मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 20

3
क्रीडाखण्डः · 20

बालचरिते दैत्यत्रयवधोनाम विंशतितमोऽध्यायः

व्यास उवाच

काशिराजगृहे ब्रह्मन् विवाहः स कदाऽभवत् ।

तन्ममाचक्ष्व भगवन् विस्तराच्चतुरानन

॥१॥

क उवाच

एकैकं नश्यतेऽरिष्टमपरं याति वै पुनः ।

अस्मिन्नष्टे करिष्यामीत्येवं यावद् विचार्यते

॥२॥

कूपे च कन्दरे नष्टे त्रयोऽप्यन्ये उदीरिताः ।

अन्धकोऽम्भासुरस्तुङ्गो राक्षसाः क्रूरदर्शनाः

॥३॥

जिघांसया गता बालं ततो युद्धमवर्तत ।

श्रुत्वा येषां तु सङ्ग्रामं ब्रह्माद्याः प्रापलन् भयात्

॥४॥

दिग्गजा मर्दिता यैस्तु विबुधानां तु का कथा ।

कदा यं कश्यपसुतो भविता दृष्टिगोचरः

॥५॥

नाशयामोऽनेकधा तमिति व्यवसिता भृशम् ।

यावन्तः प्रेषिता वीरास्तावन्तो निधनं गताः

॥६॥

वयमेनं हनिष्यामोऽजित्वा यामो न वै गृहान् ।

वह्निरूपं समास्थाय दाहयामो मुनेः सुतम्

॥७॥

अन्धकस्त्वब्रवीत् तत्र तमसा व्याप्य खं दिशः ।

अन्धकारं करिष्यामि धरायामथ सर्वतः

॥८॥

ततः परस्परदृर्शिर्न स्यात्तेषां कदाचन ।

अम्भासुरोऽब्रवीत्तत्र महीं सर्वां जलेन ह

॥९॥

आपुरं प्लावयिष्यामि समन्तान् न गतिर्भवेत् ।

तुङ्गोऽब्रवीदहं तुङ्गो गिरिर्भूत्वा पुरीं तु ताम्

॥१०॥

आलोड्य चूर्णयिष्यामि सपक्ष इव पर्वतः ।

अन्धकारे जले वह्नौ पर्वते सर्वतः स्थिते

॥११॥

कोऽपि गन्तुं न शक्नोति कथं बालो गमिष्यति ।

एवं निश्चितसङ्कल्पा जगर्जुस्ते त्रयो भृशम्

॥१२॥

तेषां गर्जितशब्देन कम्पितं भुवनत्रयम् ।

तत्यजुर्निजवेलान्ते सागराः क्षुभितोदकाः

॥१३॥

ततो रविं समाच्छाद्य तस्थौ तत्रान्धकासुरः ।

अन्धकारेमहाघोरे न प्राज्ञायत किञ्चन

॥१४॥

अकस्माद् रजनी प्राप्ता व्यवसाय परैर्जनैः ।

स्नानासक्तैर्जपासक्तैर्होमासक्तैर्नृभिस्तदा

॥१५॥

तपःसु वेदघोषेषु विवाहोपनयादिषु ।

कीर्तनेषु पुराणेषु द्विजदेवार्चनादिषु

॥१६॥

सक्तैर्नानाविधैर्लोकैर्निशा प्राप्ता व्रतादिषु ।

जजल्पुः किमु विन्ध्योऽयं रुणद्धि सूर्यमण्डलम्

॥१७॥

अथवा प्रलयो भावी वोपरागः समागतः ।

सभायामूचुरासीनं राजानमिति पण्डिताः

॥१८॥

तर्कयन्ति यावदेव गावोऽगुः स्वगृहान्तरम् ।

असम्भावितवेलासु चक्रुर्दीपान् गृहे गृहे

॥१९॥

कथमस्तमितिर्जाता न पाको न च भोजनम् ।

