सर्वे नेमुस्तं तुष्टुवुर्जगुः

॥५२॥

ददौ दानानि विप्रेभ्यो राजा राजीवलोचनः ।

द्विजचारणबन्दिभ्यो दीनेभ्यश्चाप्यनेकशः

॥५३॥

नागरान् मानयित्वा तान् विससर्ज ततः सभाम् ।

बालोऽपि बालकं रन्तुं ययौ पूर्ववदज्ञवत्

॥५४॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते कपटिदैत्यवधो नामाष्टादशोऽध्यायः ॥ १८ ॥