व्यस्मयन्त तदा नार्यो दुदुहुर्गाश्च काश्चन

॥२०॥

दीपिकाभिः काष्ठदीपैर्व्यवहारं जनास्तदा ।

चक्रुर्दुःखेन कार्याणि वाणिजो ब्राह्मणादयः

॥२१॥

सेवकानां महानन्दः कामिनां चाभवत् तदा ।

सालसानां प्रसुप्तानां निद्रालूनां तथैव च

॥२२॥

एवं कृते चान्धकेन नाम्ना चाम्भासुरस्तदा ।

मेघरूपेण ववृषे धारा हस्तिकरोपमाः

॥२३॥

शम्पाप्रकाशतो लोकाः क्षणमीक्षां प्रचक्रिरे ।

जलधारा भयात्सर्वे गृहमध्ये स्थिरास्तदा

॥२४॥

प्रासादान्यपतत् केचिद्गृहाणां भित्तिका अपि ।

अन्तः केचिद्बहिः केचिन्मृता जनचयास्तदा

॥२५॥

झञ्झावात हता वृक्षाः पतिता धरणीतले ।

सौदामिनीभिर्निर्दग्धा द्रुमा गृहचया बहु

॥२६॥

उत्तीराभिर्नदीभिः सा समुद्रैरिव संप्लुता ।

नगरी सर्वलोकाढ्या सर्वसत्त्वसमाकुला

॥२७॥

क उवाच

प्रलयं दैत्यमायां च ज्ञात्वा स करुणाकरः ।

विनायकोऽकरोन्मायां बलेन वटमुच्चकैः

॥२८॥

निर्ममे तत्क्षणादेकं लतागुल्मैः सुशोभितम् ।

शतयोजनविस्तीर्णं जटाशाखासमन्वितम्

॥२९॥

पक्षिरूपेण तत्रासौ स्थितो गगनलेहिनी ।

पक्षौ भूमौ प्रतिष्ठाप्य स्पृशंश्च शिरसा नभः

॥३०॥

प्रकाशयामास पुरीं पीत्वा चञ्च्वा जलं महत् ।

करेणाशोषयद् वन्यकरीव पल्वलोदकम्

॥३१॥

जना हर्षाद् हि जगदुर्गतो विघ्नो गतं जलम् ।

गतेऽन्धकारे ददृशुर्वटं सान्द्रतरं च तम्

॥३२॥

पक्षिणं चाद्भुताकारं न दृष्टं न च वै श्रुतम् ।

सर्वे जना ययुस्तत्र न्यग्रोधे स्थातुमुत्सुकाः

॥३३॥

अश्वर्गजैरथैरुष्ट्रैः शिबिकाभिर्नृभिस्तु तैः ।

स्त्रीभिर्दासैः काशिराजो वटस्याधः समाययौ

॥३४॥

पशवः सारमेयाश्च बिडाला वनगोचराः ।

विनायकप्रभावेण न वृष्टिस्तत्र नो तमः

॥३५॥

चक्रुः सर्वे पूर्ववत् ते वर्णाः कर्म यथाविधि ।

पौराः सद्व्यवसायेषु समसज्जन्त पूर्ववत्

॥३६॥

सर्वेषां रक्षणं कर्तुं पक्षिरूपमधारत् ।

जगदीशो गणेशो नु न जानीमोऽत्र किञ्चन

॥३७॥

विस्तार्य पक्षान् वृष्टिं यो न्यषेधीद् दैत्यकारिताम् ।

वृष्टिं सोल्कां सकरकां स्वयं सेहे सुखेन सः

॥३८॥

इति लोकास्तर्कयित्वा स्थिता निर्व्याकुलास्तदा ।

एकादश गता घस्रा एवं तत्र स्थितस्य च

॥३९॥

नाज्ञासीत् कोऽपि चरितं विनायककृतं द्विज ।

दृष्ट्वा विनायकं बालं क्रीडन्तं बालयूथगम्

॥४०॥

ततो दैत्यो क्षीणशक्ती निश्चेष्टौ समपद्यताम् ।

तुङ्गो जगर्ज बहुधा नादयन् प्रदिशो दिशः

॥४१॥

गिरिरूपं समास्थाय हनिष्ये पक्षिणं क्षणात ।

ब्रुवन्नेवं क्षणेनासौ पर्वतोऽभूदे भयङ्करः

॥४२॥

सरोनदीसमायुक्तः पञ्चयोजनविस्तृतः ।

दिव्यौषधीभिर्दीप्ताभिर्भासयन् गगनं दिशः

॥४३॥

नानापक्षिसमायुक्तो वाडवाश्रममण्डितः ।

सपक्षं पर्वतं दृष्ट्वा पतमानं स पक्षिराट्

॥४४॥

उड्डीय परिबभ्राम वारयामास तज्जलम् ।

घूर्णयन् पक्षवातेन जङ्गमाजङ्गमम् जगत्

॥४५॥

प्रस्था निपतिता भूमौ पर्वतानामितस्ततः ।

चञ्च्वा दध्रे स तुङ्गाद्रिं काश्यपिः फणिनं यथा

॥४६॥

सह तेनाभ्रमन् खेऽसौ लक्षयन् दानवावुभौ ।

अन्धकं चरणैकेन परेणाम्भासुरं च सः

॥४७॥

अतिक्रम्य भुवर्लोकमियाय स महाखगः ।

अतिभ्रमणखिन्नास्ते तप्ताश्च सूर्यरश्मिभिः

॥४८॥

निपेतुर्व्यसवो भूमौ त्रयः पर्वतसन्निभाः ।

पतन्तश्चूर्णयामासुर्वनान्युपवनानि च

॥४९॥

द्रष्टुं दैत्यशरीराणि स्त्रीबालसहिता जनाः ।

ययुस्ते नगराभ्याशे वीक्ष्याश्चर्यं परं ययुः

॥५०॥

खण्डानि तच्छरीराणां खण्डशैला इवाबभुः ।

निरस्य मायां दैत्यानां ततो लोका विसिस्मिरे

॥५१॥

(मायायां सन्निरस्तायां लोकास्तत्र विसिस्मिरे) वटं तं देवरूपेण ददृशुर्न च वै पुनः ।

अन्तर्हिते वटे पक्षिरूपं तत्याज सोऽर्भकः

॥५२॥

ततो विनायकं बालं काशिराजो लिलिङ्ग ह ।

पृष्ट्वा कुशलसम्प्रश्नं नागराश्च नृपश्च तम्

॥५३॥

पुपूजः परमप्रीत्या विघ्ननाशं विनायकम् ।

प्रशशंसुर्मुदा देवं कश्यपस्य सुतं जनाः

॥५४॥

न जानीमो वयं देवं मायां दैत्यकृतां पराम् ।

सामर्थ्यं ते गुणांश्चापि यत्र वेदा विकुण्ठिताः

॥५५॥

लीलया रक्षिताः सर्वे मोचिता बहुसङ्कटात् ।

वाता गता विनाशं च उत्पाताश्चैव वृष्टयः

॥५६॥

भाति बिम्बं रवेः सम्यगन्धकारे गते लयम् ।

मनांसि सर्वलोकानां प्रसन्नानि मुदा तदा

॥५७॥

नद्यः प्रसन्नसलिलाः सर्वमासीद् यथा पुरा ।

ववर्षुः पुष्पवर्षाणि देवदेवे विनायके

॥५८॥

नानावाद्यनिनादैस्तेऽलङ्कृतं पुरमाविशन् ।

ददुर्दानानि विप्रेभ्यो देवो नः प्रीयतामिती

॥५९॥

शान्तिहोमं विधायाऽसौ नृपोऽदाद् गोधनं बहु ।

विसृज्य सर्वान् बुभुजे विनायकयुतो नृपः

॥६०॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते दैत्यत्रयवधोनाम विंशतितमोऽध्यायः ॥ २० ॥